________________
जीवन्धरचम्पूकाव्ये
इत्यादिप्रकारेण मुक्त्यङ्गना संगम चाटुवचनायमानेन संसारविशङ्कटकवाटविघटितपटुकुञ्चिकाभूतेन धर्मघण्टापथप्रतीहारप्रवेशप्रतीहारायितेन निजगम्भीरवचनगुणेन संभावितानसम्मा - र्गलङ्घनजङ्घाला सन्मार्गाक्रमणप्रवणान्कतिपयतापसानवलोक्य स्तोकेतरसंतोषसंचलितमानसः कुरुकुलोत्तंसः, तद्वनान्निर्गत्य, निसर्गरुचिरं नगरप्रमुखै रोचितमपि नरोचितं सर्वोत्तरमपि नाम्ना दक्षिणं देशमासाद्य, क्षेमपुरोपवनमध्यवाभास्यमानं घनमण्डलमध्यशोशुभ्यमानरविबिम्ब समानमत्युन्नप्रमाणमपि भगवतो विमानमवालोकत ।
990
अभ्रंलिहा रविदीप्रकूटैः सहस्रसंख्यैर्नवरत्ननद्वैः । संलक्ष्यते यः फणिराडिवोद्यन्पाताललोकात्फणरत्नजुष्टः ॥ १४ ॥ यत्कूटलग्ना स्फुटतारकालिः सुमावलिश्चामरलोकवृष्टया । विभिद्यते पटूचरणैर्विलोलैर्गन्धान्वितैर्भ कृतमञ्जु गानैः ॥ १५ ॥ मन्दमारुतविधूतकेतनो यः सुरासुरगणं समन्ततः । आह्वयन्निव विभाति सन्ततं वन्दनाय विततेन बाहुना ॥ १६ ॥
शयेन, अन्विते सहिते, यस्मिन् नैर्ग्रन्थ्यरूपे, शाश्वतमुक्तिलच्मीर विनश्वरमोक्षश्रीः, सदा सर्वदा, सन्निहिता निकटस्था, वर्तत इति शेषः । इन्द्रवज्रावृत्तम् ॥१३॥
इत्यादिप्रकारेणेति — इत्यादिप्रकारेण पूर्वोक्तप्रकारेण, मुक्त्यङ्गनाया निर्वृतिललनायाः सङ्गमे समागमे चाटुवचनायते प्रियवचनमिवाचरतीति मुक्त्यङ्गनासङ्गमचाटुवचनायमानस्तेन, संसार आजवञ्जव एव विशङ्करnary विशालकपाटौ तयोर्विघटिते समुद्घाटने पटुकुञ्चिकाभूतेन दत्तकुञ्चिकास्त्ररूपेण, 'कवाटश्च कपाटश्च त्रिभुस्यादररं न ना' इति वाचस्पतिः, धर्मस्य घण्टापयो राजमार्ग इति धर्मघण्टापथस्तस्य प्रतीहारो द्वारं तस्मिन् प्रवेशो ऽन्तर्यानं तस्मिन् प्रतीहारायितेन द्वारपालवदाचरता 'दर्शधन्वन्तरी राजमागों घण्टापथः स्मृतः' इति चाणक्यः, निजगम्भीरवचनगुणेन स्वकीयप्रगल्भवचनमाहात्म्येन, सम्भावितान् सम्मानितान्, असन्मार्गस्य मिथ्यामार्गस्य लङ्घनेऽतिक्रमणे जङ्घाला अतिजवास्तान् 'जङ्घालोऽतिजवस्तुल्यौ' इत्यमरः, सन्मार्गस्य सत्पथस्याक्रमणे प्रवेशे प्रवणा निपुणास्तान् कतिपयतापसान् कतिचित्तपस्विनः, अवलोक्य दृष्ट्वा, स्तोकेतरेण भूयसा सन्तोषेण मुखेन सम्वलितं सहितं मानसं चित्तं यस्य सः, कुरुकुलोत्तंसः कुरुवंशाभरणं जीवन्धर इति यावत्, तनात्तत्काननात्, निर्गत्य बहिरागत्य, निसर्गरुचिरं स्वभावसुन्दरम् नगरप्रमुखैः प्रधाननगरैः, रोचितमपि शोभितमपि न रोचितं न शोभितमिति विरोधः पक्षे नराणां मनुष्याणामुचितो निवासयोग्यस्तमिति परिहारः, सर्वेभ्यो निखिलेभ्य उत्तर उत्तरदिवस्थ इति सर्वोत्तरस्तथाभूतमपि, नाम्ना नामधेयेन दक्षिणं दक्षिणदिक्स्थितमिति विरोधः पक्षे सर्वोत्तरमित्यस्य सर्वोत्कृष्टमित्यर्थः, देशं जनपदम् आसाद्य प्राप्य, क्षेमपुरस्य तन्नामनगरस्योपवनमध्येऽधिक्रीडोद्यानं बाभास्यमानमतिशयेन शोभमानम्, घनमण्डलमध्ये मेघसमूहमध्ये शोशुभ्यमानमतिशयेन भ्राजमानं यद् रविविम्बं सूर्यमण्डलं तेन समानं सदृशम्, अत्युन्नतं प्रमाणं यस्य तथाभूतमपि श्रेष्ठतरप्रमाणसहितमपि, भगवतो जिनेन्द्रस्य, विमानं मानरहितमिति विरोधः, पक्षे विशिष्टगृहम् ' विमानो व्योमयाने च सार्वभौमगृहेऽपि च' इति मेदिनी, अवलोकत ददर्श ।
अभ्रंलिहायैरिति — यो विमानः, अभ्रंलिहायैर्घनस्पर्शिशिरोभिः, नवरत्ननद्वैर्नूतन मणिखचितैः सहस्रसंख्यैर्दशशतसंख्याकैः, रविदीप्रकूट र्भास्कर भास्वर शिखरैः पाताललोकाद् रसातलाद्, उद्यन् उद्गच्छन्, फणरत्नजुष्टो मूर्धमणिसेवितः फणिराडिव नागराज इव संलच्यते दृश्यते ॥ १४ ॥
यत्कूटलग्नेति—यस्य कूटेषु शिखरेषु लग्ना समासक्ता, स्फुटतारकाणां प्रकाशितनक्षत्राणामालिः पङ्क्तिः, अमरलोकवृष्ट्या देवलोकवर्षणेन, सुमावलिश्च पुष्पसमूहच, विलोलैश्चपलैः, गन्धान्वितैर्गन्धसहितैः, झङ्कृतम=जुगानैर्झङ्कृतमनोहरगीतैः, पट्चर जैश्रमरैः, विभिद्यते पृथक्क्रियते । स्फुटतारकालिः पट्पदरहिता सुमावलिश्च तत्सहिता बभूवेति भावः ॥ १५ ॥
मन्दमारुतेति - समन्ततो विश्वक्, मन्दमारुतेन मन्थरपवनेन विधूतानि केतनानि यस्य तथा