________________
सप्तमो लम्भः
क्षालयन्तमिवातिसन्तोषकोरकितान्तरङ्गं तं धार्मिकमुत्सृज्य तस्य स्मरन्नेव कुरुकुञ्जरस्तस्माद्वनानिर्जगाम |
गभस्तिमाली गगनस्य मध्यं द्रुमालवालं कलमध्यमेणः । जिह्वा च शोपं सममाप नृणां शरीरमुद्यद्धनधर्मतोयम् ||२०||
तदानीं, पचेलिम हेलिसन्तापर्तितया घृष्टचन्दनरसपाण्डुगण्डमण्डलेषु वनशुण्डाले चलाचलनिजकर्णतालपवनसंवीज्यमानाननेषु हस्तोज्झितशीकर निकरसंसिक्तहृदयेषु मन्दमन्दमागत्य सरोवरप्रवेशनपरेपु, कर्णिकारमुकुलानि निर्भिद्यान्तर्लीयमानेषु पटूचरणेषु, संतप्तजलं विहाय शीतलनलिनीदलं सेवमानेषु कारण्डवेषु, पञ्जरवद्धक्रीडाशुकेषु जलं याचमानेपु, त्रिजगदेकातपत्रायितकीर्तिमण्डलेन सकलजनतासन्तापनाशनोऽपि कुरुवंशपावनः श्रान्तो विश्रान्तिकृते नमेरुतरुमूलमाससाद |
निपण्णस्तत्र मधुरं रवं शृण्वन्कुरूत्तमः । संदिग्धे सिन्धुगम्भीरः कल्याणाद्रिरिव स्थिरः ||२१|| टङ्कारः किं मारबाणासनस्य झङ्कारोऽयं मत्तमाध्वीलिहां किम् । हंसानां किं मञ्जुलः कण्ठनादः किंवा लीलाकोकिलालाप एषः ||२२||
१२५
पाकोन्मुख देवसमूहमिव, अत्यादरमेदुरेण आदरातिशय मिलितेन करेण हस्तेन, आदाय गृहीत्वा, संमदपयःपूरैर्हपाश्रुजलप्रवाहैः, चालयन्तमिव प्रक्षालनं कुर्वन्त मित्र, अतिसन्तोपेण प्रहर्षातिशयेन कोर कितं व्याप्तमन्तरङ्ग तो यस्य तम् तं पूर्वोक्तम् धर्मेण चरति धार्मिकस्तम् धर्मात्मानम् उत्सृज्य विसृज्य तस्य धार्मिकवृपलस्य स्मरन्नेव स्मरणं कुर्वन्नेव ' अधीगर्थदयेशां कर्मणि' इति कर्मणि पष्ठी, कुरुकुञ्जरो जीवन्धरः, तस्मात्पूर्वोक्तात्, वनकाननात्, निर्जगाम निरक्रमीत् ।
गभस्तिमालीति — गभस्तिमाली सूर्यः, गगनस्य वियतः, मध्यं मध्यभागम्, ऐणो मृगः, जलमध्यं जलं मध्ये यस्य तं तोयमध्यं, दुमालवालं वृक्षावापं नृणां मनुष्याणाम्, जिह्वा रसना, शोषं शोषणम्, तृष्णातिरेकादिति यावत्, शरीरञ्च गात्रन्च, उद्यत् प्रकटीभवत्, घनघर्मतोयं प्रचुरप्रस्वेदम्, समं सार्धम्, आप प्रापत् । सहोक्तिरलङ्कार ॥२०॥
E
3
तदानीमिति तदानीं तस्मिन् काले पचेलिमरतरुणी यो हेलिः सूर्यस्तस्य संतापेन निदावातिशयेनार्ततया पीडिततया, घृष्टचन्दनरसेन घृष्टमलयजरसेन पाण्डूनि धवलानि गण्डमण्डलानि कतानि येषां तेषु, हस्तेभ्यः शुण्डाभ्य उज्झिता उत्सृष्टा ये शीकरनिकरा जलकणसमूहास्तैः संसिक्तं हृदयं येषां तेषु, शुण्डलेषु काननकरिपु, मन्दमन्दं शनैः शनैः आगत्य समेत्य, सरोवरेषु कासारेषु प्रवेशनं प्रवेशस्तस्मिन्परा उद्युक्तास्तथाभूतेषु सत्सु, पट्चरणेषु भ्रमरेपु, कर्णिकारमुकुलानि द्रुमोत्पलकुड्मलेपु 'अथ द्रुमोलः । कर्णिकारः परिव्याधः ' इत्यमरः, निर्भिद्य विदार्य, अन्तर्मध्ये, लीयमानेषु स्थितेषु सत्सु कारण्डवेषु काकनुण्डेषु दीर्घपादेषु कृष्णवर्णेषु जलपक्षिविशेषेषु संतप्तजलं संतप्तनीरम्, विहाय त्यक्त्वा, शीतलं च तन्नलिनीदलञ्चेति शीतलनलिनीदलं तत्, शिशिरकमलिनीपत्रम्, सेवमानेषु समाश्रयत्सु सत्सु पञ्जरेपु वद्वाः पञ्जरबद्धाः तेच ते क्रीडाशुकाश्चेति पञ्जरवद्धक्रीडाशुकास्तेषु शलाका गृहरुद्वक्रीडाकरपु, जलं सलिलम्, याचमानेपु प्रार्थयत्सु सत्सु, त्रिजगतस्त्रिलोकस्यैकातपत्रायित मेकच्छत्रायितं यत्कीर्तिमण्डलं यशश्चक्रवालं तेन, सकलजनताया निखिलजनसमूहस्य संतापनाशनोऽपि संतापापहारकोऽपि कुरुवंशपावनो जीवन्धरः, श्रान्तः सन्, विश्रान्तिकृते विश्रामाय, नमरुतरुमूलं छायावृक्षमूलम्, आससाद प्राप ।
निपण्ण इति-तत्र छायावृक्षतले, निपण्णः समुपविष्टः, सिन्धुरिव सागर इव गम्भीरोऽगाधधैर्यः, कल्याणाद्विरिव सुमेरुरिव, स्थिरः सुनिश्चलमानसः, कुरूत्तमो जीवन्धरः, मधुरं मनोहरम्, रवं शब्दम्, शृण्वन् समाकर्णयन्, संदिग्धे संदेहं चकार ॥२१॥
अथ तमेव सन्देहं दर्शयति - टङ्कार इति -अयमेषः, किं मारबाणासनस्य कन्दर्पकोदण्डस्य, टङ्कारः