________________
सप्तमो लम्भः
इति कर्तव्यतामूढं मामुद्दिश्य नरोत्तम ।
प्रज्ञानामग्रगण्यस्त्वं ब्रूहि कर्तव्यमत्र वै ।। ३५ ।। इत्यादिविद्याधरदैन्यदन्तुरितवचनरचनामाकर्ण्य पारावारगभीरकुरुवीरो मन्दम्मितरुचिलहरीकपटेन सुधाधारां किरन्निव गम्भीरवचनगुम्भं विजृम्भयामास ।
धैर्योदार्यविवर्जितः क्षितिपतिः प्रज्ञाविहीनो गुरुः ।।
__ कृत्याकृत्यविचारशून्यसचिवः संग्रामभीरुभटः । सर्वज्ञस्तवहीनकल्पनकविर्वाग्मित्वहीनो बुधः
स्त्रीवैराग्यकथानभिज्ञपुरुपः सर्वे हि साधारणाः ।। ३६ ॥ वज्रात्कठोरतरमेणवशां हि चित्तं
पुष्पादतीव मृदुलो वचनप्रचारः । कृत्यं निजालककुलादपि वक्ररूपं
तस्माद्बुधाः सुनयनां न हि विश्वसन्ति ॥ ३७ ।। वक्र श्रेप्मनिकेतनं मलमयं नेत्रद्वयं तत्कुचौ
मांसाकारघनौ नितम्वफलकं रक्तास्थिपुञ्जाततम् । शीतांशुविकचोत्पलं करिपतेः कुम्भौ महासैकतं ।
___ भातीत्येवमुशन्ति मुग्धकवयस्तद्रागविस्फूर्जितम् ॥ ३८ ॥ इतीति-नरेपूत्तमो नरोत्तमस्तत्सम्बुद्धौ हे नरोत्तम हे पुरुपश्रेष्ट, इति पूर्वोक्तप्रकारेण, कर्तव्यतायां मूढस्तं कार्यानभिज्ञम्, मां शरणापन्नम्, उद्दिश्य समभिलक्ष्य, प्रज्ञानां विदुपाम्, अग्रगण्यः प्रधानः, न्वं भवान् , अन्न विपये, वै निश्चयेन, कर्तव्यं करणीयोपायम्, अहि निवेदय ॥३५॥
इत्यादीति-इत्यादिः पूर्वोक्तप्रकारा विद्याधरस्य खेचरस्य दैन्यदन्तुरिता देन्यव्याला या वचनरचना वाक्सन्दर्भस्ताम्, आकर्ण्य श्रुत्वा, पारावार इव सागर इव गर्भारोऽगाधधैर्यः, कुरुवीरो जीवन्धरः, मन्दस्मितस्य मन्दहास्यस्य या रुचिलहरी कान्तिपरम्परा तस्याः कपटेन ब्याजेन, सुधाधारी पीयूपधाराम् , किरन्निव प्रक्षिपन्निव, गम्भीरवचनगुम्भं विशिष्टार्थोपेतवचनसमूहम् , विजृम्भयामास वर्धयामास, उवाचेति यावत् ।
धैयौदार्यविवर्जित इति-धैर्यञ्चौदार्यञ्चेति धैयौदायें स्थैर्यदातृत्वे ताभ्यां विवर्जितो रहितः, क्षितिपती राजा, प्रज्ञया बुद्धया विहीनो रहितः प्रज्ञाविहीनः गुरुरुपाध्यायः कृत्यकृत्ययोः करणीयाकरणीययोविचारेण विमर्शेन शून्य इति कृत्याकृत्यविचारशून्यः स चासौ सचिवश्च मन्त्री चेति तथा, संग्रामासमरात् भीरु रुकः संग्रामभीरुः, भटो योद्धा, सर्वज्ञस्तवेन जिनेन्द्रस्तुल्या हीना रहिता कल्पना समुत्प्रेक्षा यस्येति सर्वज्ञस्तवहीनकल्पनः स चासौ कविश्च काव्यकर्ता चेति तथा, प्रशस्ता वाचः, सन्ति यस्य स वाग्मी तस्य भावो वाग्मित्वं तेन हीनो रहितः, बुधो विद्वान् , स्त्रीवैराग्यस्य वनितानिर्वेदस्य कथायां वार्तायामनभिज्ञ इति स्त्रीवैराग्यकथानभिज्ञः स चासौ पुरुषश्चेति तथा, हि निश्चयेन, एते सर्वे समस्ताः, साधारणाः समानाः, सन्तीति शेषः, समुच्चयालङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥३६॥
वनादिति-हि यतः, एणदृशां मृगलोचनानाम् , चित्तं मनः, वज्राद्भिदुरात् , कठोरतरं तीक्ष्णतस्म् , वचनप्रचारो वाक्यसमूहः पुष्पाकुसुमात् , अतीव नितराम् , मृदुलः कोमलः, कृत्यं कार्यम् , निजालककुलादपि स्वकीयकेशसमूहादपि, वक्ररूपं कुटिलात्मकम् , अस्तीति शेषः, तस्मात्कारणात् . बुधा विपश्चितः, सुनयनां सुलोचनां नारीमिति यावत् , न हि विश्वसन्ति न वै प्रतियन्ति, तस्या विश्वास नो कुर्वन्तीति भावः ॥ ३७॥
वक्त्रमिति--श्लेष्मणः कफस्य निकेतनं स्थानमिति श्लेष्मनिकेतनम् , वक्त्रं वदनम् , मलमयं मलप्रचुरम् , नेत्रद्वयं नयनयुगलम् , मांसाकारेण पिशिताकारेण धनौ निविडौ, तस्याः कामिन्याः कुची स्तनौ, रक्तञ्च रुधिरञ्चास्थीनि च कीकसानि चेति रक्तास्थीनि तेषां पुजेन समूहेनाततं विस्तृतं स्थूलमिति