________________
१२०
जीवन्धरचम्पूकाव्ये क्षेमश्रीः कुरुकुञ्जरस्य सविधे पाथोजधिकारिणी
पद्भयामूरुयुगेन सारकदलीकाण्डश्रियं बिभ्रती । पाणिभ्यां नवपल्लवप्रतिमतां संसूचयन्ती स्वयं
वक्षोजद्वितयेन कोकयुगल'न्यक्कारधीरा बभौ ॥४६॥ इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पूकाव्ये
क्षेमश्रीलम्भो नाम पष्ठो लम्भः ।
परिष्कृता भूमिः' इत्यमरः, रतिश्च पञ्चशरश्चेति रतिपञ्चशरौ ताविव रतिपञ्चशराविव रतिप्रद्युम्नाविव, 'इवेन नित्यसमासी विभक्त्यलोपश्च' इति समासः, चकासामासतुः शुशुभाते । उपमा ॥४८॥
क्षेमश्रीरिति-पद्भ्यां चरणाभ्याम्, पायोजधिक्कारिणी कमलविनिन्दिनी, ऊरुयुगेन सक्थियुग्मेन, सारकदलीकाण्डश्रियं श्रेष्ठतमरम्भाप्रकाण्डलचमीम्, बिभ्रती दधती पाणिम्यां हस्ताभ्याम्, स्वयं स्वतः, नवपल्लवप्रतिमतां प्रत्यग्रकिसलयतुलनाम् , संसूचयन्ती प्रकटयन्ती, वक्षोज द्वितयेन कुचयुगलेन, कोकयुगल्याश्चक्रवाकद्वन्द्वस्य धिक्कारे पराभवे धीरा निपुणा, क्षेमश्रीः सुभद्रश्रेष्टिसुता, कुरुकुञ्जरस्य जीवन्धरस्य, सविधे समीपे । बभौ शुशुभे । उपमा । शार्दूलविक्रीडितच्छन्दः ॥४६॥ इति महाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी' व्याख्याधरे जीवन्धरचम्पूकाव्ये
क्षेमश्रीलम्भो नाम पष्ठो लम्भः ।।
M
VIII
1/Inth