SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये गुणभद्रोऽपि संप्राप्य सुभद्रं भद्रमन्दिरे। चिन्तानिद्रां बिभेदाशु वचःपीयूपसेचनैः ॥ ३५ ॥ कश्चित्पूरुपचन्द्रमाः कुवलयायाह्लादसंदायकः संतोपाम्बुधिवर्धकः स्तुतिमयी पीयूपधारां किरन् । बाह्योद्याननभःस्थलीमवतरन्बाभाति यदशेना दारामः सरसीजलच्छलवशादानन्दबाष्पं दधे ।। ३६ ॥ सोऽयं न चन्द्रो न च पञ्चबाणो न वासवः किंतु वसन्त एव । कुतोऽन्यथा चम्पकपादपस्य प्रसूनभारस्ततगन्धपूरः ।। ३७ ॥ तस्मिन्स्तुतिरवमुखरे पुरुपकुञ्जरे वनस्थली भास्वतीव प्राचीदिशमधिगच्छति जिनभवनं कमलवनं च क्षणादुद्घाटितकवाटमजायतेति । श्रुत्वा तदीयाममृतोर्मिलां गां तस्मै ददावुच्छ्रितपारितोपिकम् । मनोरथस्फूर्तिलताप्ररोहोपदानमौल्यं किल तद्वणिक्पतिः ।। ३८ ।। शयेन आनतो विनम्र इति भक्तिभरानतः, सन् जिनपभवनं जिनेन्द्रमन्दिरम्, विन्दन् प्राप्नुवन् , तत्र प्रविशन्निति यावत्, वन्दारूणां वन्दनशीलानां कल्पकशाखी कल्पवृक्षस्तस्य तथाभूतस्य, जिनवरपतेर्जिनेन्द्रदेवस्य, पूजां सपर्याम्, कर्तुं विधातुम्, समारभन समारब्धवान् । हरिणीच्छन्दः ॥३४॥ गुणभद्रोऽपीति-गुणभद्रोऽपि श्रेष्टिसेवकोऽपि, भद्रमन्दिरे भव्यभवने, सुभद्रमेतन्नामानं राजश्रेष्टिनम्, संप्राप्य लब्ध्वा, वचःपीयूपस्य वचनसुधायाः सेचनानि समुक्षणानि तैः, आशु झटिति, चिन्तानिद्रां चिन्तास्वापम्, बिभेद खण्डयामास, तस्येति शेषः । वरागमनसमाचारेण तस्य चिन्तां दूरीचकारेति भावः ॥३५॥ ___ कश्चिदिति-कोवलयं कुवलयं तस्मै महीमण्डलाय, पक्ष नीलकमलाय, आह्लादसंदायको हर्पप्रदायकः, संतोष एवाम्बुधिः सन्तोपाम्बुधिः संतृप्तिसागरस्तस्य वर्धको वृद्धिकरः, स्तुतिमयीं स्तवनरूपाम्, पीयूपधारां. सुधाधाराम, किरन् प्रक्षिपन्, बहिर्भवं बाह्यं तच्च तदुद्यानञ्चेति बाह्योद्यानं बाहीकोपवनं तदेव नभःस्थली गगनभूमिस्ताम्, अवतरन् अवतीर्णो भवन् , कश्चित् कोऽपि, पूरुप एव चन्द्रमाः पूरुपचन्द्रमा मनुजमृगाङ्कः, बाभाति पुनःपुनरतिशयेन वा शोभते । यस्य दर्शनं यद्दर्शनं तस्मात् यदवलोकनात्, आराम उद्यानम्, सरस्याः कासारस्य जलं सलिलं तस्य छलं व्याज तस्मात्, आनन्दबाप्पं हश्रु, दधे धृतवान् । रूपकालंकारः । शार्दूलविक्रीडितवृत्तम् ॥३६॥ सोऽयमिति-सोऽयं प्रसिद्धः पूरुषः, न चन्द्रो न निशाकरः, न च पञ्चवाणो न च मदनः, न वासवो न पुरन्दरः, वर्तत इति शेषः, किन्तु वसन्त एव पुष्पाकर एव, वर्तत इति शेषः । अन्यथा-इतरथा, चम्पकपादपस्य चाम्पेयतरोः, प्रसूनभारः कुसुमकलापः, ततो विस्तृतो गन्धपूरः सुरभिप्रवाहो यस्य तथाभूतः, कुतः कथम्, स्यादिति शेषः । अपह्नुतिरलंकारः । उपजातिवृत्तम् ॥ ३७ ॥ तस्मिन्निति-स्तुतिरवेण स्तवनशब्देन मुखरो वाचालस्तस्मिन् , पुरुपकुञ्जरे • पुरुषश्रेप्ठे, तस्मिन् सात्यन्धरौ, प्राचीदिशं पूर्वाशाम्, भास्वतीव भानाविव, वनस्थली काननभूमिम्, अधिगच्छति समधितिष्ठति सति, जिनभवनं जिनेन्द्रमन्दिरम्, कमलवनं च पद्मारण्यञ्च, क्षणादचिरेण, उद्घाटितकबाटमपनीताररं प्रस्फुटितदलञ्च, अजायत बभूव, इतीत्थं गुणभद्रः सुभद्रं प्रति जगाद । श्रुत्वेति-स चासौ वणिक्पतिश्चेति तद्वणिक्पतिः, सुभद्रश्रेष्टी, अमृतेनोर्मिला ताम् पीयूपतरङ्गवतीम् तदीयां तत्सम्बधिर्नाम्, गां वाणीम्, श्रुत्वा निशम्य, तस्मै गुणभद्राय, मनोरथस्य काञ्छितस्य स्फूर्तिरेव विकास एव लता वल्ली तस्याः प्ररोहोऽङ्कुरस्तस्योपदानं समर्पणं तस्य मूल्यं वस्नम् 'मूल्यं वस्नोऽप्यवक्रयः' इत्यमरः, उच्छ्रितपारितोपिकं प्रचुरपुरस्कारम्, ददौ दत्तवान् , किलेति वार्तायां वाक्यालङ्कारे वा । अत्र प्रथमं चरणमिन्द्रवज्रायास्तृतीयमुपेन्द्रवज्रायाः, द्वितीयचतुर्थाविन्द्रवंशायाः, सर्वेषां मेलनादुपजातिवृत्तम् ॥३०॥
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy