SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ११४ जीवन्धरचम्पूकाव्ये प्रथिता विभाति नगरी गरीयसी धुरि यत्र रम्यसुदतीमुखाम्बुजम् । कुविन्दकुण्डलविभाविभावितं प्रविलोक्य कोपमिव मन्यते जनः ।। २५ । या क्षेमनगरीत्येवमभिख्यामावहन्त्यपि । पाकवैरिपुराभिख्यां दधाति मणिमन्दिरैः || २६ ॥ तत्रास्ति देवान्त इति प्रतीतो नृपः कृपाचित्रितचित्तगेहः । क्षोणीशकोटी र सुमावलीनां धूलिव्रजैः पिञ्जरिताङ्घ्रिपीठः ।। २७ ।। यस्मिन्छासति मेदिनीं नरपतौ सद्वृत्तमुक्तात्मता हारेष्वेव गुणाकरेषु समभूच्छिद्राणि चैवान्ततः । लौल्यादन्यकलत्रसंगमरुचिः काञ्चीकलापे परं सम्प्राप्तः श्रवणेषु खञ्जनदृशां नेत्रेषु पारितवः ॥ २८ ॥ तस्य श्रेष्ठपदप्राप्तः सुभद्रो वणिजां पतिः । स्वयं निर्वृतिरस्यासीद्या कान्ता निर्वृतेः पदम् ॥ २६ ॥ प्रथितेति - प्रथिता प्रसिद्धा, गरीयसी विशाला, नगरी वच्यमाणनामधेया पुरी, विभाति शोभते, यत्र नगर्याम्, जनो लोकः, धुर्यग्रभागे, कुरुविन्दकुण्डलविभया पद्मरागमणिनिर्मितकर्णाभरणदीप्या विभावितं रक्तवर्णीकृतम्, सुदव्या मुखाम्बुजं सुदतीमुखाम्बुजं रम्यं च तत्सुदती मुखाम्बुजचेति रम्यसुदतीमुखाम्बुजं सुन्दरवनितावदनवारिजम, प्रविलोक्य दृष्ट्वा, कोपमिव क्रोधमिव तस्या इति शेषः मन्यते जानाति । तद्गुणालङ्कारः । मञ्जुभाषिणीच्छन्दः 'सजसा जगौ भवति मज्जुभाषिणी' इति लक्षणात् ॥ २५ ॥ या क्षेमनगरीति - या नगरी, 'क्षेम नगरी' इत्येवमितिप्रकाराम, अभिख्यां नामधेयम्, आवहन्त्यपि दधत्यपि, मणिमन्दिरै रत्ननिकेतनैः, पाकवैरिपुरमित्यभिख्यां नामधेयं दधातीति विरोधः । पक्षे पाकवैरिणः पुरन्दरस्य पुरं नगरम्, अमरावतीति यावत् तस्याभिख्यां शोभाम् दधाति 'अभिख्या नामशोभयोः ' इत्यमरः । विरोधाभासालंकारः ॥ २६ ॥ तत्रास्तीति — तत्र क्षेमनगर्थ्याम्, कृपया करुणया चित्रितं चित्रोपेतं चित्तगेहं मनोगृहं यस्य सः, क्षोणीशानां पृथिवीपालानां कोटीरेषु मुकुटेषु विद्यमाना या सुमावल्यः पुष्पस्रजस्तासाम्, धूलिब्रजै रेणुनिकरैः, पिञ्जरितं पीतमङ् घ्रिपीठं चरणासनं यस्य सः, देवान्त इति प्रतीतः प्रख्यातः, नृपो राजा, अस्ति विद्यते ॥ २६ ॥ यस्मिन्निति - यस्मिन् नरपतौ राजनि, मेदिनीं वसुधाम्, शासति पालयति सति, सन्ति निर्दुष्टानि वृत्तानि वर्तुलानि मुक्तानि मुक्ताफलान्यात्मा देही येषां तेषां भावस्तत्ता, अन्ततो मध्ये छिद्राणि चरन्ध्राणि च गुणाकरेषु तन्तुसहितेषु, हारेष्वेव मणिमाल्येष्वेव समभूत् आसीत्, अन्यत्र गुणाकरेषु गुणखनिषु जनेषु सद्वृत्तेन सदाचारेण, मुक्तो रहित आत्मा येषां तेषां भावस्तत्ता, अन्ततो हृदये, छिद्राणि दोषाश्च, नैव समभूत् । लोलस्य भावो लौल्यं तस्मात्, चपलत्वात्, अन्यकलत्रैरन्यश्रोणिभिः संगमस्य सम्बन्धस्य रुचिरभिलापः परं केवलम् काञ्चीकलापे मेखलामण्डले, समभूत्, अन्यत्र लौल्यात् सतृष्णत्वात्, अन्यकलत्रैः परभार्याभिः सङ्गमस्य सुरतस्य रुचिरभिलाषो नाभूत्, 'दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोः' इति रभसः, पारिप्लवश्चञ्चलत्वम्, सम्प्राप्तमायतत्वान्प्राप्तं श्रवणं कर्णं यैस्तेषु, खञ्जनदृशां खञ्जरीटलोचनानाम्, नेत्रेषु नयनेषु, केवलं समभूत्, अन्यत्र, सम्प्राप्तं लब्धं श्रवणं शास्त्राकर्णनं यैस्तेषु जनेषु पारिप्लवः क्षुद्रता न समभूत् । परिसंख्यालंकारः । शार्दूलविक्रीडितवृत्तम् ॥ २८ ॥ तस्येति — तस्य नरपतेः, श्रेष्टिपदप्राप्तो राजश्रेष्ठिपदारूढः, सुभद्र एतन्नामधेयः, वणिजां पति
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy