SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १२४ जीवन्धरचम्पूकाव्ये पञ्चाणुव्रतसम्पन्ना गुणशिक्षाव्रतोद्यताः । सम्यग्दर्शनविज्ञानाः सावद्या गृहमेधिनः ॥ १५ ॥ हिंसानृतस्तेयवधूव्यवायपरिग्रहेभ्यो विरतिः कथञ्चित् । मद्यस्य मांसस्य च माक्षिकस्य त्यागस्तथा मूलगुणा इमेऽष्टौ ॥१६।। दिग्देशानर्थदण्डेभ्यो विरतिस्तु गुणवतम् । भोगोपभोगसंख्यानं केचिदाहुगुणवतम् ।।१७।। सामायिकः प्रोपधकोपवासस्तथातिथीनामपि संग्रहश्च । सल्लेखना चेति चतुःप्रकारं शिक्षात्रतं शिक्षितमागमः ॥१८॥ इत्युक्तवतसम्पन्नः क्वचिद्देशे क्वचित्क्षणे। महाव्रती भवेत्तस्माद्ग्राह्य धर्ममगारिणाम् ॥१६॥ इति प्रतिपादितं धर्म शिरसा मनसा च प्रतिगृह्णानमन्तर्गतप्रतापकोरकपुञ्जमिव मणिभूषणगणमात्मना वितीर्णमत्यादरमेदुरेण करेण पचेलिमाभाग्यवृन्दमिवादाय सम्मदपयःपूरैः यतीना मुनीनाम् सुवर्म सम्यग्धर्मम्, बोढुं धतुम्, न शक्नोपि न समर्थोऽसि, अतोऽस्मात्कारणात्, गृहस्थस्य गृहमे धिनः, धर्मपञ्चाणुव्रतात्मकम्, गृहाण स्वीकुरु, यतो यस्माद्धर्मात् , मुक्तिलक्ष्मीर्मोक्षश्रीः, अदूरे निकटे भवित्री भविष्यति ॥१४॥ ___पञ्चाणुव्रतसम्पन्नेति-पञ्चभिरणुव्रतः सम्पन्ना इति पञ्चाणुव्रतसम्पन्ना अणुव्रतपञ्च कयुक्ताः, गुणशिक्षावतेयूद्यता पालनतत्परा इति गुणशिक्षाव्रतोद्यताः, समीची दर्शनविज्ञाने येषां ते सम्यग्दर्शन विज्ञानाः सम्यग्दर्शनसम्यग्ज्ञानसहिताः, अवद्यैः सहिता इति सावद्याः सारम्भाः, जनाः, गृहमेधिनः सागाराः, सन्तीति शेषः ॥१५॥ हिंसानृतस्तेयेति-हिंसा चानृतं च स्तेयं च वधूव्यवायश्च परिग्रहश्चेति हिंसानृतस्तेयवधूव्यवायपरिग्रहास्तेभ्यो हिंसादिपञ्चपापेभ्यः, कथञ्चित् स्थूलप्रकारेण, विरतिर्विरमणम्, तथा, मद्यस्य मदिरायाः, मांसस्य पिशितस्य, माक्षिकस्य च क्षौद्रस्य च त्यागः परिहार :, इमे एते, अष्टौ अष्टसंख्याकाः, मूलगुणा मुख्यगुणाः, सन्तीति शेपः ॥१६॥ दिग्देशानर्थेति-दिक् च देशश्च, अनर्थदण्डश्चेति दिग्देशानर्थदण्डास्तेभ्यः, विरतिस्तु विरमणं तु गुणवतं प्रसिद्धम्, अस्तीति शेपः, केचिदाचार्याः, भोगोपभोगसंख्यानं भोगोपभोगयोः संख्यानं नियमनमिति भोगोपभोगसंख्यानम्, भुक्त्वा परिहातव्यो भागो भुक्त्वा पुनश्च भोक्तव्यः' इति भोगोपभोगयोर्लक्षणम्, गुणवतम्, आहुः कथयन्ति, दिग्वतं देशव्रतमनर्थदण्डव्रतमिति गुणव्रतानि सन्ति, मतान्तरापेक्षया देशव्रतस्थाने भोगोपभोगपरिमाणव्रतं गण्यते, तच्च शिक्षाबतचतुष्टये ॥१७॥ सामायिक इति-सामायिकः सर्वावद्यपरिहारः, प्रोषधकोपवासः पर्वचतुष्टयेऽनशनधारणम्, तथा अतिथीनां मुन्यायिकादीनामपि, संग्रहश्च दानार्थं प्रतिग्रहणम्, सल्लेखना च सन्न्यासश्च, इतीत्थम्, आगमज्ञैः शास्त्रज्ञैः, चतुःप्रकारं चतुर्विधम्, शिक्षाव्रतं प्रसिद्धम्, शिक्षितं निर्दिष्टम् । मतान्तरापेक्षया, सल्लेखनायाः स्थाने देशव्रतं भोगोपसंख्यानं वा व्रतं गण्यते ॥१८॥ इत्युक्तव्रतसम्पन्न इति इत्युक्तवतैः पूर्वोक्तवतैः सम्पन्नः सहितः, गृही, क्वचित् कस्मिंश्चिद्, देशे मर्यादाया बहिरिति यावत् , क्वचित् क्षणे सामायिकादिप्रतिज्ञाकाले, महाव्रती महाबतयुक्त इव, भवेत् स्यात्, तस्मात् कारणात् , अगारिणां गृहस्थानाम्, धर्ममाचारः, ग्राह्यं गृहीतुं योग्यम्, अस्तीति शेपः, धर्मशब्दस्य क्लीबे प्रयोगोऽप्रसिद्धः, अथवागारिणां धर्म ग्राह्यं कथयन्तीति शेपः ॥१६॥ इति प्रतिपादितमिति-इति पूर्वोक्तप्रकारेण, प्रतिपादितं निरूपितम्, धर्म गृहस्थाचारम्, शिरसा मूर्ना, मनसा हृदयेन च, प्रतिगृह्णानं स्वीकुर्वाणम्, अन्तर्गतप्रतापस्यान्तःस्थिततेजसः कोरकपुञ्जमिव कुड्मलकलापमिव, आत्मना स्वेन, वितीर्ण प्रदत्तम्, मणिभूषणगणं रत्नाभरणसमूहम्, पचेलिमभाग्यवृन्दमिव
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy