SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्भः १४३ कुमारो, मुहुर्मुहुर्जननीजनवयस्यसतीजनकुशलानुयोगमत्यादरेण विस्तार्य, सगर्भसङ्गमतुङ्गतमतोषेण सुखमासामास । समया कुरुकुञ्जरं निविष्टं कनकादिं निकषेव शीतरश्मिम् । __ अनुजं मनुजाधिपात्मजास्ते कुशलप्रश्नपुरःसरं परीयुः ॥२३।। एवं सोदरसमागमसन्तुष्टस्वान्तं कुरुकुमुदिनीकातमुपतिष्टमानेपु राजतनूजेपु, कदाचित्समरभसधावनजनितोचनिश्वासनिरन्तरनिःसरणदत्तार्थसाहाय्यकभरकम्पिततनुदण्डाः प्रचण्डवातचलितवालपादपसरूपाः, अन्तरमेयतया बहिःप्रसृतैरिव भयानकरसपूरैः स्वेदसलिलदैन्यसाम्राज्येऽभिषिक्ता इव गोपाः, राजमन्दिराजिरे आर्ततरमेवं चुक्रुशुः । हेलानाटकघोटकब्रजखुरप्राघुटनोद्यद्रजो राज्या रासभधूम्रया कबलिताकाशावकाशैः परैः। राजस्तावकगोधनं निखिलमप्यावृत्य नीतं स्वतां किञ्चोदञ्चितशिञ्जिनीपटुरवैर्षापोऽपि संक्षोभितः ।।२४।। उद्यत्प्रतापपटलेन सहस्ररश्मे \मण्डलं तव च भूमिपतेर्निरुद्धय । प्रत्यर्थिसैनिककुलं प्रचुराट्टहासै लॊकस्थितिं शिथिलयत्यरिधीरतां च ॥२५॥ मातृजनश्च वयस्याश्च सखायश्च सतीजनश्च ललनाजनश्चेति जननीजनवयस्यसतीजनास्तेषां कुशलानुयोगं मङ्गलप्रश्नम्, अन्यादरेण प्रेमातिशयेन, विस्तार्य प्रपञ्च्य, सगर्भस्य सहोदरस्य सङ्गमेन संसर्गेण तुङ्गतमः सून्नतो यस्तोपः प्रमोदस्तेन, सुखं यथा स्यात्तथा, आसामास आसाञ्चक्रे 'दयायासश्च' इत्याम् । समयेति-ते पूर्वोक्ताः, मनुजाधिपात्मजा लोकपालतनयाः, कनकादि सुवर्णशैलम्, निकषा समीपे, निविष्टं स्थितम्, शीतरश्मिमिव चन्द्रमसमिव, कुत्कुञ्जरं जीवन्धरम्, समया निकटे, 'अभितः परितः समया निकषाहाप्रतियोगेऽपि' इति द्वितीया, निविष्टम्, अनुजं लघुभ्रातरम्, कुशलप्रश्नपुरस्सरं मङ्गलानुयोगसहितम्, यथा स्यात्तथा, परीयुः परीत्य तस्थुः ॥२३॥ एवमिति-एवमनेन प्रकारेण, राजतनूजेषु नरेन्द्रनन्दनेषु, सोदरस्य सगर्भस्य समागमेन संयोगेन संतुष्टं प्रसन्नं स्वान्तं चित्तं यस्य तम्, कुरुकुमुदिनीकान्तं कुरुवंशचन्द्रम्, उपतिष्ठमानेषु मित्रीकुर्वत्सु मैत्रीभावेन समीपे तिष्टत्स्विति यावत्, कदाचिजातुचित् , सरभसं सवेगं यथा स्यात्तथा धावमानेन पलायनेन जनितः समुत्पन्नो य ऊर्ध्वनिःश्वास उच्चैःश्वासस्तस्य निरन्तरमजस्रं निःसरणेन निर्गमनेन दत्तोऽपितो योऽर्धसाहाय्यकभरः किञ्चित्सहायतासमूहस्तेन कम्पितो वेपितस्तनुदण्डः शरीरयष्टिर्येषां ते, प्रचण्डवातेन तीक्ष्णपवनेन चलिताः कम्पिता ये वालपादपा बालतरवस्तेषां सरूपाः सदृशाः, अन्तर्मध्ये, अमेयतया मातुमशक्यत्वेन, बहिरभ्यन्तरम्, प्रसृतैविस्तृतैः, भयानकरसपूरैरिव भयरससमूहैरिव, स्वेदसलिलः प्रस्वेदजलैः, दैन्यसाम्राज्ये कातरत्वराज्ये, अभिषिक्ता इव कृताभिषेका इव, गोपा आभीराः, राजमन्दिराजिरे नरेन्द्रमन्दिरचत्वरे, आतंतरं सदुःखप्रकर्ष यथा स्यात्तथा, एवं वच्यमाणरीत्या, चुक्रुशुः आक्रोशन्ति स्म । हेलानाटकेति-हे राजन् हे भूपाल ! रासभधूम्रया खररोमधूम्रवर्णया, हेलया क्रीडया नाटका नटन्तो गच्छन्तो ये घोटका अश्वास्तेषां व्रजः समूहस्तस्य खुराः शफास्तेषां प्राधुट्टनेन संघर्षणेनोद्यन्ती समुत्पतन्ती या रजोराजिबूंलिपङ्क्तिस्तया, कवलितो ग्रासीकृत आकाशावकाशो नभोऽवगाहो येस्तैः, पर शत्रुभिः, निखिलमपि समस्तमपि, तावकगोधनं त्वदीयगोसमूहः, स्वतां स्वकीयताम्, नीतं प्रापितम्, किञ्च अन्यच्च, उदञ्चिता उत्पन्ना ये शिञ्जिनीनां प्रत्यञ्चानां पटुरवास्ताक्षणशब्दास्तैः, घोषोऽपि आभीरवसतिरपि, संक्षोभितः क्षोभं प्रापितः। शार्दूलविक्रीडितं वृत्तम् ॥२४॥ उद्यत्प्रतापपटलेनेति--प्रत्यर्थिसैनिककुलं शत्रुसैन्यसमूहः, उद्यत्प्रतापपटलेन समुद्भवत्प्रताप
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy