________________
१४०
जीवन्धरचम्पूकाव्ये वाचामगोचरे शोकपारावारे निपातिताम् । निरीक्ष्य बन्धुतां दीनां मर्तुं व्यवसिता वयम् ॥१२॥
मद्वान्तवाष्पधारया प्रथमामीतिबाधामिवावहन्तौ मातापितरावेवं प्रलापमातेनतुः ।। अहह बत तनूज वासि दैवं दुरन्तं
तनयबिपदि सत्यामप्यहो दुःसहायाम् । परुषविजितवज्रं जीवितं निश्चलं नौ
कथमियमतिदीर्घा दुर्दशा हा विलङ्घया ॥१३॥ इत्यादिनिरङ्कशपरिदेवनरवविजम्भिते पित्रोर्मुनिवाक्यस्मरणेन कथं कथमपि शान्ततां नीते, देदीप्यमानशोकज्वालाविह्वलेषु बन्धुकुलेषु, काष्ठाङ्गारनिन्दापरेषु पौरेषु, दुष्पूरदःखपूरेषु युष्मत्सहचरेपु, मरणोद्योगविस्मारितेतरवृत्तान्तानामस्माकं दैववशेन विद्याविदितवृत्तान्ता प्रजावती कथंवृत्तेति स्थाने बोधः समजायत ।
एवं भवदर्शनभाविसौख्यसंप्रापकादृष्टवशेन सद्यः । प्रजावतीमन्दिरमेत्य सोऽहं विपाददीनाक्षरमेवमूचे ॥१४॥
बन्धूनां निखिलभ्रातृणां गणः समूहस्तस्य, मनसि चेतसि, दुःसहशोको हुताशन इव दुःसहशोकहुताशनो दुर्भरविषादवैश्वानरः, उस्थितः समुत्पन्नः । द्रुतविलम्बितवृत्तम् ॥ ११ ॥
तदानीमिति तदानीं भवन्निष्क्रमणकाले, दुरन्तेन दुष्टावसानेन दुःखेन नितान्नमत्यन्तं तान्तं खिन्नं स्वान्तं चित्तं ययोस्तो, सन्ततं निरन्तरम्, उद्वान्तवाप्पधारया प्रकटिताश्रुसन्तत्या, प्रथमामाद्याम्, ईतेर्वाधा तामिव अतिवृष्टिपीडामिव, आवहन्तौ आदधतौ, माता च पिता चेति मातापितरौ जननीजनको 'आनऋता द्वन्द्वे' इत्यानड़, एवं वचयमाणप्रकारेण, प्रलापं विलापम्, आतेनतुविस्तारयामासतः।
अहह बतेति-'अहह 'बत' इत्यव्ययद्वयं दुखातिशये वर्तते, हे तनूज हे पुत्र, क्वासि कुत्र वर्तसे, देवं भाग्यम्, अस्माकमिति शेषः, दुरन्तं दुष्टावसानं वर्तते, मत्पुत्रा म्रियन्ते स्म देवाल्लब्धस्त्वमपि कुत्रचिनिर्गत इत्यहो मम दौर्भाग्यमिति भावः । दुःसहायां कठिनायाम्, तनयविपदि सुतविपत्ती, सत्यामपि विद्यमानायामपि, निश्चलं स्थिरम्, नौ आवयोः, जीवितं जीवनम्, परुपेण काठिन्येन विजितं पराभूतं वज्रं दम्भोलियेन तथाभूतम्, अस्तीत्यहो आश्चर्यम्, अतिदीर्घा विशालतरा, इयमेपा, दुर्दशा दुरवस्था, कथं केन प्रकारेण, विलङ्घया समतिकाम्या, हा खेदे । मालिनीच्छन्दः ॥ १३॥
इत्यादीति-पित्रोर्मातापित्रोः, इत्यादिः पूर्वोक्तप्रकारो यो निरङ्कुशपरिवेदनरवो निर्बाधविलापशब्दस्तस्य विजृम्भितं विजृम्भणं वृद्धिरिति यावत् तस्मिन् , भावे क्तः, मुनिवाक्यस्य 'चरमशरीरी ते पुत्रो भविष्यति' इति यतीन्द्रवचनस्य स्मरणेन ध्यानेन, कथं कथमपि केन केनापि प्रकारेण, शान्ततां समाप्तिम्, नीते प्राप्ते सति, बन्धुकुलेषु सहोदरसमूहेपु, देदीप्यमानया जाज्वल्यमानया शोकज्वालया विपादार्चिपा विह्वला विकलास्तेषु सत्सु, पौरेषु नागरिकेषु, काष्टाङ्गारस्य कृतघ्नस्य निन्दायां गर्हायां पराः सक्तास्तेपु सत्सु, युष्मत्सहचरेषु त्वत्सुहृत्सु, दुष्पूरो दुःखपूरो येषां तेषु दुर्भरदुःखसमूहेपु सत्सु, मरणोद्योगेन मृत्युव्यवसायेन विस्मारिता इतरवृत्तान्ता अन्योदन्ता यस्तेषाम्, अस्माकं मम, विद्यया विदितोऽवगतो वृत्तान्त उदन्तो यया सा, प्रजावती भ्रातृजाया गन्धर्वदत्तेति यावत् , कथंवत्ता कीदृगुदन्ता, अस्तीति शेषः, इति इत्याकारकः, स्थाने युक्तः, बोधो ज्ञानम्, समजायत समुत्पन्नो बभूव ।
एवमिति-एवमनेन प्रकारेण, सोऽहं कृतमरणनिश्चयो नन्दाढ्यः, भवतो दर्शनं भवद्दर्शनं त्वदवलोकनं तेन भावि भविष्यद्यत्सौख्यं तस्य संग्रापकं लम्भकं यददृष्टं देवं तस्य वशो निघ्नत्वं तेन, सद्यो झटिति, प्रजावत्या गन्धर्वदत्ताया मन्दिरं भवनम्, एत्य प्राप्य, विषादेन त्वद्विरहजन्यखेदेन दीनाक्षरं मन्दाक्षर यथा स्यात्तथा, एवमनेन प्रकारेण, ऊचे जगाद ॥१४॥