________________
१३०
जीवन्धरचम्पूकाव्ये
इत्यादिनिजवचोविलासं विद्याधरजडहृदये सारमेयोदरे सर्पिरिवासंलग्नमालोक्य विस्तारितकरुणः कुरुवारणः, तस्माद्विपिनान्निर्गत्य, निसर्गरुचिरां नितम्बिनीमिव मुखभागकलिततिलकशोभमानां पृथुलकुचविराजितमक्षतरूपशोभितां मदनाधिष्ठितां चारामम्थलीमाससाद |
यत्र हि
श्रोत्रं भृङ्गकुलारवः सुखयति प्रत्यग्रपुष्पस्तम्
नैत्रं फुल्लसरोजगन्धलहरी घ्राणं मनो दीर्घिका | वायुः स्पर्शनमन्ततो रसभरीपूर्णः फलानां चयः
पक्कोऽयं रसनां तदिन्द्रियगणः सर्वः सुखं गाहते ॥ ३६ ॥ निर्मला सरसी यत्र निर्मिमीते मुदं पराम् । विशाला पद्मरुचिरा वीक्षिकेव वनश्रियः ॥ ४० ॥
तत्र चाभ्रंलिह्स्य शकुन्तसन्तानदन्तुरितनीलच्छदस्य मधुलुब्धमधुकर कुलान्धीकृतस्य कस्य चरसालरसारुहम्य शाखाग्रभागविराजितं वनदेवतारसपूर्णहेम करण्डकायमानं परिपाकपाटलफलं
यावत्, नितम्बफलकं कटिपश्चाप्रदेशः क्रमेण, शीतांशुश्चन्द्रः, विकचोत्पलं प्रफुल्लनीलारविन्दम्, करिपतेगजेन्द्रस्य, कुम्भो गण्डो, महासैकतं दीर्घपुलिनम्, इवेति शेषः, भाति शोभते, एवमनेन प्रकारेण, मुग्धकवयो मूढकवयः, तस्यां रागस्तद्रागस्तस्य विस्फूर्जितं वृद्धिर्यथा स्यात्तथा, उशन्ति इच्छन्ति, ' वश कान्तौ ' इत्यस्य लटि रूपम् । यथासंख्यमलङ्कारः ॥ ३८ ॥
इत्यादिनिजवचोविलासमिति -- इत्यादिश्वामौ निजवचोविलासश्च तमू, पूर्वोक्तस्ववचनचेष्टितम्, विद्याधरस्य खगस्य जडहृदये मुग्धमनसि, सारमेयोदरे कुक्कुरजठरे, सर्पिरिव घृतमिव असंलग्नमनासक्तम्, आलोक्य दृष्ट्वा, विस्तारिता प्रसारिता करुणा कृपा येन सः, कुरुवारणो जीवन्धरः, तस्मात्पूर्वोक्तात्, विपिनात् काननात्, निर्गत्य निष्क्रम्य निसर्गरुचिरां स्वभावसुभगाम्, नितम्बिनीमिव नारीमिव, आरामस्थलीमुद्यानभूमिम्, आससाद समुपजगाम, अथोभयोः सादृश्यमाह - मुखभागेऽग्रभागे पक्षे वदनैकदेशे ललाट इति यावत्, कलितेन स्थितेन तिलकेन क्षुरकवृक्षेण पक्षे स्थासकेन शोभमाना विराजमाना ताम्, पृथुभिबृहद्राकारैर्लकुचैर्डहुवृत्तैः पत्ते पृथुलाभ्यां पीनाभ्यां कुचाभ्यां स्तनाभ्यां विराजितां शोभिताम्, अक्षतरुभिर्विभीतकवृक्षैरुपशोभितां विराजितां पत्तेऽक्षतरूपेणाखण्ड सौन्दर्येण शोभितां समलङ्कृताम्, मदनेन मदनवृक्षेण पक्षे कामेनाधिष्ठितां सहिताम् ।
यत्र हि यस्यामारामस्थयां हि ।
श्रोत्रमिति — भृङ्गकुलस्य पद पदसमूहस्यारवो गुञ्जनध्वनिः, श्रोत्रं कर्णम्, प्रत्यग्राणि नूतनानि पुष्पाणि कुसुमानि यस्मिन्निति प्रत्यग्रपुष्पः तरुर्वृक्षः, नेत्रं नयनम्, फुल्लसरोजानां विकसितसरसीरुहाणां गन्धलहरी सौरभपरम्परा, घ्राणं नासाम्, दीर्घिका वापिका, मनो हृदयम्, वायुः पवनः, स्पर्शनमाद्येन्द्रियम्, रसभरीपूर्णो रसनिष्यन्दसम्भृतः, पक्वः परिणतः, अयमेषः, फलानां मोचामातुलिङ्गमाकन्दादीनाम्, चयः समूहः, रसनाम्, अन्ततः सामस्त्येन, सुखयति सुखं करोति, तत् तस्मात्कारणात्, यत्रारामस्थल्याम्, निखिलः, इन्द्रियगणो हृषीकसमूहः, सुखं हर्षम्, गाहते प्राप्नोति ॥ ३६॥
सर्वो
निर्मलेति — यत्रारामस्थल्याम्, निर्मला पङ्कादिमलरहिता पते तिमिरादिदोपशून्या विशाला सुदीर्घा, पद्मः कमलै रुचिरा मनोहरा पत्ते पद्ममिव कमलमित्र रुचिरा मनोहरा, वनश्रियः काननलचम्याः, वीक्षिकेव दृष्टिरिव, सरसी कासारः परामत्यन्ताम् मुदं हर्षम्, निर्मिमीते जनयति । उपमा ||४०||
तत्र चेति-तत्र चारामस्थल्याञ्च, शकुन्तसन्तानेन पक्षिसमूहेन दन्तुरितानि नतोन्नतानि नीलच्छदानि हरितपत्राणि यस्य तस्य मधुनि मकरन्दे लुब्धानि सतृष्णानि यानि मधुकरकुलानि भ्रमरसमूहास्तैरलङ्कृतस्य शोभितस्य कस्यचन कस्यापि रसालश्चासी रसारुहश्चेति रसालरसारुहस्तस्य माकन्दमहीरुहस्य शाखाग्रभागे लताग्रप्रदेशे विराजितं शोभितम्, वनदेवताया काननाधिष्ठातृदेव्या रसपूर्णहेमकरण्डकमिव रसभृतसुवर्णपात्रमिवाचरतीति तथाभूतम्, परिपाकेन परिणामेन पाटलं श्वेतरक्तं यत्फलं तत्,