________________
सप्तमो लम्भः
कुशलं न हि कर्म पटकजातं विविधाशात्रततिप्ररोहकन्दम् । अपवर्गजमात्मसाध्यमाहुः कुशलं सौख्यमनन्तमात्मरूपम् ॥ ७ ॥ तच्च रत्नत्रये पूर्णे परमं प्राप्यमात्मनः । तच्च सद्दष्टिसंज्ञानचारित्राणि प्रकीर्तितम् ॥ ८ ॥ आप्तागमपदार्थानां श्रद्धानं दर्शनं विदुः । तन्मूले ज्ञानचारित्रे भव्यलोकैकभूपणे ॥ ६ ॥ उत्तमाङ्गमिवाङ्गेषु नयनं करणेष्विव । मुक्त्यङ्गेषु प्रधानाङ्गं सम्यग्दर्शनमिष्यते ।। १० । आत्मा हि ज्ञानदृक्सौख्यलक्षणो विमलः परः । सर्वाशुचिनिदानेभ्यो देहादिभ्य इतीरितः ॥ ११ ॥ इत्यादि स्वार्थविज्ञानं सम्यक्ज्ञानमसंशयम् । सम्यक्ज्ञानवता कार्यः परित्यागः परस्य वै ।। १२ ।। परित्यागवतो जीवा द्विविधाः परिकीर्तिताः ।
अनगाराश्च सागाराः पूर्वे सावद्यवर्जिताः ॥ १३ ॥ यतीनां सुधर्मं न शक्नोषि वोढुं महोक्षेण वाह्यं यथा तत्किशोरः ।
अतस्त्वं गृहाण गृहस्थस्य धर्मं यतो मुक्तिलक्ष्मीरदूरे भवित्री || १४ ||
१२३
कुशलमिति - विविधा बहुप्रकारा या आशाबततयस्तृष्णा वल्लर्यस्तासां प्ररोहस्याङ्करस्य कन्दं मूलम्, कर्मपट्केन कृष्यादिपट्कर्मसमूहेन जातं समुत्पन्नम्, सौख्यं शर्म, कुशलं क्षेमम्, न हि निश्वयेन न वर्तते, अपवर्गजं मोक्षोत्पन्नम्, आत्मसाध्यं स्वसाध्यम्, अनन्तमन्तातीतम्, आत्मरूप मात्मस्वभावात्मकम्, सौख्यं शर्म, कुशलं क्षेमम्, आहुः कथयन्ति, सन्त इति शेषः ॥ ७ ॥
तच्च रत्नत्रय इति --- आत्मनश्चितः परममुत्कृष्टम्, तच्च सौख्यञ्च, रत्नत्रये सम्यग्दर्शनादित्रितये सति, प्राप्यं लभ्यम्, भवेदिति शेषः । तच्च रत्नत्रयञ्च, सद्द्दष्टिश्च संज्ञानञ्च चारित्रञ्चेति सद्दष्टिसंज्ञानचारित्राणि सम्यग्दर्शनसम्यग्ज्ञानसम्यक्चारित्राणि, प्रकीर्तितं कथितम्, विशेष्यापेक्षयैकत्वम् ॥ ८ ॥
आप्तागमेति - आप्तश्च जिनेन्द्र श्चागमन्च शास्त्रञ्च पदार्थश्च जीवादितत्त्वञ्चत्याप्राप्तागमपदार्थास्तेषाम्, श्रद्धानं प्रत्ययः, दर्शनं सम्यग्दर्शनम्, तत्सम्यग्दर्शनं मूलं कारणं ययोस्ते, भव्यलोकानां भव्यप्राणिनामेकभूषणे, मुख्याभरणे, ज्ञानचारित्रे बोधवृत्ते, विदुर्जानन्ति, सन्त इति शेषः ॥ ६ ॥
उत्तमाङ्गमिति—अङ्गेषु हस्तपादाद्यवयवेषु, उत्तमाङ्गमिव शिर इव, करणेषु हपीकेषु, नयनं लोचनमिव मुक्त्यङ्गेषु मोक्षसाधनेपु, सम्यग्दर्शनमाद्यरत्नम्, प्रधानाङ्ग प्रमुखसाधनम्, इप्यतेऽभिलक्ष्यते ॥ १० ॥
आत्मा हीति - हि निश्चयेन, ज्ञानदृक्सौख्यानि बोधप्रत्याह्लादा लक्षणं चिह्नं यस्य तथाभूतः विमलो निर्मलः आत्मा जीवः, सर्वाशुचिनिदानेभ्यो निखिलामेध्यकारणेभ्यः देहादिभ्यः शरीरादिभ्यः परो भिन्नः, अस्तीति, ईरितः कथितः ॥ ११ ॥
इत्यादीति — इत्यादि पूर्वोक्तप्रकारेण स्वार्थविज्ञानम् आत्मपदार्थबोध:, असंशयं सन्देहरहितम्, उपलक्षणाद्विपर्ययाध्यवसायरहितमपि, सम्यग्ज्ञानं साधुबोधः, अस्तीति शेषः, सम्यग्ज्ञानवता सम्यग्बोधयुक्तेन जनेन वै निश्चयेन, परस्य भिन्नस्य शरीरादेः परित्यागः परिहारः, कार्यों विधातव्यः ।। १२ ।।
परित्यागेति -- परित्यागेन युताः परित्यागयुताः परपरिहारसहिताः अत्र लक्षणभ्रष्टतया 'परित्यागवतः' इति पाठो हेयः, जीवाः प्राणिनः, द्विविधाः द्विप्रकाराः परिकीर्तिताः कथिताः, अनगारा मुनयः सागाराश्च गृहस्थाश्च, तयोः पूर्वेऽनगाराः, सावद्यवर्जिताः सपापकार्य रहिताः सन्तीति शेषः ॥ १३ ॥
यतीनामिति -त्वम्, महोक्षण महावृपभेण, वाह्यं वोढुं योग्यं भारम, तकिशोरो यथा तद्दालक इव,
१ सज्ज्ञान ब० ।