SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये कनकशिखरिशृङ्गं स्पर्धते यस्य सिंहा सनमिदमखिलेशं द्वेष्टि धैर्यादितीव । वलयमपि च भासां पद्मवन्धुं विरुद्ध मम पतिरिति सोऽयं ख्यातिमापेति रोपात् ।। २० ॥ त्रिभुवनगतिभावं घोषयन्यस्य तारो मुखरयति दशाशा दुन्दुभिध्वानपूरः । . शमयितुमिह रागद्वेपमोहान्धकार त्रितयमिव विधूनां भाति च्छत्रत्रयं तत् ॥ २१ ॥ अक्षयाय नमस्तस्मै यक्षाधीशनताद्धये । दक्षाय शान्तिनाथाय सहस्राक्षनुतश्रिये ॥ २२ ॥ इत्यादिस्तुतिरवमुखरे कुरुवीरे, श्रीविमानाभ्यग्रविलसिताभ्रङ्कपचम्पकद्रुमे प्रकटितनिजानुरागपल्लवेनेव तत्क्षणसञ्जातमञ्जुलमञ्जरीभरेणावनतमौलितया तदीयदेहकान्तिविलोकनकन्दलितमन्दाक्षमेदुरतयेवावनम्र, पुरा मौनव्रतमाचरत्स्विव मूकीभूतेषु कलकण्ठेषु कुमारगम्भीरमधुरस्तुतिशैलीस्वरमभ्यस्यमानेष्विव मधुरस्वरमुद्गिरत्सु, तत्रत्यसरोवरे स्फटिकद्रवपूर्ण इव कौरववदनशशाङ्क: कान्तिविद्रुततटघटितनिशाकान्तकान्तशिलाविगलितपयोधारापरिपूर्ण इव तदीयनुतिविततिनिशम कनकशिखरिशृङ्गमिति-इदं कनकशिखरिशृङ्गम्, धैर्याद् धीरतागुणात् , अखिलेशं सर्वस्वामिनं भगवन्तमिति यावत् , द्वेष्टि तेन सह द्वेपं करोति, इतीव हेतोः यस्य भगवतः, सिंहासनं हरिविष्टरम्, कनकशिखरिणो हेमाद्रेः शृङ्ग शिखरम्, स्पर्धते ईय॑ति, सोऽयं रजन्यां लुप्तसत्ताकः, पद्मबन्धुः सूर्यः, मम राबिन्दिवं प्रकाशीभवतो भासां वलयस्य, पतिः स्वामी, इत्येवम्, ख्याति प्रसिद्धिम्, आप लेभे, इति रोपात्क्रोधात्, भासां प्रभाणाम्, वलयमपि च मण्डलमपि च भामण्डलमिति यावत् , पद्मबन्धुं सूर्यम्, विरुन्धे तेन सह विरोधं कुरुते । उत्प्रेक्षोपमे । मालिनीच्छन्दः ॥२०॥ त्रिभुवनगतिभावमिति-यस्य भगवतः त्रिभुवनगतिभावम् अयं त्रिभुवनस्य गतिः शरणमस्तीति, भावोऽभिप्रायस्तम्, घोषयन् सूचयन् , तारो गम्भीरः, दुन्दुभिध्वानपूरो दुन्दुभिनादसमूहः, दशाशा दशदिशः, मुखरयति वाचालयति । इह लोके, रागश्च द्वेपश्च मोहश्चेति रागद्वेपमोहास्त एवान्धकारस्तम्, शमयितुं निराकतुम्, समागतम्, विधनां चन्द्राणाम्, त्रितयमिव त्रयमिव, तत् प्रसिद्धम, छत्रत्रयमातपत्रत्रितयम्, भाति शोभते । छन्दोऽलङ्कारौ पूर्ववत् ॥२१॥ अक्षयायेति-अक्षयाय अविनाशिने, यक्षाधीशेन कुबेरेण नतावद्धी यस्य तस्मै, दक्षाय समर्थाय, सहस्राक्षेण पुरन्दरेण नुता स्तुता श्रीराइन्न्यलक्ष्मीर्यस्य तस्मै, शान्तिनाथाय पोडशतीर्थकराय, नमः नमस्कारो भवतु । 'नमः स्वस्तिस्वाहास्वधालंवषट्योगाच्च' इति चतुर्थी ॥ २२ ॥ इत्यादिस्तुतीति-कुरुबीरे जीवन्धरे, इत्यादिस्तुतिरवेण पूर्वोक्तप्रकारादिस्तवनशब्देन मुखरे वाचाले सति, श्रीविमानाभ्यग्रे श्रीजिनालयस्य पुरस्तात् विलसितः शोभमानो योऽभ्रंकपश्चासौ चम्पकद्रुमश्चेन्यभ्रंकपचम्पकद्रुमो गगनचुम्बिचाम्पेयवृक्षस्तस्मिन् , प्रकटितः प्रदर्शितो निजानुराग एव स्वस्नेह एव पल्लवाः किसलया येन तथाभूतेनेव, तत्क्षणं तत्कालं सञ्जातः समुत्पन्नो यो मञ्जलमारीभरो मनोहरपुष्पसमूहस्तेन, अवनतो नम्रो मौलिय॑स्य तस्य भावस्तत्ता तया, तदीयायास्तत्सम्बन्धिन्या देहकान्त्या शरीरदीप्त्या विलोकनेन दर्शनेन कन्दलितं विवृद्धं यन्मन्दाक्षं ब्रपा तेन मेदुरो मिलितस्तस्य भावस्तत्ता तयेव, अवनने विनते सति, पुरा जीवन्धरदर्शनात् प्राक् , मौनव्रतवाचंयमव्रतम्, आचरत्स्विव दधस्विव, मूकीभूतेषु तूष्णीम्भूतेषु, कलकण्ठेषु कोकिलेषु, कुमारेण जीवन्धरेण कृता या गम्भीरमधुरा सार्थमनोहरा स्तुतिशैली स्तवनपद्धतिस्तस्याः स्वरं समुच्चारणध्वनिम्, अभ्यस्यमानेप्विव शिक्षमाणेष्विव, मधुरस्वरं मनोहरशब्दम् उद्गिरन्सु प्रकटयत्सु सत्सु, तत्र भवस्तत्रत्यः स चासौ सरोवरः कासारश्चेति तत्रत्यसरोवरस्तस्मिन् , स्फटिकद्रवेण सितोपलनिष्यन्देन पूर्णः सम्भरितस्तम्मिन्निव, कौरवस्य जीवन्धरस्य वदनमेव शशाङ्कश्चन्द्रस्तस्य
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy