________________
पष्टो लम्भः
११७ तदनु निजसहायतासहितो वणिजां पतिस्तुङ्गतमशताङ्गमारूढः, पुरतोरणमतीत्य, पुरतो विराजमानं श्रीविमानमासाद्य, तत्र वन्दारजनसन्दाहमन्दारस्य शान्तिनाथस्य पादारविन्दसेवाहेवाकभावकलितान्तरङ्गम् , अगण्य पुण्यपुञ्ज इव विस्तीर्णस्फटिकोपलविष्टरे तस्थिवांसं जीवन्धरमद्राक्षीत् ।
पश्यता वैश्यनाथेन परमोत्कृष्टलक्षणम् । निर्निमीलननेत्रेण निरणाय्यस्य वैभवम् ।। ३ ।। कान्त्या परीनं कुरुवंशकेतुमुवाच मोदेन विशामधीशः । सप्रश्रयं सत्कृतशान्तिनाथमुपागतः स्वागतमारचय्य ।। ४० ।। फलं दृष्टयोः प्राप्तं परिणतमयं मे सुदिवस
स्तदस्मद्वंश्यानां कृतसुकृतवल्ली च फलिता। मदीयेष्टार्थोऽपि स्फुटतरमदूरे विजयते
यतः श्रीमान्प्राप्तो नयनपथपान्थत्वमधुना ।। ४१ ॥ पद्माप्ततां कुवलयोल्लसनं च तन्व
त्यद्य प्रकाशति पुरस्त्वयि राजहंसे । सूर्यो भयाकलितवृत्तिरभूच्छशाङ्को
दोषाकरो घृतकलङ्कभरः क्षयिष्णुः ।। ४२ ।।
तदनु निजसहायतेति-तदनु तदनन्तरम्, निजसहायतासहितः स्वकीयमित्रसमूहसहितः, वणिजां सार्थवाहानाम्, पतिः स्वामी, सुभद्र इति यावत् , अतिशयेन तुङ्ग तुङ्गतमं तच्च तच्छताङ्गञ्चेति तुङ्गतमशताङ्गं तत् समुच्चस्यन्दनम्, आरूढोऽधिष्ठितः, सन् , पुरतोरणं नगरद्वारम्, अतीत्य समुल्लध्य, पुरतोऽग्रे, विराजमानं शोभमानम्, श्रीविमानं श्रीजिननिकेतनम्, आसाद्य प्राप्य, तत्र श्रीविमाने, वन्दारुजनानां वन्दनशीलपुरुषाणां सन्दोहः समूहस्तस्य मन्दारः पारिजातकस्तस्य, शान्तिनाथस्य पोडशीर्थकरस्य, पादारविन्दसेवायां चरणकमलाराधनायां यो हेवाकभावो नम्रत्वभावस्तेन कलितं सहितमन्तरङ्गं स्त्रान्तं यस्य तम्, अगण्यपुण्यपुञ्ज इवापरिमितसुकृतराशाविव, विस्तीर्णं विस्तृतं यस्फटिकोपलविष्टरं सितोपलासनं तस्मिन् , तस्थिवांसं स्थितम्, जीवन्धरं सात्यन्वरिम्, अद्राक्षीद् विलोकयामास ।।
पश्यतेति-परमोत्कृष्टानि श्रेष्ठतमानि लक्षणानि सामुद्रिकशास्त्रप्रणीतचिह्नानि यस्य तं जीवन्धरम्, पश्यता विलोकयता, निर्निमीलने निमेषरहिते नेत्रे यस्य तेन, वैश्यनाथेन सुभद्रश्रेष्ठिना, अस्य सान्यन्धरेः, वैभवं माहात्म्यम्, निरणायि निर्णीतम् । कर्मणि प्रयोगः ॥ ३६ ॥
कान्त्येति-सप्रश्रयं सविनयम्, सत्कृतः शान्तिनाथो येन तं सत्कृतशान्तिनाथं सुपूजितपोडशतीर्थकरम्, कान्त्या दीप्त्या, परीतं सहितम्, कुरुवंशस्य केतुर्ध्वजस्तं जीवन्धरम् उपागतः प्राप्तः, विशामधीशः श्रेष्ठी सुभद्र इति यावत्, स्वागतं शुभागमनम्, आरचय्य कृत्वा, मोदेन हर्षेण, उवाच जगाद ॥ ४० ॥
फलमिति-यतः कारणात् , श्रीमान् भवान् , नयनपथस्य नेत्रमार्गस्य पान्थः पथिकस्तस्य भावस्तत्त्वम्, प्राप्तः समायातः, ममेति शेपः, तत् तस्मात्कारणात् , अधुना साम्प्रतम्, दृष्ट्योनयनयोः, परिणतं पक्वम्, फलं प्रयोजनम्, प्राप्तं लब्धम्, मयेति शेषः, अयमेषः, मे मम, सुदिवसः शोभनवासरः अस्तीति शेषः, वंशे भवा वंश्याः, मम वंश्या अस्मद्वश्यास्तेषां मत्पूर्वपुरुषाणाम्, कृतसुकृतवल्ली कृतपुण्यलता, फलिता च सञ्जातफला च जातेति शेषः, मदीयेष्टार्थोऽपि मदीप्सितार्थोऽपि, स्फुटतरं प्रकटतरं यथा स्यात्तथा, अदूरे निकटे, विजयते सर्वोत्कर्षेण वर्तते । शिखरिणीच्छन्दः ॥ ४५ ॥
पद्माप्ततामिति-पद्मया लपम्या-आप्तः प्राप्तस्तस्य भावस्तत्ता ताम्, पक्षे पद्मः कमलराप्तस्तस्य भावस्ताम्, कुवलयस्य महीमण्डलस्य पक्षे नीलकमलस्योल्लसनं विकासनञ्च, तन्वति विस्तारयति, त्वयि भवति, राजहंसे श्रेष्ठनृपती अथवा राजा च चन्द्रश्च हंसश्च सूर्यश्च, अनयोः समाहारस्तस्मिन् , पुरोऽग्रे