________________
११८
जीवन्धरचम्पूकाव्ये
युष्मत्पादपयोजधूलिनिचयैरत्रालयो मामकः
__शुद्धः कार्य इति प्रमोदकलिका चित्ते जरीजृम्भते । सेयं संप्रति धीमता विकसिता कार्या न चेदेप वै ।
द्रागाकारखिलीभवत्तदभिधावाच्यार्थमाटीकते ।। ४३ ॥ सकलभवनवृन्दं सत्पदाम्भोजधूली
परिचयपरिहीनं नैजनाम्नोऽन्यथार्थम् । भजत इति ह लोके सुप्रतीतं सुधीनां
__ निखिलगुणपयोधे मद्वचोऽङ्गीकुरुष्व ।। ४४ ।। तदनन्तरमनुकम्पितचेतः कुरुकुलशशाङ्कस्तद्वचनं बहुमन्यमानः, तपनरथजवनिन्दनेन स्यन्दनेन गोपुरद्वारं प्रविश्य, प्रासादपालिकावातायनप्रसृतपुरन्ध्रिकापाङ्गतरङ्गितनीलोत्पलश्यामलतोरणदामावलीषु प्रतोलीषु रक्तनयननालीको नालीकसायकस्तालीफलस्तनीनां व्यालीनिभवेणीनां रमणीमणीनामक्षिभ्यः पुष्कलसंमदाश्रुलहरीम , कटितटेभ्यो नीवीबन्धपदवीम् , हृदयेभ्यो धैर्यपरिपाटीम् , युगपद्गलितामादधानो, मन्दमन्दं तन्मन्दिरमविन्दत ।।
प्रकाशति दीप्यमाने सति, प्रकाशतीत्यत्रात्मनेपदाच्छतृप्रयोगश्चिन्त्यः, सूर्यो दिवाकरः, भया दीप्ल्या आकलिना युक्ता वृत्तिर्यस्य तथाभूतः, शशाङ्को मृगाङ्कः, दोपाकरो रात्रिकरः पक्षे दोषाणामवगुणानामाकरः खनिः, धृतः कलङ्कभरो लक्ष्मभरः पक्षे कल्मपसमूहो येन तथाभूतः, क्षयिष्णुः क्षयशीलश्च, अभूद् बभूव । अन्यस्मिन्प्रतापाधिके विद्यमाने निष्प्रतापा अन्ये निष्प्रभा भीताश्च भवन्त्येवेति भावः । श्लेपः । वसन्ततिलकावृतम् ॥ ४२ ॥
युष्मत्पादेति-अत्र नगरे, मामको मदीयः, आलयः आगत्य लीयते यस्मिन्नित्यालयो भवनम्, तव पादपयोजयोश्चरणकमलयोधूलिनिचयाः परागसमूहास्तैः शुद्धः पवित्रः, कार्यों विधातव्यः, इत्येवम्, प्रमोदकलिका हर्षकोरकः 'कलिका कोरकः पुमान्' इत्यमरः, चित्ते हृदये, जरीजृम्भते अतिशयेन वर्धते, सा पूर्वोक्ता, इयमेपा प्रमोदकलिका, सम्प्रतीदानीम्, धीमता सुधिया भवता, विकसिता प्रस्फुटा, कार्या कर्तव्या, न चेद् यद्येवं न स्यात् , तर्हि, वै निश्चयेन, एप आलयशब्दः, द्राक् सत्वरम्, आकारेण संस्थानेन दीर्घाकारवणेन च खिलीभवन् विरुद्धीभवन् यस्तदभिधायास्तच्छब्दस्य वाच्यार्थः प्रतिपाद्यार्थस्तम्, आटीकते प्राप्नोति आकारेण रहित आलयो लयो भवति तस्य च प्रतिपाद्योऽर्थो विनाशस्तं प्राप्नोति यावत् ॥४३॥
सकलभवनवृन्दमिति सतां साधूनां यानि पदाम्भोजानि चरणकमलानि तेषां धूली परागस्तस्याः परिचयः सम्पर्कस्तेन परिहीनं रहितम्, सकलभवनवृन्दं निखिलनिकेतननिकुरम्बम्, नैजनाम्नः स्वकीयाभिधानस्य, अन्यथार्थ विपरीताभिधेयम् , भजते प्राप्नोति, इत्येवम्, लोके भुवने, सुधीनां विदुषाम्, अत्र सुधीशब्दस्य पष्ठीबहुवचने 'सुधीनाम्' इति प्रयोगश्चिन्त्यः, सुप्रतीतं सुप्रसिद्धम्, अस्तीति शेषः । हे निखिलगुणपयोधे ! सकलगुणसागर ! मदचोऽस्मद्वचनम्, अङ्गीकुरुष्व स्वीकुरु । 'ह' इत्यव्ययं पादपूतौ । मालिनीच्छन्दः ॥४४॥
तदनन्तरमिति-तदनन्तरं तत्पश्चात् , अनुकम्पितं दयायुक्तं चेतो हृदयं यस्य तथाभूतः, कुरुकुलशशाङ्कः कुरुवंशचन्द्रः, जीवन्धर इति यावत् , तद्वचनं श्रेष्ठिवाचम्, बहुमन्यमानः-आदरेण स्वीकुर्वाणः, तपनरथजवनिन्दनेन. सूर्यस्यन्दनरयविनिन्दकेन, स्यन्दनेन शताङ्गन, गोपुरद्वारं प्रधानप्रवेशमार्गम्, प्रविश्य प्रवेशं कृत्वा, प्रासादपालिकाया हय॑सन्ततेर्वातायनेभ्यो गवाक्षेभ्यः प्रसृतानि निर्गत्य विस्तृतानि यानि पुरन्ध्रिकाणां सौभाग्यवतीनामपाङ्गानि कटाक्षास्तैस्तरङ्गितानि कल्लोलितानि यानि नीलोत्पलानि नीलकमलानि तैः श्यामला नीलप्रभास्तोरणदामावल्यो वन्दनस्रक्सन्ततयो यासु तासु, प्रतोलीप रथ्यासु, रक्ते लोहितवणे नयननालीके नेत्रारविन्दे यस्य तथाभूतः, नालीकसायकः कमलपुष्पायुधः कामदेवपदधारकः जीवन्धर इति यावत् , तालीफले इव स्तनौ यासा तासाम्, व्याली निभा नागीतुल्या वेण्यः कवर्यो यासां तासाम्, रमणीमणोनां नारीश्रेष्ठानाम्, अक्षिभ्यो नयनेभ्यः, पुष्कलसंमदाश्रुलहरी पूर्णप्रहर्पबाष्पपरम्पराम्, कटितटेभ्योऽ