SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १३२ जीवन्धरचम्पूकाव्ये अत्रास्ति हेमाभपुरी गरीयसी यद्वनसौधेष्यधिरात्रि संपतन् । सुधामयूखः कलशार्णवान्तरे पुनर्निवासं कलयन्निवेक्ष्यते ।। ४४ ॥ कुरुविन्दमन्दिरकुलानि संगता न्यरुणस्य बालकिरणः स हैकताम् । तमसीव हस्तपरिमर्शतः प्रगे __ परिनिश्चिनोति पुरि यत्र सज्जनः ॥ ४५ ।। दृढमित्र इति प्रतीतभूपः पुरमेनां परिपालयत्यजत्रम् । नलिना नलिनामलायताक्षी महिपी तस्य महीललामवल्ली ॥४६।। तयोः सुताः सुमित्राद्यास्तेष्वप्यन्यतमोऽस्म्यहम् । विद्याहीना वयं सर्व नद्या हीना इवाद्रयः ॥४७॥ अतः कोदण्डविद्याकुशलं नरशादूलमन्वेषमाणोऽस्मत्तातपादः, पराक्रमापहतसामन्तसीमन्तिनीनयनकजलकालिकाशङ्कावदान्यमौर्वीकिणश्यामिकालङ्कृतभुजदण्डस्य श्रीमतः सन्दर्शनेन, कलापीव वलाहकदर्शनेन, नदीपतिरिव निशाकरदर्शनेन, वनोत्कर इव वसन्तदर्शनेन, कमलाकर इव कमलबन्धुदर्शनेन, प्रमोदसर्वस्वमनुभविष्यति । तस्मादरमत्पितुर्वाञ्छावल्ली सम्प्रति पुष्पिताम् । सभास्तारहशश्चापि सफलीकुरु कोविद ॥४८|| अत्रास्तीति-अत्र इह प्रदेशे, गरीयसी श्रेष्टतरा, हमाभपुरी एतन्नामनगरी, अस्ति विद्यते, अधिरात्रि रजन्याम् यहज्रसोधेषु यदीयहीरकहर्येषु संपतन् प्रतिबिम्बितः, सुधारूपा मयूखा यस्य स सुधामयूखश्चन्द्रः, कलशार्णवान्तरं क्षीरसागरमध्ये, पुनर्भूयः, निवासमावासम्, कलयन्निव प्राप्नुवन्निव, ईच्यते दृश्यते । उत्प्रेक्षालङ्कारः । इन्द्रवंशावंशस्थयोः संमिश्रणादुपजातिवृत्तम् ॥ ४४ ॥ कुरुविन्देति-यत्र यस्याम्, पुरि नगर्याम्, सज्जनः सत्पुरुषः प्रगे प्रातःकाले, अरुणस्य सूर्यस्य, बालकिरणालरश्मिभिः, सह सार्धम्, एकतामभिन्नताम्, संगतानि प्राप्तानि, कुरुविन्दमन्दिरकुलानि पद्मरागमणिमयभवनानि, तमसीव ध्वान्त इव, हस्तपरिमर्शतः करस्पर्शतः परिनिश्चिनोति परितो निर्णीते । तद्गुणालङ्कारः । मञ्जुभाषिणीच्छन्दः ॥ ४५ ॥ दमित्र इति-दृढमित्र इति प्रतीतभूपः दृढ़मित्रनाम्ना प्रसिद्धो राजा, एनामेताम्, पुरं नगरीम्, अजस्त्रं निरन्तरम्, परिपालयति रक्षति, तस्य दृढमित्रस्य, नलिने इव कमले इवामले निर्मले आयते सुदीर्वे अक्षिणी नयने यस्यास्तथाभूता, महीललामवल्ली पृथिव्याभरणलता, नलिना एतन्नामवती, महिपी पहराज्ञा, अस्तीति शेपः ॥ ४६॥ तयोरिति-सा च स चेति तो तयोर्नलिनादृढमित्रयोः, सुमित्राद्याः सुमित्रप्रभृतयः, सुताः पुत्राः, सन्तीति शेषः, अहमपि, तेषु सुमित्रायेप, अन्यतम एकः, अस्मि भवामि, वयं सर्वे निखिलाः, नद्या स्ववन्त्या, हीना रहिताः, अद्रय इव पर्वता इव, विद्याहीना विद्यारहिताः, स्म इति शेपः ॥ ४७ ॥ अतः कोदण्डेति-अतोऽस्माकारणात्, कोदण्डविद्याकुशलं धनुर्विद्यानदीप्णम्, नरशाडूलं पुरुषसिंहम्, अन्वेषमाणो गवेषमाणः, अस्मत्तातपादो मदीयपितृचरणः, पराक्रमेण बलातिशयेनापहृतं दूरीकृतं यत् सामन्तीमन्तिानां मण्डलेश्वरमानिनीनां नयनकज्जलं नेत्राञ्जनं तस्य कालिका कापण्यं तस्याः शङ्कायां संशीतो वदान्यो दातृनिपुणो या मौकिणश्यामिका प्रत्यञ्चाकिणकालिमा तयालङ्कृतः समुद्भासितो भुजदण्डो यस्य तथाभृतस्य, श्रीमतो भवतः, संदर्शनेन विलोकनेन बलाहकदर्शनेन मेघावलोकनेन, कलापीव मयूर इव, निशाकरदर्शनेन चन्द्रावलोकनेन, नदीपतिरिव सागर इव, वसन्तदर्शनेन कुसुमाकरविलोकनेन, वनोत्कर इव काननसमूह इव, कमलबन्धुदर्शनेन सूर्यसाक्षात्कारेण, कमलाकर इव पद्माकर इव, प्रमोदसर्वस्वमानन्दतत्त्वम्, अनुभविष्यति समुपभाच्यते । मालोपमा ॥ तस्मादिति --तस्मात्कारणात्, हे कोविद हे विद्वन् , अस्मत्पितुर्मदीयजनकस्य, पुष्पितां कुसुमिताम्
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy