________________
पष्टो लम्भः तत्रालये कनकपीठमलंकरिष्णु
जिष्णुप्रतीपविभवः कुरुवंशकेतुः । संप्रार्थितो बहुतरं वणिजां वरेण
___ कन्याकराम्बुरुहपीडनमन्वमस्त ।। ४५ ॥ हुताशने साक्षिणि भद्रलग्ने सुभद्रदत्तां कुरुसिंह एषः । क्षेमश्रियं कोमलगाववल्ली जग्राह पाणौ जगदेकवीरः ।। ४६ ।। पाणिपझं गृहीत्वास्याः स्विन्नाङ्गुलिदलोज्ज्वलम् ।
मृदुलं सुकुमाराङ्गयाः संदिग्धे कुरुकुञ्जरः ॥ ४७ ॥ तथाहिअवश्यायाकीर्णः किमु कमलकोशो न हि न हि
प्रभेक्तस्यास्ते किमु नखसुधासूतिमिहिका । न चास्याः सौगन्ध्यं सपदि करनीरेजविगल
न्मधुस्यन्दः किं वा न हि न हि सुधैव प्रसरति ॥४॥ तौ दम्पती महाकान्ती मणिभूषणमण्डितौ । चकासामासतुर्वेद्यां रतिपञ्चशराविव ॥४॥
---
---------0-rrrrrrrrrr
rudr~
वलग्नप्रदेशेभ्यः, नीबीबन्धपदवीं अधोवस्त्रग्रन्थिसन्ततिम्, हृदयेभ्यश्चित्तेभ्यः, धैर्यपरिपाटी धीरतापरम्पराम, युगपदेककालम्, गलितां पतिताम्, आदधानः कुर्वाणः, मन्दमन्दं शनैः शनैः, तन्मन्दिरं सुभद्रश्रेष्टिसदनम्, अविन्दत लेभे।
तत्रालय इति-तत्रालये तस्मिन् भवने, कनकपीठं सुवर्णसिंहासनम्, अलंकरिष्णुः शोभयन् , जिष्णुप्रतीपो पुरन्दरप्रतिपक्षो विभव ऐश्वयं यस्य सः, कुरुवंशकेतुर्जीवन्धरः, वणिजां वरेण सुभद्रेण, बहुतरं प्रचुरतरम्, संग्रार्थितः प्रार्थनाविषयीकृतः सन् , कन्याकराम्बुरुहपीडनं पतिवरापाणिपद्मपीडनम्, अन्वमस्त स्वीचकार | वसन्ततिलकावृत्तम् ॥४५॥
हुताशन इति-एकश्चासौ वीरश्चेत्येकवीरः, जगत्येकवीर इति जगदेकीरो लोकैकशूरः, एषः सः, कुरुसिंहो जीवन्धरः, भद्रलग्ने समुत्तमावसरे, हुताशने वह्नौ, साक्षिणि साक्षात्कर्तरि सति, सुभद्रेण श्रेष्टिना दत्ता समर्पिता ताम्, कोमला मृदुला गात्रवल्ली तनुलता यस्यास्ताम्, क्षेमश्रियम्-एतन्नाम्नी कन्याम, पाणी करे, जग्राह गृहीतवान् , तामुदवोढेति भावः ॥४६॥
पाणिपद्ममिति-कुरुकुञ्जरो जीवन्धरः, सुकुमाराङ्गया मृदुलकलेवरायाः, अस्याः क्षेमश्रियः, मृदुलं कोमलम्, स्विन्नाङ्गुलय एव स्वेदाक्तहस्तशाखा एव दलानि पत्राणि तैरुज्ज्वलं मनोहरम्, पाणिपद्मं करकमलम. गृहीत्वा स्वहस्तेनादाय, संदिग्धे संदेहञ्चकार ॥४७॥
तथाहि-संदेहप्रकारं प्रदर्शयति ।।
अवश्यायाकीर्ण इति-अस्या हस्तः, अवश्यायैस्तुषारैराकीर्णो व्याप्तः, कमलकोशः कमलकुड्मलम्, किम् कथम्, उ इति वितर्के पूर्णसंदेहं परिहरति-नहि स न भवेत्, हि यतः, तस्य कमलकोशस्य, ईदृक् हस्तसदृशी, प्रभा कान्तिः, न नो वर्तत इति शेषः । अथवा नखमेव नखरमेव सुधासूतिश्चन्द्रस्तस्य मिहिका हिमं 'अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः' इत्यमरः, किम् कथम्, उ' इति वितर्के, अथ संदेहं परिहरति, अस्या नखसुधासूतिमिहिकायाः सौगन्ध्यं सुरभित्वं न च वर्तते, अत्र तु सौगन्ध्यं वर्तते तदयं सा न भवतीति यावत् , किं वा यद्वा, सपदि झटिति करनीरेजात्पाणिपद्माद् विगलंश्चासौ मध्युस्यन्दश्च मकरन्दनिस्यन्दश्चेति तथा, अस्तीति शेष, एतत्संदेहमपि परिहरति-नहि नहि स न वर्तते किन्तु सुधैव पीयूषमेव, प्रसरति प्रसारं प्रामोति । संशयालंकारः । शिखरिणीच्छन्दः ॥४॥
तौ दम्पतीति-महती कान्तिर्ययोस्तौ, तौ दम्पती जायापती, वेद्यां परिष्कृतायां भूमौ, 'वेदी