SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्भः प्रजावति विजानती सकलपद्धतिं त्वं कथं विभर्षि नवमालिकां कचकुले हरिद्रां तनौ । न युक्तमिदमास्थितं विगतभर्तृवामभ्रुवां वृथा खलु सुखासिका सकललोकगर्हास्पदम् ॥ १५ ॥ इत्युक्ता सा विशालाक्षी मन्दहासाननाम्बुजा | पिकीव मधुरालापा मधुरां वाचमाददे ||१६|| अङ्ग तावकसहोदरवर्यस्तुङ्गपुण्यविभवेन मण्डितः । क्षेमवाञ्जयति सौख्यपरीतः पापतो वयमिहाततदुःखाः ||१७|| देशे देशे सुन्दरीश्चन्द्रवक्त्रः पाणौकृत्य प्राप्तहर्ष प्रकर्षः । हेमाभाख्ये पत्तने सोऽयमद्य प्रीतां राज्ञो नन्दिनीं सन्दधाति ||१८|| १४ ३ एवमगण्यपुण्यवशेन विपदमपि संपदात्मना परिणतामनुभवन्तं सुखमावसन्तं निरन्तरनिपतद्राजतनृजमकुटराजिनीराजितचरणनीरेजं भवदीयाग्रजं द्रष्टुमिच्छसि चेद्गम्येतेति प्रतिपाद्य, विद्यावैशद्येन स्मरतरङ्गिणीनाम्नि शयनतले शाययित्वा, सपत्रं मामत्रभवति प्राहिणोत् प्रजावतीति - हे प्रजावति हे भ्रातृजाये, सकलपद्धति निखिलरीतिम्, विजानती बुध्यमाना, त्वं भवती, कचकुले केशसमूहे, नवमालिकां नूतनत्रजम्, तनौ शरीरे, हरिद्रां रजनीम् पीताङ्गरागमिति यावत्, कथं केन कारणेन, बिभर्षि दधासि इदमेतत्, आस्थितं पद्धतिः, युक्तं न साम्प्रतं न खलु निश्चयेन, विगतः प्रोषितो भर्ता वल्लभो यासां तथाभूता या वामभ्रुवो वनितास्तासाम्, वृथा निष्प्रयोजना, सुखासिका सुखास्थितिः, सकललोकानां निखिलनराणां गर्हास्पदं निन्दास्थानम्, अस्तीति शेषः | पृथ्वीच्छन्दः ॥१५॥ इत्युक्तेति — इति पूर्वोक्तप्रकारेण मया, उक्ता कथिता, सा विशालाक्षी दीर्घलोचना, मन्दो हासो यस्मिंस्तन्मन्दहासं तथाभूतमाननाम्बुजं यस्याः सा मन्दस्मितोपलक्षितवदनारविन्दा, पिकीव कोकिलेव, मधुरालापा मिष्टभापणा, सती, मधुरां मिष्टाम्, वाचं वाणीम्, आददे जग्राह ॥ १६ ॥ अङ्ग तावकेति — अङ्गेति सम्बुद्धौ तुङ्गश्वासौ पुण्यविभवश्चेति तुङ्गपुण्यविभवस्तेन सून्नतसुकृतैश्वर्येण, मण्डितः शोभितः, क्षेमवान् कल्याणयुक्तः, सौख्येन सुखेन परीतो व्याप्तः, तावकस्त्वदीयश्वास सहोदरचर्यो भ्रातृज्येष्ठश्चेति तावकसहोदरवर्यः, जयति सर्वोत्कर्षेण वर्तते, पापतो दुरितोदयात्, इह नगरे, वयम्, आततं व्याप्तं दुःखं येषां तथाभूताः स्म इति शेषः । रथोद्धतास्वागतासंमिश्रणादुपजाति वृत्तम् ॥३७॥ देशे देश इति — देशे देशे प्रतिजनपदम् सुन्दरी: सुललनाः, पाणौकृन्य परिणीय, प्राप्तो लब्धो हर्षंप्रकर्षः प्रमोदातिशयो येन तथाभूतः, चन्द्र इव वक्त्रं मुखं यस्य सः, सोऽयं त्वदीयो भ्राता, अद्य साम्प्रतम्, हेमाभाख्ये हेमाभनाम्नि, पत्तने पुटभेदने, राज्ञो नृपस्य प्रीतां प्रसन्नाम्, नन्दिनीं पुत्रम्, सन्दधाति सन्धारयति, तां सम्प्राप्तोऽस्तीति यावत् । शालिनीच्छन्दः ॥ १८ ॥ एवमगण्येति - एवमनेन प्रकारेण, अगण्यञ्च तत्पुण्यञ्चेत्यगण्यपुण्यम् अपरिमितसुकृतं तस्य वशस्तेन विपदमपि विपत्तिमपि संपदात्मना सम्पत्तिस्वरूपेण परिणतां परिवर्तिताम्, अनुभवन्तमुपभुञ्जानम्, सुखमावसन्तं हर्पेण निवसन्तम्, निरन्तरं शश्वन्निपतिनानि नम्रीभूतानि यानि राजतनूजमकुटानि नरेन्द्रनन्दनमौलयस्तेषां राजिभिः पक्तिभिर्नीराजितं कृतारातिकं चरणनीरेजं पादारविन्दं यस्य तथाभूतम्, भवदीयाग्रजं स्वकीयज्येष्टसहोदरम्, दृष्टुमवलोकयितुम् इच्छसि वाञ्छसि चेद्यदि, गम्येत व्रज्येत, तर्हि, इतीत्थम्, प्रतिपाद्य निवेद्य, विद्याया मन्त्रस्य वैशद्यं नैर्मल्यं तेन, स्मरतरङ्गिणीनाम्नि स्मरतरङ्गिणीनामधेये, शयनतले शय्यापृष्ठे, शाययित्वा स्वापयित्वा सपत्रं पत्रसहितम्, मां नन्दाढ्यम्, अत्रभवति पूजनीये त्वयि, प्राहिणात् प्रजिघाय |
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy