SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १४२ जीवन्धरचम्पूकाव्ये इति करुणमयैर्गिरां प्रवाहैरनुजमुखानुदितैः कुरूद्वहोऽसौ । भृशमतनुत तापभारमन्तर्वदनतले न विकारलेशलेशम् ।।१।। अवाचयदसौ पत्रं सगर्भेग समर्पितम् । गन्धर्वदत्तालिखितं विचित्राक्षरलक्षितम् ।।२०।। आर्यपुत्र ! गुणमाला विज्ञापयत्येवम्कन्दर्पो विषमस्तनोति तनुतां तन्वां ज्वरे गौरवं ___मृत्युश्चापि दयाकथाविरहितो मां नैव सम्भाषते । आर्य त्वं च नवाङ्गनासुखवशाद्विस्मृत्य मां मोदसे जातीपल्लवकोमला कथमियं जीवेत्तव प्रेयसी ॥२१॥ स्वामिन्नङ्करितौ ममोरसि कुचौ वृद्धिं गतौ तावके वाचस्तावकवाग्रसैः परिचिता मौग्ध्येन सन्त्याजिताः । बाहू मातृगलस्थलादपसृतौ त्वत्कण्ठदेशेऽर्पिता वार्य प्रेमपयोनिधे स्थितमिदं विज्ञापितं किं पुनः ॥२२॥ इति प्रियाया अन्यापदेशलिखनपरिपाटीं मनसा चिन्तयन्प्रियाशोकविदीर्णशरीरः कुरु इति करुणमयैरिति-इति पूर्वोक्तप्रकारेण, अनुजमुखाल्लघुसहोदरवदनात्, उदितैर्निर्गतैः, करुणमयैः करुणरसात्मकैः, गिरां वाचाम्, प्रवाहैः सन्तानः, असौ कुरूद्वहो जीवन्धरः, अन्तर्मनसि, भृशमत्यन्तम्, तापभारं खेदसमूहम्, अतनुत विस्तारयामास, वदनतले मुखतले, विकारस्य शोकजन्यविकृतेर्लेशस्यापि लेशो भागस्यापि भागस्तम्, नातनुत नो विस्तारयामास । महापुरुषत्वाबाह्ये शोकचिह्न न प्रकटयामासेति भावः । पुष्पितानाच्छन्दः ॥१६॥ अवाचयइसाविति-असौ स्वामी, समानो गर्भो यस्य तेन सहोदरेण, समर्पितं प्रदत्तम् । गन्धर्वदत्तया प्रथमपन्या लिखितमङ्क्तितम् । विचित्राक्षरैरद्भुतवर्णेलक्षितं सहितम् । पत्रं संदेशकर्गलम्, अवाचयद् वाचयामास ॥२०॥ आर्यपुत्रेति–आर्यपुत्र ! हे हृदयवल्लभ ! गुणमाला भवद्भार्या, एवमनेन प्रकारेण, विज्ञापयति निवेदयति कन्दर्प इति-विषमस्तीच्णः, कन्दर्पो मदनः, तन्वां शरीरे, तनुतां कृशताम्, ज्वरे कामतापे, गौरवं गुरुत्वम्, तनोति विस्तारयति, दयाकथाविरहितः करुणावार्ताशून्यः, मृत्युश्चापि यमश्चापि, मां विरहिणीम्, नैव सम्भापते नैव ब्रवीति, हे आर्य हे पूज्य, त्वं च भवॉश्च, नवागनासुखवशात् अभिनवरामासुखाधीनत्वात्, मां विस्मृत्य विस्मृतां कृत्वा, मोदसे हृष्यसि, जातीपल्लवा इव मालाकिसलया इव कोमला मृदुला, तव भवतः, इयमेघा, प्रेयसी प्रियवल्लभा, कथम् केन प्रकारेण, जीवेत् जीविता भवेत् ॥२१॥ स्वामिन्निति-हे स्वामिन् हे जीवितेश्वर, कुचौ वक्षोजौ, मम गुणमालायाः, उरसि वक्षसि, अङ्कुरितौ प्ररूढो समुत्पन्नाविति यावत् , तावके त्वदीये च, उरसि वक्षसि, वृद्धि विस्तारम्, गतौ प्राप्तौ, वाचो गिरः, तावकवाग्रसस्त्वदीयवचनस्ने हैः, परिचिताः प्राप्तकत्वाः, सत्यः, मौग्ध्येन मूढत्वेन, सन्त्याजिता मोचिताः, मातुर्जनन्या गलस्थलात्कण्ठप्रदेशात्, अपसृतौ दूरीकृतो, बाहू भुजौ, तव कण्ठदेशस्तस्मिन् त्वदीयगलप्रदेशे, अर्पितौ स्थापितो, हे आर्य हे पूज्य, हे प्रेमपयोनिधे हे प्रीतिपारावार ! स्थितं वर्तमानम्, इदमेतत्, विज्ञापितं निवेदितम्, पुनरनन्तरम्, कि भविष्यतीति को जानीते ॥२२॥ इति प्रियाया इति–इत्येवं प्रकारेण, प्रियाया गन्धर्वदत्तायाः, अन्यस्या गुणमालाया अपदेशेन व्याजन या लिखनपरिपाटी लेखनपरम्परा ताम्, मनसा चेतसा, चिन्तयन् विचारयन् , प्रियाशोकेन भार्याविषादेन विदीर्ण भिन्नं शरीरं यस्य तथाभूतः, कुरुकुमारो जीवन्धरः, मुहुर्मुहुर्भूयोभूयः, जननीजनश्च
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy