________________
जीवन्धरचम्पूकाव्ये इति संदेहं पराङ्गनानृपुररवविनिश्चयेन निवर्तयन्परपरिग्रहविरक्तमानसः कुरुकुलोत्तंसः पराङ्मुखो बभूव ।
संचरन्ती वने तत्र भर्वा काचन खेचरी। प्रतार्य तं मिषेणाशु पुरस्तादस्य संन्यधात् ।।२३।। यस्या मुखं पर्व विधुं विजित्य भ्रूचापदम्भाज्जयकेतुनद्धम् । कर्णद्वये तज्जयकीर्तिपत्रं बभार ताटङ्कमणिच्छलेन ॥ २४ ॥ वृपस्यन्ती वरारोहा वृपस्कन्धं कुरूद्वहम् ।
वीक्ष्य तस्याङ्गसौन्दर्य नातृपत्सा त्रपाकुला ॥ २५ ॥ यस्यांसाविह रेजतुर्जयरमाक्रीडामहीध्राविव
श्रीदेवीस्थितिवत्रपट्टमिव यद्वक्षःस्थलं व्यावभौ । नाभियौवतग्विशालगजतारोधार्थवारीनिभा ।
जो पूगगुलुच्छनिन्दनकरे पादौ जिताम्भोरुही ।। २६ ।। यद्वक्त्रं विततान वाग्वरसतीक्रीडास्थलीविभ्रम
यन्नासा च कलावतारविलसन्निःश्रेणिकासंशयम् ।
प्रत्यञ्चारवः, किम्, मत्ताश्च ते मावी लिहश्चेति मत्तमा लिहस्तेषां क्षीबपट पदानाम्, झङ्कारो गुञ्जनशब्दः, किम्, हंसानां मरालानाम्, मज्जुलो मनोहरः, कण्ठनादो गलध्वनिः, किं वा, एपोऽयम्, लीलाकोकिलानां केलिपरपुष्टानामालापः शब्दः, अस्तीति शेषः । संदेहालङ्कारः, शालिनीच्छन्दः 'शालिन्युक्ता म्तौ तगो गोऽब्धिलोकैः' इति लक्षणात् ॥२२॥
इतीति-इति इत्याकारम्, संदेहं संशयम्, पराङ्गनायाः परनार्या नूपुररवस्य मञ्जीरशिक्षानस्य विनिश्चयो निर्णयस्तेन, विवर्तयन् दूरीकुर्वन् , परपरिग्रहादन्यस्त्रिया विरक्तं विरतं मानसं चित्तं यस्य तथाभूतः कुरुकुलोत्तंसः कुरुवंशाभरणोपमो जीवन्धरः, पराङ्मुखो विमुखः, बभूव अजायत ।
सञ्चरन्तीति-तत्र तस्मिन् , वने गहने, भर्ना पत्या, सह, सञ्चरन्ती भ्रमन्ती, काचन कापि, खेचरी विद्याधरी, तं भर्तारम्, मिषेण केनापि व्याजेन, प्रतार्य वञ्चयित्वा, जलानयनाथ तं दूरे प्रहित्येति यावत्, आशु झटिति, अस्य जीवन्धरस्य, पुरस्तात् अभिमुखम्, संन्यधातू संनिहिता बभूव ॥२३॥
यस्या मुखमिति-यस्या वनितायाः, मुखं वदनम्, पर्वविधं राकानिशाकरम्, विजित्य पराजितं कृत्वा, श्रृंचापदम्भात् भ्रुकुटिकार्मुकपटात्, जयकेतुना विजयवैजयन्त्या नद्धं बदमिति जयकेतुनद्धं सत्, ताटङ्कमणिच्छलेन कर्णाभरणमणिब्याजेन, कर्णद्वये श्रवणयुगले, तस्य पर्वविधोर्जयः पराभवस्तस्य कीर्तिपत्रं यशःपत्रम्, बभार दधार, अपडुतिरलङ्कारः ॥२४॥
वृपस्यन्तीति-वृपस्य स्कन्ध इव स्कन्धो यस्य तं पीवरांसमिति यावत्, कुरूद्वहं जीवन्धरम् । बृपस्यन्ती मैथुनेच्छयाभिलपन्ती, 'अश्ववृषयोमैथुनेच्छायायाम्' इति क्यच्यासुगागमः, वरारोहा सुन्दराङ्गी, पाकुला लज्जावती, सा वनिता, तस्य जीवन्धरस्य, अङ्गसौन्दर्य कामकामनीयकम्, वीच्य दृष्ट्वा, नानृपत् नो तृप्ता बभूव ॥२५॥ ___ यस्यांसाविहेति-इह लोके, यस्य सात्यन्धरः, अंसौ स्कन्धौ, जयरमाया विजयलक्ष्म्याः क्रीडामहीध्राविव कैलिपर्वतावित्र, रेजतुः शुशुभाते, यस्य वक्षःस्थलं यद्वक्षःस्थलं यदुरःप्रदेशः, श्रीदेव्या लक्ष्मीदेव्याः स्थितेरवस्थानस्य वज्रपट्टमिव हीरकफलकमिव, व्याबभौ विशेषेण शुशुभे, नाभिस्तुन्दिः, युवतीनां समूहो यौवतं तस्य दृशो लोचनान्येव विशालगजता बृहद्जसमूहस्तस्य रोधार्थमवरोधनार्थ या वारी गजवन्धनं तस्या निभा सदृशी, आसीदिति शेषः, जो प्रमृते, पूगगुलुच्छस्य क्रमुकानोकहप्रकाण्डस्य निन्दनकर निन्दाविधायके, पादौ चरणौ च, जिताम्भोरुही पराधूतपद्मो, आस्तामिति शेपः । उपमा । शादूलविक्रीडितं छन्दः ॥२६॥
यद्वक्त्रमिति-यस्य वक्त्रं यदवस्त्रं यदवदनम्, वागेव वरसतीति वाग्वरसती सरस्वती सती