________________
अष्टमो लम्भः नीलालकां तामुपयम्य रामां कुरूद्वहः सौख्यपयोधिमग्नः ।
स्यालेषु वात्सल्यवशेन तत्र चिरं न्यवात्सीद्रमयन्मृगाक्षीम् ।।शा अथ कदाचि-मन्दस्मितमकरन्दोद्गारिवदनारविन्दां विस्मयवशप्रमुषितनिमेपनयन नीलोत्पलतया सालकाननाच्छोणाधरपल्लवसौरभ्यसमाकृष्टौ नासाचम्पकदर्शनेन तत्रैव निश्चलतामुपगतौ भृङ्गाविति सम्भावनां सम्पादयन्तीम् , मरकतवलयप्रभावहलीकृतरोमराजिलताकान्तिम्, वल्गत्कुचजितमरालगमनकेलीपरवशतया मन्दानिलान्दोलितगुलुच्छयुगली जङ्गमकनकलतां तुलयन्तीम, सम्मुखासीनमप्यात्मानं सकलमनुजनयनसरोजकुड्मलीकरणचणेन तेजःप्रसरणेन परीतं द्रष्टुमक्षमतया नलिनान्तिकोल्लासितपल्लवतल्लजभ्रमकारिणा नयनोपरिभागचारुणा पाणिना मुखं व्यवधाय पश्यन्तीम् , प्रान्तमावसन्तीं जीवन्धरः काञ्चिदायताक्षीमप्राक्षीत् ।
कि वक्तुकामासि कुरङ्ग-नात्र किमागता कोमलवन्धगात्रि । स्मितावदाता तव वक्त्रलक्ष्मीः संसूचयत्यादरतो विवक्षाम् ॥२॥
नीलालकामिति-नीला अलका यस्यास्तां श्यामलचूर्णकुन्तलाम् , तां पूर्वोक्ताम् , रामां कनकमालाभिधानां प्रियाम् , उपयम्य परिणीय, सौख्यपयोधौ शातसागरे मग्नो बुडित इति सौख्यपयोधिमग्नः, कुरूद्वहो जीवन्धरः, स्यालेषु भार्याभ्रातृपु, वात्सल्यवशेन स्नेहनिघ्नतया, मृगाक्षी कुरङ्गलोचनाम् , रमयन् क्रीडयन् , सन् , तत्र हेमाभपुर्याम् , चिरं बहुकालं यावत् , न्यवासीत् निवसति स्म ॥१॥
अथ कदाचिदिति-अथानन्तरम् , कदाचिज्जातुचित् , मन्दस्मितमेव मन्दहास्यमेव मकरन्दं कौसुमं तदुद्गारि तत्प्रकटयित वदनारविन्दं मुखसरसीरुहं यस्यास्ताम्, विस्मयवशेनाश्चर्यवशेन प्रमुषितो दरीभूतो निमेपः पक्षमपातो ग्राभ्यां तथाभूते नयनीलोत्पले नेत्रकुवलये यस्यास्तस्या भावस्तत्ता तया, सालकं सचूर्णकुन्तलं यदाननं वदनं तस्मात्, अथ च सालकाननमेव सालानां सर्जतरूणां काननं वनं तस्मात् , शोणश्वासावधरपल्लवश्चेति शोणाधर पल्लवो लोहितदशनच्छदकिसलयस्तस्य सौरभ्येण सौगन्ध्येन समाकृष्टौ बलादाहूतौ, नासाचम्पकस्य घ्राणचाम्पेयस्य दर्शनं समवलोकनं तेन, तत्रैव नासोपरिभाग एव, निश्चलतां स्थिरताम्, उपगती प्राप्ती, भृङ्गो भ्रमरौ, इतीत्थम्, सम्भावनामुत्प्रेक्षाम, सम्पादयन्तीमुत्पादयन्तीम्, मरकतवलयस्य हरिन्मणिनिर्मितकटकस्य प्रभया दीन्या बहलीकृता प्रचुरीकृता रोमराजिलताया लोमपङक्तिवल्लाः कान्तिर्दीप्तिर्यस्यास्ताम्, बल्गगयां संचलद्भयां कुचाभ्यां स्तनाभ्यां जितमराला पराभूतसितच्छदा या गमनकेली गमनक्रीडा तस्याः परवशतया निन्नतया, मन्दानिलेन मन्दपवनेनान्दोलिता कम्पिता गुलुच्छयुगली स्तवकयुगी यस्यास्ताम्, जङ्गमकनकलतां गतिशीलसुवर्णवल्लरीम्, तुलयन्तीमुपमिमानाम्, संमुखासीनमपि पुरस्तादुपविष्टमपि, सकलमनुजानां निखिलनराणां यानि नयनसरोजानि लोचनारविन्दानि तेषां कुड्मलीकरणेन निमीलनेन वित्त तेन 'तेन वित्तश्चुचुपचणपौ' इति चणपप्रत्ययः, तेजःप्रसरेण प्रतापसमूहेन परीतं व्याप्तम्, आत्मानं स्वम्, जीवन्धरमिति यावत् , द्रष्टुमवलोकयितुम् , अक्षमतयाऽसमर्थतया, नलिनस्य कमलस्यान्तिके समीप उल्लासित उत्क्षेपितो यः पल्लवतल्लजः अष्टकिसलयस्तस्य भ्रमकारिणा सन्देहोत्पादकेन. नयनोपरिभागेन नेत्रोपरितनांशेन चारुमनोहरस्तेन, पाणिना हस्तेन, मुर्ख वक्त्रम्, व्यवधाय समाछाद्य, पश्यन्तीमवलोकयन्तीम्, प्रान्तं निकटम्, आवसन्तीं स्थिताम्, काञ्चित् कामपि, आयताक्षी विशालनयनाम्, जीवन्धरो विजयात्मजः, अप्राक्षीत् पृच्छति स्म । द्वितीयश्लोकप्रतिपाद्याभिधेयं वस्त्विह पृच्छतेर्द्वितीयं कर्म।
किं वक्तुकामासीति-कुरङ्गस्येव नेत्रे यस्यास्तत्सम्बुद्धौ हे कुरङ्गनेत्रि हे मृगाक्षि, किं किन्नामधेयं १८