________________
सप्तमो लम्भः पातयितुं प्रयतमानानपराद्धानेकशरनिकरानरपतिकुमारानवलोक्य, लोकोत्तरकोदण्डविद्यापाण्डित्यमण्डितो जीवन्धरः करकलितकार्मुकलताविस्फारपूरितदिगन्तरः, सरभसप्रक्षिप्रप्रक्ष्वेडनलक्षीकृतं तत्फलं सशिलीमुखं करेणोपादत्त ।
उदारः सड्कारोऽयं मार्गणाय फलं दिशन् । भेजे कल्पकतां नो चेत्सुमनस्सेव्यता कथम् ।। ४१ ।। दृष्ट्वा फलं सशरमापतितं कराब्जे
जीवन्धरस्य शरकौशलपारगस्य । व्यस्मेष्ट मक्षु नरपालतनूजवर्गः
श्लाघावशेन विगलन्निजकर्णपूरम ॥ ४२ ॥ ततस्तत्समीपमभ्येत्य कलितविनयो राजतनयः, ससाध्वसं, भो भो महाभाग कार्मुकविद्याकोविद, मामजातभवादशसज्जनसमुचितसल्लापप्रकारमपि मुखरयति श्रीमदीयचापविद्यावैदग्ध्यनिरीक्षणक्षणजनितविस्मयः काञ्चनगौरतावकशरीरसौन्दर्यावलोकनजातानन्दकन्दलश्च ।
अतस्त्वां प्रार्थये श्रीमन्युक्तं वायुक्तमेव वा। मामकीनं वचो नूनं कर्ण देशे विधीयताम् ।। ४३ ।।
-------------
---------------
~~~~~~~~
~~~
पातयितुं भ्रंशयितुम्, प्रयतन्त इति प्रयतमानास्तान् प्रयासं कुर्वाणान् , अपराद्धो लच्ययुतोऽनेकशरनिकरो विविधबाणसमूहो येषां तान्, नरपतिकुमारान् राजपुत्रान् , अवलोक्य दृष्ट्वा, लोकोत्तरं सर्वश्रेष्टं यत्कोदण्डविद्यायां धनुर्विद्यायां पाण्डित्यं वैशारा तेन मण्डितः शोभितः, जीवन्धरो विजयासूनुः, करे हस्ते कलिता धृता या कार्मुकलता धनुर्वल्लरी तस्या विस्फारेग समास्फालनरवेण पूरितं व्याप्तं दिगन्तरं काष्टान्तरालं येन तथाभूतः सन् , सरभसं सवेगं यथा स्यात्तथा प्रक्षि चालितं यत्पचवेडनं बाणस्तेन लीकृतं शरीकृतम्, तत्फलं तन्माकन्दप्रसत्रम्, सशिलीमुखं बाणसहितम्, करेण हस्तेन, उपादत्त जग्राह ।
उदार इति--उदारो महान् पक्षे दानशीलः, मार्गणाय बाणाय पक्षे याचकाय, फलं प्रसवं पक्ष समीप्सितार्थम्, दिशन् ददन्, अयमेपः सहकार आन्नः, चेद्यदि, कल्पकतां कल्पवृक्षताम्, नो भेजे न प्रापवान् , तर्हि सुमनोभिः पुष्पैः पक्षे देवः सेव्यता सहितता समुपास्यता च, कथं केन कारणेन स्यादिति शेपः, 'सुमनाः पुष्पमालत्योः स्त्रियां धीरे सुरे पुमान्' इति विश्वलोचनः । श्लेपः ॥४॥
दृष्ट्रेति--शरकौशलस्य बाणवैदग्ध्यस्य पारमन्तं गच्छतीति शरकौशलपारगस्तस्य, जीवन्धरस्य जीवकस्य, कराब्जे पाणिपञ, सशरं सबाणम्, आपतितं सम्मानम्, फलमानप्रसवम्, दृष्ट्वा विलोक्य, नरपालतनूजवर्गो राजकुमारकलापः, श्लाघावशेन प्रशंसापरतया, विगलन्निजकर्णपूरं समानस्वीयावतंसं यथा स्यात्तथा, मच शीघ्रम् , व्यस्मेप्ट विस्मितो बभूव । वसन्ततिलकावृत्तम् ॥४२॥
ततस्तत्समीपमिति--ततस्तदनन्तरम्, तत्समीपं जीवकाभ्यर्णम्, अभ्येत्य समागत्य, कलितविनयो पृतनम्रत्वः, राजतनयो नृपतिनन्दनः, ससाध्वसं सभयं, यथा स्यात्तथा, इत्थमनेन प्रकारेण, अवोचत जगाद, भो भो हे हे कामुकविद्यायां धनुर्विद्यायां कोविदो निपुणस्त सम्बुद्धौ, हे कामुकविद्याकोविद, महाभाग महानुभाव, श्रीमदीयस्य भवदीयस्य चापविद्यावैदग्ध्यस्य धनुविद्यापाण्डित्यस्य निरीक्षणक्षणेऽवलोकनकाले जनितः समुत्पन्नो यो विस्मय आश्चर्य सः, काञ्चनगौरस्य सुवर्णपीतस्य तावकशरीरस्य त्वदीयदेहस्य यत्सौन्दर्य लावण्यं तस्यावलोकनं दर्शनं तेन जातः समुद्भतो य आनन्दकन्दलो हर्षसमूहः स च, अज्ञातोऽविदितो भवादृशसज समुचितस्त्वादृशसाधुजनयोग्यः सल्लापप्रकारः सम्भापणशैली येन तथाभूतमपि, मां भवत्पुरोवर्तमानम्, मुखरयति वाचालयति ।।
अतस्त्वामिति-अतोऽस्मात्कारणात् , हे श्रीमन् हे महानुभाव, त्वां भवन्तम्, प्रार्थये विनयेन निवेदयामि, युक्तं वा समुचितं वा, अयुक्तमसमुचितमेव वा मामकीनं मदीयम्, बचो वचनम्, नूनं निश्चयेन, कर्णदेशे श्रवणप्रान्ते, विधीयताम् क्रियताम् । उचितमनुचितं वा मद्वचः श्रूयतामिति भावः ॥ ४३ ।।