________________
षष्टो लम्भः
तादृक्षः सकललोकलोचनासेचनकं घटितकवाटकं श्रीविमानमालोक्यातिसंतोषविस्मयाभ्यां परवशी दिनेश इव सुराचलं प्रदक्षिणीकृत्य कृत्यविदामग्रणीः कुरुवंशमणिरेवं स्तोतुमारेभे ।
भवभरभयदूरं भावितानन्दसारं
'वृत विमलशरीरं दिव्यवाणी विचारम् । मदनमदविकारं मञ्जकारुण्यपूरं
श्रयत जिनपधीरं शान्तिनाथं गभीरम् ॥ १७ ॥ यस्याशोकतरुर्विभाति शिशिरच्छायः श्रितानां शुचं
धुन्वन् सार्थक नामधेयगरिमा माहात्म्यसंवादकः । यं देवाः परितो ववर्षुरमितैः फुलैः प्रसूनोच्चयैः
कल्याणाचलमन्ततः कुसुमिता मन्दारवृक्षा यथा ॥ १८ ॥ सकलवचनभेदाकारिणी दिव्यभापा
शमयति भवतापं प्राणिनां मङ्क्षु यस्य । अमरकरविधूतश्चामराणां समूहो
विलसति खलु मुक्तिश्रीकटाक्षानुकारी ॥ १६ ॥
१११
भूतो यो विमानः, बन्दनाय वन्दनप्रयोजनाय, विततेन विस्तारितेन, बाहुना भुजेन, सन्ततं सर्वदा सुरासुरगगं देवदानववृन्दम् आह्वयन्निवाकारयन्निव, विभाति शोभते ॥१६॥
तादृक्षमिति — तादृक्षं तथाविधम्, सकललोकलोचनानां निखिलनरनयनानामासेचनकमतृप्तिकरम्, ‘तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमरः, घटितकवाटकं मेलिताररकम्, श्रीविमानं श्रीभगवद्गृहम्, आलोक्य दृष्ट्वा, अतिसन्तोषविम्मयाभ्यां सन्तोषातिशयाश्चर्याभ्याम्, परवशः परतन्त्रः, दिनेशः सूर्यः सुरासुरचलमित्र सुमेरुशैलमित्र, प्रदक्षिणीकृत्य परिक्रम्य, कृत्यविदां कार्यज्ञानाम्, अग्रणीः प्रधानः, कुरुवंशमणिः कुरुवंशरत्नं जीवन्धर इति यावत् एवं वच्यमाणप्रकारेण, स्तोतुं स्तुतिं कर्तुम्, आरेभे प्रारब्धवान् ।
भवभरेति — अये लोकाः ! भवभराणां पर्याप्तसमूहानां भयेन भीत्या दूरं विप्रकृष्टम्, भावित आनन्दसारो यस्य तम् अनुभूतानन्दनत्वम्, धृतं विमलं समुज्ज्वलं शरीरं येन तमू, दिव्यवाण्या दिव्यध्वनेविंचारो यस्य तम्, मदनमदविहारं कन्दर्पदर्पापहारकम्, मञ्जुकारुण्यपूरं मनोहरदयालुताप्रवाहम्, जिनपश्वासौ धीरश्चेति जिनपधीरस्तं जिनेन्द्रवीरम्, गम्भीरं धैर्योपेतम्, शान्तिनाथं षोडशतीर्थकरम्, श्रयत सेवध्वम् । मालिनीच्छन्दः ॥ १७ ॥
यस्याशोकतरुरितिते - यस्य भगवतः शिशिरा शीतला छायानातपो यस्य सः, श्रितानां तलं प्राप्तानाम्, शुचं शोकम्, धुन्वन् दूरीकुर्वन्, सार्थकोऽन्वर्थो नामधेयस्य नाम्नो गरिमा गौरवं यस्य सः, माहात्म्यस्य लोकोत्तर प्रभावस्य संवादकः सूचकः, अशोकतरुरेतन्नामा वृक्षः, विभाति शोभते । यं भगवन्तम्, परितः समन्तात् देवा अमराः, कल्याणाचलमन्ततः सुमेरुगिरिम् परितः, कुसुमिताः पुष्पिताः मन्दारवृक्षा यथा पारिजाततरवो यथा, अमितैरसंख्यैः, फुल्लैर्विकसितैः, प्रसूनोच्चयैः पुष्पसमूहैः, ववषुः वर्षन्ति स्म । उपमालङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥ १८ ॥
सकलवचनभेदेति - सकलवचनभेदानां निखिलभाषाणामाकारः संस्थानमिति सकलवचनभेदाकारः सोऽस्ति यस्यां सा सकलवचनभेदाकारिणां सर्वभाषास्वभावेत्यर्थः यस्य भगवतः दिव्यभाषा दिव्यध्वनिः, प्राणिनां लोकानाम् भवतापं संसारसन्तापम्, मङ्क्षु शीघ्रम्, शमयति दूरीकरोति । अमरकरैर्निलिम्प - पाणिभिर्विधूतः कम्पित इत्यमरकर विधूतः, मुक्तिश्रिया मोक्षलक्ष्म्याः कटाक्षान्केकराननुकरोतीति मुक्तिश्रीकटाक्षानुकारी, चामराणां बालव्यजनानाम्, समूहः समुदायः, खलु निश्चयेन, विलसति शोभते मालिनीच्छन्दः ॥ १६ ॥