________________
सप्तमो लम्भः
यन्नेत्रे ददतुर्विशालकमलाक्रीडातटाकभ्रमं
यद्ध्युग्ममपाचकार नियतं विम्बच्छदाडम्बरम् ॥ २७ ॥ अश्वस्यन्ती विशालाक्षी विश्वाधिकविभोज्ज्वलम् ।। कुरुवीरमुवाचेदं कुसुमायुधवञ्चिता ॥२८ ॥ श्रीमन तवाङ्गकान्त्या मे नयने सफलेऽधुना। कर्णी वचनमाधुर्याबृदयं गुणमालया ॥ २६ ॥ ममार्य विरहानलं शमय शीतलापाङ्गतो
मुखेन्दुरुचिसंपदा सपदि छिन्धि कामान्धताम् । सुधासमगिराधरामृतरसप्रदानेन च
प्रणाशय घृणानिधे वहलकामतृष्णामिमाम् ॥ ३० ॥ इत्यादितद्वचनपरिपाटीमाकर्ण्य शम्बरारिविकारसंतमसवासरायमाणमानसः कृत्यविदामग्रगण्यः कुरुवरेण्यः परीतवैराग्यप्रावण्यस्तदरण्यान्निर्गन्तुमारभत । तद्नु पञ्चशरनाराचवञ्चितविवेका सा विद्याधरचञ्चलाक्षी किञ्चिदन्तरमुपसृत्य मदनहुतभुगणिनिकाशतनुलता तदिङ्गितं विज्ञाय तन्मनोवशीकारकोरकितकुतूहला निजोदन्तमित्थं प्रकटयामास ।
शिरोमणिस्तस्या या क्रीडास्थली केलिभूमिस्तस्या विभ्रमः सन्देहस्तम्, विततान विस्तारयामास, अन्नासा च यदीयनासिका च, कलानां वैदग्धीनामवताराय समवतरणाय विलसन्ती शोभमाना या निःश्रेणिका सोपानं तस्याः संशयस्तम्, विततान, यन्नेत्रे यदीयलोचने, कमलायाः श्रियाः क्रीडातटाक इति कमलाक्रीडातटाकः, विशालो विपुलो यः कमलाक्रीडातटाको लक्ष्मीकेलिकासारस्तस्य भ्रमः सन्देहस्तं ददतुः अदाताम्, यद्मयुग्मं यदीयभ्रकुटियुगलम्, नियतं ध्रुवम्, बिम्बच्छदाडम्बरम्, पिचुमन्दपत्रा डम्बरं अपाचकार तिरश्चकार । उपमा ॥२७॥
अश्वस्यन्तीति-अश्वस्यन्ती मैथुनेच्छावती, कुसुमायुधेन कामेन वञ्चिता प्रतारिता, विशालाक्षी दीर्घलोचना, सा ललना, विश्वेभ्योऽधिका विश्वाधिका सर्वाधिका सा चासो विभा च दीप्तिश्च तयोज्ज्वलो दीप्तस्तम्, कुरुवीरं जीवन्धरम्, इदं वच्यमाणम् । उवाच जगाद ॥२८॥
श्रीमन्निति-हे श्रीमन् हे शोभासम्पन्न, तव भवतः अङ्गकान्त्या शरीरदीप्त्या, मे मम, नयने नेत्रे, सफले सार्थकनिर्माणे, जाते इति शेषः, अधुना साम्प्रतम्, वचनमाधुर्याच्छब्दमाधुर्यान, कणों श्रुती, गुणमालया गणपडक्त्या , हृदयं चित्तञ्च, सफलमिति शेपः ॥२६॥
ममाति-हे आर्य ! हे श्रेष्ट ! शीतलापाङ्गतः शिशिरकटाक्षतः, मम त्वदेकानुरागिण्याः, बिरहानलं विप्रयोगपावकम्, शमय प्रशान्तं कुरु, मुखेन्दुरुचिसम्पदा वदनचन्द्रदीप्तिसम्पत्या, सपदि झटिति, कामान्धता मदनान्धताम्, छिन्धि नाशय, हे धृणानिधे हे दयानिधे, सुधासम गिरा पीयूपतुल्यवाण्या, अधरामृतरसेन दशनच्छदसुधारसेन च, इमां प्राणापहारिणीम् । बहलकामतृष्णां सातिशयमदनपिपासाम्, प्रणाशय नष्टां कुरू । पृथिवीच्छन्दः ॥३०॥
इत्यादितद्वचनपरिपाटीमिति-तस्या वचनप्ररिपार्टीति तद्वचनपरिपाटी, इत्यादिश्वासौ तद्वचनपरिपाटी चेति तथा ताम्, पूर्वोक्ततद्वचनपरम्पराम, आकर्ण्य श्रुत्वा, शम्बरारिर्मनसिजस्तस्य विकारः समुद्रेक एव संतमसं गाढध्वान्तं तस्य वासरायमाणं दिवसायमानं मानसं चित्तं यस्य सः, कृत्यविदां कार्यज्ञानाम्, अग्रगण्यः प्रधानः, कुरुवरेण्यः कुरुष्टो जीवन्धरः परीतं प्राप्तं वैराग्ये प्रशमित्वे प्रावण्यं नैपुण्यं येन तथाभूतः सन् , तदरण्यात्तत्काननात्, निर्गन्तु बहिर्यातुम् आरभत तत्परोऽभूत् । तदनु तदनन्तरम्, पञ्चशरस्य कामस्य नाराचैर्वाणैर्वञ्चितः प्रतारितो विवेको सदसज्ज्ञानं यस्यास्तथाभूता, सा पूर्वोक्ता, विद्याधरचञ्चलाक्षी खेचरचपललोचना, किञ्चिकिमपि, अन्तरं समीपस्थलम्, उपसृत्य समुपेत्य मदनहुतभुजः कामानलस्यारणिनिकाशारणिसदृशी तनुलता शरीरबनतिर्यस्यास्तथाभूता, सती तदिगिन्तं जीवन्धरचेष्टितम्, विज्ञाय ज्ञात्वा, तस्य जीवन्धरस्य मनोवशीकारेण चित्तवशीकरणेन कोर कितं