________________
१३८
जीवन्धरचम्पूकाव्ये
इति पृष्ट्रा चकोराक्षी मधुरां गिरमाददे । अजनी भृङ्गमुखरा मकरन्दकरीमिव ||३||
अत्र चायुधगृहेऽपि चैकदा त्वां निरीक्ष्य परिमण्डितं श्रिया । चित्रिते 'रमति चित्तमन्दिरे संमदो मम विवक्षया सह ||४||
इत्यादिवचनरचनां चन्द्रकला मित्र कान्ताजनकटाक्षलीलामिवेक्षुचापकोदण्डयष्टिमिव च चक्रमधुरामाकर्ण्य विस्मितान्तरङ्गः कुरुशशाङ्कः, किमिदमश्रुतपूर्वमिति चिन्तयन् क्रमेण नन्दाढ्यः समागतः किमित्यूहाञ्चक्रे ।
ayपा प्रथमं विवेश शालां मनसा चैव ततः कुरूद्वहः । कुतुकप्रसरे हि निर्निरोधे क्रमभावो न च तत्र लक्ष्यते ||५|| अवलोक्याग्रजन्मानं नन्दाढ्यो मन्दविस्मयः । प्रमोदभार गुरुणा वपुषा प्रणनाम सः ॥६॥ विकसत्कुसुमाञ्चितेन मूर्ध्ना क्षितिभागं स न यावदस्पृशत् । रभसेन कुरूद्वहेन तावज्जगृहे कोमलवाहुष्टिना ||७||
वस्तु, वक्तुकामासि कथयिनुमना असि, कोमलबन्धं मृदुलाश्लेषणं गात्रं शरीरं यस्यास्तत्सम्बुद्धी हे कोमलबन्धगात्रि, किं किंप्रयोजनेन आगता सम्प्राप्ता, स्मितेन सन्दहसितेनावादता समुज्ज्वला, तव भवत्याः, वक्त्रलक्ष्मीर्मुखश्रीः, आदरतो विनयतः वक्तुमिच्छां विवज्ञाम्, संसूचयति प्रकटयति ॥ २ ॥
इति पृष्टेति - इत्येवं प्रकारेण पृष्टानुयुक्ता, चकोराक्षी जीवजीवलोचना सा ललना, भृङ्गमुखरा भ्रमरशब्दायमाना, अब्जिनी कमलिनी, मकरन्दकरीमिव कौसुमसन्ततिमिव, मधुरां मनोहराम्, गिरं भारतीम्, आइदे जग्राह उवाचेति यावत् ॥ ३ ॥
अत्र चेति - अत्रास्मिन् प्रदेशे, आयुधगृहेऽपि च शस्त्रशालायामपि च एकदा युगपत् श्रिया लक्ष्म्या, परिमण्डितं शोभितम् त्वां भवन्तम्, निरीच्य दृष्ट्वा चित्रमाश्वर्यं संजातं यस्मिंस्तस्मिन् मम भवत्पुरो वर्तमानायाः, चित्तमन्दिरे मानसहयै, विवक्षया सह वक्तुमिच्छया सार्धम्, संमदो हर्पः, 'मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः' इत्यमरः, रमति क्रीडते, अन परस्मैपदप्रयोगश्चन्त्यः । रथोद्धृतावृत्तम् । 'रान्नराविह् रथोद्धता लगौ' इति लक्षणात् ॥४॥
इत्यादिवचनरचनामिति - चन्द्रकलामिव शशिपोडशभागमिव कान्ताजनस्य वनितावृन्दस्य कटाक्षलीलामिवापाङ्गशोभामिव, इक्षुचापस्य कामस्य कोदण्डयष्टिमिव धनुर्यष्टिमिव च वक्रमथुरां कुटिलमनोहारिणीम्, इत्यादिवचनरचनां पूर्वोक्तवाणीपरिपाटीम्, आकर्ण्य श्रुत्वा विस्मितमाश्चर्यचकितमन्तरङ्ग चेतो यस्य तथाभूतः, कुरुशशाङ्कः कुरु-शचन्द्रो जीवन्धरः पूर्वं प्राग् न श्रुतं दृष्टचेत्यश्रुतदृष्टपूर्वम्, इदमेतत्, किं स्यात् इत्येवम्, चिन्तयन् विचारयन्, विजयानन्दनः क्रमेण क्रमशः नन्दाढ्यो गन्धोत्कटपुत्रः, समागतः समायातः, किमिति तर्फे, इतीत्थम्, उहान्चक्रे तर्कयामास, 'इजादेश्वगुरुमतोऽनृछः' इत्याम् ।
वपुपा प्रथममिति - कुरुद्वहो जीवन्धरः, प्रथमं प्राकू, वपुषा शरीरेण, शालां भवनं शस्त्रागारमिति यावत्, विवेश प्रविशति स्म, ततः पश्चात्, मनसा चैव चेतसा चापि हि यतः, निर्विरोधेऽप्रतिबन्धे, कुतुकप्रसरे कौतुकविस्तारे, सति, तत्र कार्येषु, क्रमभावः पौर्वापर्यम्, न लक्ष्यते न दृश्यते । अर्थान्तरन्यासः ||५|| अवलोक्येति — अमन्द्रो भूयान् विस्मय आश्चर्यं यस्य तथाभूतः, स वितर्कितः, नन्दाढ्यो जीवकानुजः, अग्रजन्मानं ज्येष्ठसहोदरम्, अवलोक्य दृष्ट्वा, प्रमोदभारेण हर्षातिरेकेण गुरु दुर्भरं तेन वपुषा शरीरेण,
प्रणनाम नमश्चकार ॥ ६ ॥
विकसत्कुसुमेति- - सनन्द्राट्यः, विकसन्ति च तानि कुसुमानि च विकसत्कुसुमानि तैरचितस्तेन विकसत्
१. अत्र परस्मैपदप्रयोगश्चिन्त्यः |