SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १२२ जीवन्धरचम्पूकाव्ये ततः कृपासंक्रान्तस्वान्तः कुरुनिशाकान्तः, पार्श्वगतं नीलकम्बलावगुण्ठितकलेवर तयान्तरमेयत्वेन बहिरपि प्रसरताज्ञानपटलेनेवावृतम् , मलीममोप्णीपपरिष्कृतोत्तमाङ्गतया कुरुवीरदर्शननिर्गमिप्यत्पापमिव प्रतीयमानम् , कान्ल्या जात्या च जघन्यवर्णम , तमेनमालोक्य, 'अपि कुशलम्' इति पप्रच्छ । सौलभ्यं हि महत्ताया भूषणाय प्रकल्पते । प्रभुत्वस्येव गाम्भीर्यमौदार्यस्येव सौम्यता ॥ ४ ॥ महत्वमात्रं कनकाचलेऽपि लोटेऽपि सौलभ्यमिह प्रतीतम । एतद्वयं कुत्रचिदप्रतीतं कुरुप्रवीरे न्यवसत्प्रकाशम ॥५॥ वृपलोऽपि विनीतः सन्नुवाच कुरुकुञ्जरम् । कुशलं साम्प्रतं युष्मदर्शनेन विशेषतः ॥ ६॥ तदिदमार्कण्याव्याजबन्धुर्जीवन्धरः, जीवादितत्त्वयाथात्म्यविवेचनचतुरः तत्तादृशागण्यपुण्यैकलभ्यां मोक्षपदवीं विवरीतुमारभत । 'तोत्रं वैणुकम्' इत्यमरः, कम्बलेन रलकेन छन्नः पिहितो देहो विग्रहो यस्य सः, 'समौ रल्लककम्बलौ' इत्यमरः, कटितटं मध्यप्रदेशं गतं प्राप्तमिति कटितटगतम्, तथाभूतं दानं लवित्रं यस्य सः, स्कन्धे बाहुशिरसि सम्बद्धः स्थापितः सीरो हलो यस्य सः, कश्चित् कोऽपि, ना पुमान् , वनभुवि काननवसुधायाम्, पथि मार्गे, तस्य जीवन्धरस्य, पार्श्व समीपम्, आगमत्-आजगाम, हि यतः प्राणिनां जन्मिनाम्, प्रवृत्तिश्चेष्टा, नियन्या देवेन निततं नियन्त्रितं रूपं परिणामो यस्यास्तथाभूना । भवतीति शेपः । अर्थान्तरन्यासः । मालिनीवृत्तम् ॥३॥ तत इति-ततस्तदनन्तरम्, कृपया करुण या संक्रान्तं मिलितं स्वान्तं चित्तं यस्य सः, कुरुनिशाकान्तः कुरुवंशचन्द्रः, जीवन्धर इति यावत्, पार्श्वगतं निकटप्राप्तम् । नीलकम्बलेन कृष्णरल्लकेनावगुष्टितं समावृतं कलेवरं शरीरं यस्य तस्य भावस्तत्ता तया, अन्तर्मध्ये, अमेयत्वेन मातुमशक्यत्वेन, बहिरपि प्रसरता प्रसरणशीलेन, अज्ञानपटलेनाज्ञानसमूहेन, आवृतमिव तिरोहितमिव, मलीमसेन मलिनेनोष्णीषेण शिरोवेष्टनेन परिष्कृत सहितमुत्तमानं शिरो यस्य तस्य भावस्तत्ता तया, कुरुवीरदर्शनेन जीवन्धरविलोकनेन निर्गमिष्यनिष्कामिप्यत्पापं दुरितं यस्य तथाभूतमिव प्रतीयमानं दृश्यमानम्, कान्त्या दीप्न्या, जात्या च ज्ञात्या च, जघन्यो हीनो वर्णो रूपं शूद्रसंज्ञकश्च यस्य तम्, तं पूर्वोक्तम्, एनं नरम्, आलोक्य दृष्ट्वा, 'अपि कुशलम्' 'कञ्चित् क्षेमम्' इति प्रपच्छ पृच्छति स्म । सौलभ्यमिति-हि निश्चयेन, सौलभ्यं सुप्राप्यत्वम्, सर्वेपामिति शेपः, महत्ताया महत्त्वस्य, भूपणायाभरणाय, प्रकल्पते जायते । यो हि महान् सर्वेपां सुलभो भवेत् स साधुरिति यावत् । किं वन् ? प्रभुत्वस्य समृद्धिमत्त्वस्य भूपणाय गाम्भीर्यमिव स्थैर्यमिव, औदार्यस्य दातृत्वस्य, सौम्यतेव सजनतेव । उपमा ॥४॥ महत्त्वमात्रमिति-इह लोके, महत्त्वमेव महत्त्वमात्रम्, केवलमहत्त्वमिति यावत् , कनकाचलेऽपि सुमेरावपि, सौलभ्यं सुप्राप्यत्वम्, लोष्ठेऽपि पापाणखण्डेऽपि, प्रतीतं प्रसिद्धम्, एतयोर्महत्त्वसौलभ्ययोर्द्वयं युगलम्, कुत्रचित्क्वापि, अप्रतीतमप्रसिद्धम्, कुरुपवीरे जीवन्धरे तु, प्रकाशं स्पष्टं यथा स्यात्तथा, न्यवसत् निवासं चकार ॥५॥ वृपलोऽपीति-वृपलोऽपि शूद्रोऽपि, विनीतो विनम्रः सन् , कुरुकुञ्जरं जीवन्धरम्, उवाच जगाद, साम्प्रतमधुना, युष्मद्दर्शनेन भवदवलोकनेन, विशेपतः सातिशयम, कुशलं मङ्गलम्, अस्तीति शेपः ॥ ६ ॥ तदिदमिति-अव्याजबन्धुनिश्छलबन्धुः, जीवादितत्त्वानां जीवप्रभृतिपदार्थानां याथात्म्यस्य वास्तविकस्वरूपस्य विवेचने निरूपणे चतुरो विदग्धः, जीवन्धरः सात्यन्धरिः, तदिदं वृपलोक्तम्, आकय श्रुत्वा, तत्तादृशेन अगण्येन प्रचुरेण पुण्येन सुकृतेन-एकेन-अद्वितीयेन लभ्या प्राप्या ताम्,मोक्ष पदवीं मुक्तिपद्धतिम्, विवरीतुं वर्णयितुम् । आरभत तत्परो बभूव ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy