________________
१०६
पष्टो लम्भः स्नानकालसंसक्तशैवालच्छटायमानजटापटलधारितया परितो देदीप्यमानपावकप्रसृतधूमरेखालिङ्गितैरिवोर्ध्वप्रसारितभुजदण्डैः पञ्चाग्निमध्यतपःप्रचण्डैस्तापसैर्मण्डितम् , वचन तत्पनीजनक्रियमाणनीवारपाकम् , क्वचित्तत्पुत्रच्छिद्यमानार्द्रसमित्समाकुलम् , तपोवनं ददर्श ।
असत्तपो वीक्ष्य कुरुप्रवीरः कृपानटीताण्डवरङ्गचित्तः । अबोधयत्ताञ्जिनधर्मसारमुपेक्षते कः पततो निकूपे ।। ६॥ तण्डुलस्य विरहे जलानलाद्यागमेऽपि सफलो न हि पाकः । तत्त्वबोधविगमे तथा तनोर्दण्डनेन सफला न तपस्या ॥ १० ॥ मुधा जटाजूटयुता हि यूयं निटालदेशे तपनेन तप्ताः । बुधास्तपो हिंसनजुष्टमेतत्कनु सदा नार्हथ निष्फलत्वात् ।। ११ ।। जटालानां जलान्ते वो जटालग्ना हि जन्तवः। पश्यताग्नौ च्युताः पश्चान्नश्यन्ति वह्वः क्षणात् ।। १२ ।। तस्मादिदं क्लिष्टतपो विहाय नैर्ग्रन्थ्यरूपं परमं भजेत । यस्मिन्सदा सन्निहिता जिनाविभक्त्यान्विते शाश्वतमुक्तिलक्ष्मीः ।।१३।।
पतन्न्यो याः पयोधारा जलधारास्तासां रेखाभिलेखाभिरञ्चितं शोभितम्, वचन कुत्रचित् , चमूचर्मणा शार्दूलत्वचा निर्मितानि रचितानि यान्यासनानि तेष्वासीनाः समुपविष्टा ये जपपरजना ध्यानावसक्तपुल्पास्तैः संकुलं व्याप्तम्, कुत्रचित् क्वचित् , स्नानकालेऽभिपेकसमये संसक्ताः संलग्ना ये शैवाला जलनीलीलतास्तेपां छटायमानं समूह इवाचरद् यद् जटापटलं जटासमूहस्तस्य धारितया धारकत्वेन, परितः समन्तात् , देदीप्यमानाजाज्वल्यमानापावकादनलान्प्रसृता विस्तृता या धूमरेखा धूम्रलेखास्ताभिरालिङ्गितैरिव समाश्लिष्टं रिव ऊर्ध्वप्रसारिता उन्नमिता भुजदण्डा बाहुदण्डा यैस्तैः, पञ्चाप्नीनां मध्ये यत्तपस्तेन प्रचण्डास्तीक्ष्णास्तैः, तापसैस्तपस्विभिः, मण्डितं शोभितम्, वचन कुत्रचित् , तेषां तापसानां पन्नीजनैनितासमूहः क्रियमाणो विधीयमानो नीवारपाको वन्यत्रीहिपचनं यस्मिस्तत् , कचित् क्वचन, तत्पुत्रैस्तापसतनयैश्छिद्यमानाभिर्भिद्यमानाभिराईसमिद्भिरादेन्धनैः समाकुलं व्याप्तम्, तपोवनं ददर्शति क्रियासम्बन्धः।।
असत्तप इति-कृपानट्या दयानर्तक्या यत्ताण्डवं नटनं तस्य रङ्गो नृत्यभूमिश्चित्तं मानसं यस्य तथाभूतःः, कुरुप्रवीरो जीवन्धरः असन्मिथ्याभूतम्, तपस्तपश्चरणम्, वीच्य दृष्ट्वा, तान् तापसान् , निजधर्मस्य सारस्तं जिनेन्द्रधर्मसर्वस्वम्, अबोधयद् अवगमयामास, निकूपे ग्रहो, पततः स्खलतो जनान् , कः किन्नामा दयालुः, उपेक्षते उपेक्षितान् कुरुते, अपि तु न कोऽपीत्यर्थः । अर्थान्तरन्यासः ॥ ६॥
तण्डुलस्येति-तण्डुलस्याक्षतानाम्, विरहेऽभावे, जलानलादीनां तोयाग्निप्रभृतीनामागमः समुपलम्भस्तस्मिन् , सत्यपि, यथा येन प्रकारेण, पाक ओदनपचनक्रिया, सफलः सार्थकः, न हि भवति न खलु जायते तथा तेन प्रकारेण तत्त्वबोधविगमे तत्त्वज्ञानाभावे, तनोः शरीरस्य, दण्डनेन नियन्त्रणेन, तपस्या तपश्चर्या, सफला सार्थका, न नो भवाति शंघः । स्वागतारथोद्धतयोः सम्मिश्रणादुपजातिवृत्तम् ॥१०॥
___ मुग्धेति-जटाजूटयुताः प्रवृद्धपरुपकेशसमूहयुक्ताः, निटालदेशे भालप्रदेशे, तपनेन सूर्येण, तप्ता उष्णीकृताः, यूयं भवन्तः, हि निश्चयेन, मुघा व्यर्थाः, रथेति शेषः । हे बुधा विद्वान्सः, सदा सर्वदा इहलोके परलोके चेति यावत् , निष्फलत्वात् निरर्थकत्वात् , हिंसनजुष्टं हिंसोपेतम्, एतत् साम्प्रतं क्रियमाणम्, तपस्तपश्चरणम्, कर्तुं विधातुम्, नाहथ न योग्याः स्थ । उपजातिवृत्तम् ॥१३॥
जटालानामिति-हि निश्चयेन, जलान्ते जलमध्ये, जटालानां जटायुक्तानाम्, वो युष्माकम्, जटालग्नाः प्रवृद्धपरुपकेशसमूहनिबद्धाः, बहवो भूयांसः जन्तवो जीवाः, अग्नी वह्नी, च्युताः पतिताः, पश्चात् अनन्तरम्, क्षणादचिरम्, नश्यन्ति नियन्ते, इति पश्यत विलोकयत ॥१२॥
तस्मादिदमिति--तस्मात्कारणात्, इदं क्रियमाणम्, क्लिष्टतपः केवलदुःखकरतपश्चरणम्, विहाय त्यक्त्वा, परमं श्रेष्ठम्, नग्रन्थ्यरूपं दिगम्बरमुद्राम्, भजत संवेत । जिनाधिभक्त्या जिनेन्द्रचरणानुरागाति