________________
जीवन्धरचम्पकाव्ये नरपतिपरिदन्तां यौवनारम्भमत्तां
सपदि कनकमालां वक्षसि श्लिष्टमालाम । सकलगुणवरिष्ठां सन्मुहूर्ते वरिष्ठे
कुरुपतिरुपयेमे मण्डपे तत्र हैमे ।।५८।। इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पूकाव्ये
कनकमालालम्भा नाम सप्तमा लम्भः।
नरपतिपरिदत्तामिति-कुरुपतिर्जीवन्धरः, तत्र तस्मिन् , हमे सौवणे, मण्डपे जनाये 'मण्ड'. पोऽन्त्री जनाश्रयः' इत्यमरः, नरपतिना राज्ञा परिदत्तां समर्पिताम् । यौवनस्य तारुण्यस्थारम्भे प्रक्रमेण मत्ताम् , वक्षसि भुजमध्ये, श्लिष्टा संसक्ता माला वग्यस्यास्ताम्, सकलगुणनिखिलगुणवरिष्टा श्रष्टा ताम् , कनकमालामेतन्नामकन्याम् , वरिष्टे श्रेष्टे, सन्मुहूर्ते शुभलग्ने, उपयेमे परिणीतवान् ॥५८॥ इति श्रीमहाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी' ब्याख्याधरे जीवन्धरचम्पूकाव्ये
कनकमालालम्भो नाम सप्तमो लम्भः ।