________________
सप्तमो लम्भः तदनु कुरवरिष्ठः क्षेमलक्ष्म्या कृशाङ्गया
निरवधिसुखतातिं नित्यसंयोगहेतुम् । अविरतमनुभूय प्रागिवासौ कदाचि
निशि निरगमदेकः काननान्तं क्रमेण ॥ १ ॥ तदनु, प्राणकान्तावियोगेन तान्तां दग्धरजुसमकान्ति सक्रान्ताम् , नयनयुगलं निःश्वासं च दीर्घमादधानाम , पयोधरभरं सन्तापं च गुरुं विभ्राणाम , कचनिचयं चित्तं च तमःसमूहसहायमातन्वतीम् , तनुवल्लीं मध्यस्थलं चातितनुमाकलयन्तीम , दुःखसागरनिमग्नां पुत्रीं विलोक्य, सुभद्रोऽपि संतप्तस्वान्तः कान्तारमागत्य, तत्र तत्र विचित्य, तदीयमार्गमलभमानो न्यवर्तिष्ट ।
स्वामी च काननतले गगने शशीव
___ सञ्चारकेलिचतुरो मणिभूपणानि । कस्मैचिदर्पयितुमैहत दानशौण्डो
धर्माध्वनीनमनसे वनसेवकाय ॥ २॥ करधृतऋजुतोत्रः कम्बलच्छन्नदेहः
कटितटगतदात्रः स्कन्धसम्बद्धसीरः । वनभुवि पथि कश्चिन्नागमत्तस्य पार्श्व
नियतिनियतरूपा प्राणिनां हि प्रवृत्तिः ॥ ३॥
तदन्विति-तदनु पाणिग्रहणानन्तरम्, असौ प्रसिद्धः, कुरुवरिष्टः कुरुवंशश्रेष्टो जीवन्धरः, कृशाङ्गया तन्वङ्गया, क्षेमलचम्या क्षेमश्रिया, साकम्, नित्यसंयोगोऽनवरतसमागमो हेतुः कारणं यस्यास्ताम्, निरवधिसुखतातिं निःसीमसौख्यसमूहम्, अविरतमभीचणम्, अनुभूय समुपभुज्य, प्रागिव पूर्ववत्, कदाचिज्ञातुचित्, निशि रजन्याम, एकोऽद्वितीयः सन् , क्रमेण क्रमशः काननान्तं वनान्तम् , निरगमन् निश्चक्राम । मालिनीच्छन्दः ॥ १॥
__ तद्नु प्राणकान्तवियोगेनेति-तदनु तदनन्तरम्, प्राणकान्तस्य जीवन्धरस्य वियोगो विरहस्तेन, तान्तां दुःखिताम्, दग्धरज्जुसमा प्लुटप्रग्रहसदृशी या कान्तिस्तया संक्रान्ता मिलिता ताम्, नयनयुगलं नेत्रयुगम्, निःश्वासं श्वासोच्छासञ्च, दीर्घमायतम्, आदधानां बिभ्रतीम्, पयोधरभरं स्तनभारम्, संताप दुःखञ्च, गुरुं दुर्भरमधिकञ्च, बिभ्राणां दधतीम्, कचनिचयं केशसमूहं चित्तञ्च मानसञ्च, तमःसमूहसहायं ध्वान्तनिचयसदृशं मोहसमूहसहितम् च, आतन्वती कुर्वन्तीम्, तनुवल्लीं शरीरलतां मध्यस्थलं च, कटिप्रदेश च, अतितनुं कृशतरम्, आकलयन्तीमादधतीम्, दुःखसागरेऽशर्मसमुद्रे निमग्ना बुडिता ताम्, पुत्री सुतां क्षेमश्रियमिति यावत् , विलोक्य दृष्ट्वा, सुभद्रोऽपि वणिग्वरोऽपि, संतप्तं खिन्नं चित्तं हृदयं यस्य तथाभूतः सन्, कान्तारं वनम्, आगत्य समेत्य, तत्र तत्र तेषु तेषु प्रदेशेषु, विचित्य समन्विष्य, तदीयमार्ग तदयनम्, अलभमानोऽप्राप्नुवन् , न्यवर्तिष्ट प्रत्यावृत्तो बभूव ।
स्वामी चेति-गनने वियति, शशीव चन्द्र इव, सञ्चारकेल्यां विहारक्रीडायां चतुरो दक्ष इति सञ्चारकेलिचतुरः, दाने विश्राणने शोण्डो निपुण इति दानशौण्डः, स्वामी च जीवन्धरश्व, धर्मस्य रत्नत्रयरूपस्याध्वनीनं पथिकं मनो हृदयं यस्य तस्मै, कस्मैचित्, वनसेवकाय वनचरा य, मणिभूषणानि रत्नाभरणानि, अर्पयितुम् प्रदातुम्, ऐहत ऐच्छत् । वसन्ततिलकावृत्तम् ॥ २॥
करवृतेति-करे हस्ते कृतं गृहीतम् ऋजु सरलं तोत्रं वैणुकं ('परेना' इति प्रसिद्धं ) येन सः
१६