SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्भः कुरुवीरवक्षसि कवाटविस्तृते न ममौ वपुः प्रमदभारमांसलम् । अनुजस्य तत्तदपि बाहुवल्लरीयुगलेन दैर्घ्यगुरुणाभिषस्वजे ॥८॥ विनयेन वामनमयं सहोदरं शिरसि स्म जिघ्रति कुरुत्तमो मुहुः । अनुजाङ्गसङ्गमसुखस्य सूचकैनरोमकूपनिचयैर्निरन्तरः ॥ ६ ॥ आनन्दबाष्पैरभिषिक्तगात्रं सहोदरं हर्षविकासिनेत्रम् । आपृच्छय सौख्यं कुरुवंशकेतुः कथं समागा इति सोऽन्वयुक्त ॥१०॥ इति भ्रातुरनुयोगशैलीं श्रवसा परिगृह्य मनसा ध्यातप्राक्तनवृत्तान्तः, पुनः प्रत्यावृताग्रजविप्रयोगदुःखतान्तः इव सरभसमुद्भूतनिःश्वसितसन्दीपितस्मृतिपथसंगतवियोगवह्निसंगादिव कोष्णान् तत्पूर्वतनानानन्दाश्रुबिन्दूनेव दुःखबाष्पासारतया परिणतान् स्फुटितमुक्तासरमगीनिव परितः किरन् , अमन्दतराक्रन्दनवेगं कथं कथमपि नियम्य नन्दाव्यः स्वहृदयलगद्गद्गदः सगद्गदमुत्तरमादातुमुपचक्रमे। भवति राजपुरात्सति निर्गते सपदि पापविपाकवशेन नः । सकलबन्धुगणस्य तदोस्थितो मनसि दुःसहशोकहुताशनः ॥११॥ कुसुमाञ्चितेन विकसत्पुष्पपूजितेन, मूर्ना शिरसा, यावत् क्षितिभागं भूप्रदेश, नास्पृशत् न स्पर्श चकार तावत् रभसेन वेगेन, कुरुद्वहेन जीवन्धरेण, कोमलबाहुयष्टिना मृदुलभुजदण्डेन जगृहे गृह्यते स्म ॥७॥ __ कुरुवीरेति-प्रमदभारेण प्रमोदातिशयेन मांसलं पुष्टम्, अनुजस्य लघुसहोदरस्य, वपुः शरीरम्, कवाटवद् विस्तृतं तस्मिन् अरर विस्तीर्णे, कुरुवीरस्य जीवन्वरस्य वक्षसि भुजमध्ये, न ममौ न माति स्म, यद्यपि, तदपि तथापि, दैर्येणायतत्वेन गुरु विशालं तेन, बाहुवल्लरीयुगलेन भुजलतायुगेन, तदनुजवपुः, अभिषस्वजे समाश्लिष्टम् । मजुभाषिणीच्छन्दः ॥ ८॥ विनयेनेति--अनुजस्य लघुसहोदरस्य यदङ्गं शरीरं तस्य सङ्गमेन संसर्गेण यन्सुखं शातं तस्य, सूचकैनिवेदकैः, धनाः सान्द्रा ये रोमकूपा लोमकूपास्तेषां निचयः समूहैः, निरन्तरो व्याप्तः, अयमेषः, कुरूद्वहो जीवन्धरः, विनयेन प्रहत्वेन, वामनं खर्व नम्रमिति यावत् 'खो हस्वश्च वामनः' इत्यमरः, सहोदरं सनाभिम्, शिरसि मूनि, मुहुरनेकवारम्, जिप्रति स्म जत्रौ, गुरुजना लघुजनं शिरसि जिवन्तीति लोकव्यवहारः॥६॥ आनन्दबाष्पैरिति-सः प्रसिद्धः कुरुवंशकेतुः सात्यन्धरिः, आनन्दवाप्पैर्ह श्रुभिः, अभिषिक्तं स्नपितं गानं शरीरं यस्य तम्, हर्षविकासिनी नेत्रे यस्य तं संमदोल्लसितनयनम्, सहोदरं सगर्भम्, सौख्यं कुशलम्, आपृच्छय पृष्ट्वा, कथं केन प्रकारेण, समागाः समागमः, इत्येवम्, अन्वयुङ्क पपृच्छ ॥ १० ॥ इति भ्रातुरिति-इति पूर्वोक्ताम्, भ्रातुरग्रजस्य, अनुयोगशैली प्रश्नपरम्पराम, श्रवसा कर्णेन, परिगृह्य समादाय श्रुत्वेति यावत् , मनसा चेतसा, ध्यातश्चिन्तितः प्राक्तनवृत्तान्तः पूर्वोदन्तो येन तथाभूतः, पुनर्भूयः, प्रत्यावृत्तेन प्रत्यागतेन अग्रजविप्रयोगदुःखेन ज्येष्टभ्रातृविरहाशर्मणा तान्त इव दुःखीकृत इव, सरभसं सवेगम, उद्भूतानि समुत्पन्नानि यानि निःश्वसितानि दुःखोच्छासास्तैर्दीपितः सन्धुक्षितो यः स्मृतिपथसंगतो ध्यानमार्गागतो वियोगवह्निविरहानलस्तस्य संगादिव संसर्गादिव कोष्णान् ईपदुष्णान् , दुःखबाष्पासारतया विपादाश्रुधारासंपाततया परिणतान् परिवर्तितान् , तत्पूर्वतनान् तत्प्राग्भवान् , आनन्दाश्रुबिन्दूनेव हर्षाश्रुशीकरानेव, स्फुटिताः खण्डिता ये मुक्तासरमणयो मौक्तिकनगरत्नानि तानिव, परितः समन्तात् , किरन् प्रक्षिपन् , अमन्दतरः प्रचुरतरो य आक्रन्दनवेगो रोदनवेगस्तम्, कथं कथमपि केन केनापि प्रकारेण, नियम्य समवरुध्य, स्वहृदये स्वकीयचेतसि लगन् समासन् गद्गदो बाष्पावरुद्वकण्ठवं यस्य तथाभूतः सन् , सगद्गदं गद्गदसहितं यथा स्यात्तथा, उत्तरं प्रतिवचनम्, आदातुं गृहीतुम्, उपचक्रमे तत्परो बभूव । भवतीति-तदा तस्मिन् काले, नोऽस्माकम्, पापस्य दुरितस्य विपाकः परिणामस्तस्य वशो निनत्वं तेन, भवति त्वयि, सपदि शीघ्रम्, राजपुरात् स्वाधिष्ठानभूतान्नगरात् , निर्गते निष्क्रान्ते सति, सकल
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy