SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पष्टो लम्भः तयोरभूत्सुतारत्नं क्षेमश्रीरिति विश्रुतम् । प्रत्यादेशः सरस्वत्याः पर्यायः कमलाकृतेः ॥ ३० ॥ या कान्तीनां परा संपद्विनयाम्बुधिचन्द्रिका । लज्जाया जननस्थानं जयकेतुमनोजनेः ॥ ३१ ॥ विधाय पूर्णशीतांशुं विधाता यन्मुखाह्वयम् । निजासनाब्जनिद्रातो नूनं दुःस्थितिरञ्जसा ॥ ३२ ॥ एतस्या वदनं दन्तकान्तिभिः क्लृप्तकेसरम । पद्मं ध्रुवं मधुलिहा भवितव्यं भवाहशा ॥ ३३ ॥ अत्रत्यजिनालयवज्रकवाटविघटनकुञ्जिकायमानस्तुतिवचनरचनः पुरुपपञ्चबदनस्तत्पतिर्भविष्यतीति जननलग्नफलनिश्चयचतुरकार्तान्तिकवार्ता निशम्य तदवसरप्रतिपालनविनिद्रेण सुभद्रेण, प्रेषितो गुणभद्रसमाह्वयोऽहं, भवन्तं समीक्ष्य कृतार्थतामनुभवामीति व्याहृत्य, सुभद्राय वृत्तान्तमिमं कथयितुं निर्जगाम । तदनु सरसीपुष्पाण्यादाय भक्तिभरातो जिनपभवनं विन्दन्वन्दारुकल्पकशाखिनः । जिनवरपतेः पूजां कर्तुं समारभत स्वयं कुरुकुलवरः सोऽयं पारीणपुण्यगुणाकरः ।। ३४ ॥ वैश्येशः, अस्तोति शेषः, अस्य श्रेष्टिनः, निर्वृतिः एतन्नामधेया सा कान्ता वल्लभा, आसीद्, या स्वयं स्वेनैव, निवृतेः संतोषस्य सुखस्य, पदं स्थानम्, वर्तत इति शेपः ॥ २६ ॥ तयोरिति-सा च स चेति तौ तयोर्दम्पत्योः, सरस्वत्याः शारदायाः प्रत्यादेशः प्रतिकृतिः, कमलाकृतेलंचमीसंस्थानस्य, पर्यायो रूपान्तरम्, क्षेमश्रीरिति विश्रुतं प्रसिद्धम्, सुतारत्नं पुत्रीरत्नम्, अभूदासीत् ॥ ३० ॥ येति-या क्षेमश्रीः, कान्तीनां दीप्तीनाम्, परा श्रेष्ठा, संपद् गुणोन्कर्पः, विनयाम्बुधेनम्रतासागरस्य चन्द्रिका कौमुदी, लजायास्त्रपायाः, जननस्थानमुत्पत्तिधाम, मनोजनेः कामस्य, जयकेतुर्विजयवैजयन्ती । अस्तीति शेपः । रूपकालंकारः ॥३॥ विधायेति-विधाता ब्रह्मा, यन्मुखाह्वयं यद्वदननामधेयम्, पूर्णशीतांशु, पूर्णचन्द्रमसम्, विधाय रचयित्वा, निजासनं स्वकीयविष्टरभूतं यदब्जं कमलं तस्य निदातो निमीलनात्, नूनं निश्चयेन, अञ्जसा याथार्थ्यम्, दुःस्थितिः संकटापन्नस्थितिः, वर्तत इति शेपः ॥३२॥ एतस्या इति-एतस्याः क्षेमश्रियाः वदनं वक्त्रम्, दन्तकान्तिभिर्दशनीप्तिभिः, क्लुप्तकेसरं किनल्ककलितम्, पद्मं कमलम्, ध्रुवं निश्चयेन, वर्तते, भवादृशा त्वादृशेन, तत्र, मधुलिहा भ्रमरेण, भवितव्यम्, भावे प्रयोगः ॥३३॥ ___अत्रत्येति-अत्रत्यजिनालयस्य व्रजकवाटयोः सुदृढाररयोर्विघटनेऽपनयने कुक्षिकायमाना स्तुतिवचनरचना स्तोत्रवचनसन्दर्भो यस्य तथाभूतः, पुरुषपञ्चवदनो मनुजमृगेन्द्रः, तत्पतिः क्षेमश्रीधवः, भविप्यति, इत्येवम्, जननलग्नस्य जन्मलग्नस्य फलनिश्चये परिणामनिश्चये चतुरा निपुणा ये कार्तान्तिका देवज्ञास्तेषां वाता निवेदनम्, निशम्य समाकर्ण्य, तदवसरस्य तत्कालस्य प्रतिपालने प्रतीक्षणे विनिद्रः सावधानस्तेन, सुभद्रेण राजनेष्टिना, प्रेषितः प्रहितः, गुणभद्रसमाह्वयो गुणभद्रनामधेयः, अहं भवत्पुरोवर्ती, भवन्तं श्रीमन्तम्, समीच्य विलोक्य, कृतार्थतां कृतकृत्यताम्, अनुभवामि भुजे, इत्येवम्, व्याहृत्य निगद्य, सुभद्राय श्रेष्ठिने, इममेतम्, वृत्तान्तमुदन्तम्, कथयितुं निवेदयितुम्, स निर्जगाम निश्चक्राम । तदनु सरसीति-तदनु तदनन्तरम्, पारीणं पारंगतं पुण्यं सुकृतं यस्य स पारीणपुण्यः, गुणानां दयादाक्षिण्यादीनामाकरो गुणाकरः, पारीणपुण्यश्वासौ गुणाकरश्चेति पारीणपुण्यगुणाकरः, सोऽयं प्रसिद्धः, कुरुकुलबरो जीवन्धरः, स्वयं स्वतः, सरसीपुष्पाणि कासारकुसुमानि, आदाय गृहीत्वा, भक्तिभरेणानुरागाति
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy