________________
जीवन्धरचम्पूकाव्ये
गव्यूतिकाः काश्चिदतीत्य दूरं गतस्य सत्यधरभूपसूनोः। शङ्कावधूट्या हृदयाद्गतायाः सहायता प्राप निशा किलैपा ॥६॥ पद्मापि कान्तविरहाम्बुधिमध्यभागे
सन्तापवाडवहुताशनकीललीढे । कन्दर्पनक्रकलिते कलकण्ठगान
कोलाहले खलु ममज चिरादपारे ।।७।। लोकपाल जनाः केचिच्चतुर्दिक्षु गवेपिणः ।।
प्राज्ञा अपि कुमारस्य नाज्ञासिषुरिहागतिम् ।। ८ ।। तत्र तत्र तीर्थस्थानानि याजंयाज सत्वरं गत्वरः कुरुवीरः, कचन वासःसमासक्ततापसकुलकृष्यमाणतरुत्वङ्मर्मरारावमुखरम् , कचित्पापण्डिषण्डकरमण्डितकमण्डलुमुखनैझरजलपुरणजनितकलकलशब्दशोभितम् , कुत्रचिद्वालकत्रुटितोभितमौजीमेखलाविकीर्णम , कुत्रचन कुमारिकापूर्यमाणबालवृक्षालवालम् , कचन कापायवसनसेचनलोहितायमानसरोजलम , वचन संसिक्तवल्कलशिखानिर्गलत्पयोधारारेखाञ्चितम् , कचन चमूरुचमेनिर्मितासनासीनजपपरजनसङ्कलम् , कुत्रचित्
नरेन्द्रनिकेतने, निखिलजने समस्तलोके, निद्राणे गृहीतस्वापे सति, केनापि जनेन अनुपलक्षितोऽनवलोकितः, कुरुवीरो जीवन्धरः, पुरानगरात् , निश्चक्राम निर्जगाम ।
गव्यूतिका इति-काश्चिद् गव्यूतिकाः कतिचित् क्रोशान् , अतीत्य समुल्लङ्घय, दूरं विप्रकृष्टम्, गतस्य यातस्य, सत्यन्वरभूपसूनोः, सत्यन्धरधराधीशपुत्रस्य जीवन्धरस्येति यावत् , हृदयाच्चेतसः, गतायाः प्रयातायाः, शङ्कावधूट्याः भीतितरुण्याः, सहायतां मित्रता सहगामितामिति यावत् , एपा निशा इयं रजनी, प्राप लब्बवती, किलेति वाक्यालङ्कारे । जीवन्धरस्य हृदयाद् राजपुरुषोपरोधभीतिर्गता रात्रिश्च समाप्तेनि भावः ॥ ६॥
पद्मापीति-पद्मापि जीवन्धरजायापि, संताप गुब दुःखमेव वाडवहुताशनीला वडवानलज्वालास्तैीढो व्याप्तस्तस्मिन् , कन्दर्प एव काम एव नक्रो मकरस्तेन कलितः सहितस्तस्मिन् , कलकण्ठगानमेव कमनीयकण्ठध्वनिरेव कोलाहलो गर्जितं यस्मिस्तस्मिन् , अपारेऽनवसाने, कान्तविरह एव वल्लभविप्रलम्भ एवाम्बुधिमध्यभागः सागरमध्यप्रदेशस्तस्मिन् , खलु निश्चयेन, चिरात् दीर्घकालाय, ममज निमग्ना । रूपकालङ्कारः । वसन्ततिलकावृत्तम् ॥ ७ ॥
लोकपालजना इति-चतुर्दिक्षु चतुःकाष्टासु, गवेषिणोऽन्वेषिणः, केचित्केऽपि, लोकपालजना राजपुरुषाः, प्राज्ञा अपि मेधाविनोऽपि सन्तः, कुमारस्य जीवन्धरस्य, इह बने, आगतिमागमनम्, न अज्ञासिपुर्न जानन्ति स्म ॥८॥
तत्र तत्रेति-तत्र तत्र तेपु तेषु स्थानेषु, तीर्थस्थानानि तीर्थक्षेत्राणि, याजं याजं यष्वा यष्ट्वा, सत्वरं शीघ्रम्, गत्वरो गमनशीलः, कुरुवीरो जीवन्धरः, तपोवनं तापसारण्यम्, ददर्श विलोकयामास, अथवा तदेव तपोवनं विशेषयति-क्वचन कुत्रचित् , वासःसु वस्त्रेय समासक्ता लीना ये तापसाः साधवस्तेपां कुलं समूहस्ते न कृप्यमाणा यास्तरुत्वचो वृक्षवल्कलास्तासां मर्मरारावेण मर्मरशब्देन मुखरं वाचालम्, वचिकुत्रचित् , पापण्डिपण्डस्य साधुसमूहस्य करमण्डिता हस्तशोभिता ये कमण्डलवः कुण्ड्यस्तेषां मुखेप्वग्रभागेषु नझरजलपूरणेन स्रोतःसम्बन्धिसलिलसंभरणेन जनितः समुत्पन्नो यः कलकलशब्दोऽव्यक्तध्वनिविशेषस्तेन शोभितं समुद्भासितम्, कुत्रचित्क्वचन, बालककुलस्य शिशुसमूहस्य त्रुटितोझिता खण्डितत्यक्ता या मौञ्जीमेखला दर्भरशनास्ताभिर्विकीर्णं व्याप्तम्, कुत्रचन क्वचित् , कुमारिकाभिर्तापसबालिकाभिः पूर्यमाणा भ्रियमाणा बालवृक्षाणां लघुतरूणामालवाला आवापा यस्मिस्तत् , क्वचन कुत्रचित् , कपायेण रक्तं कापायं तच्च तद्वसनं चेति काषायवसनं तस्य सेचनं समुक्षणं तेनं लोहितायमानं रक्तीभवत् सरोजलं कासारतोयं यस्मिस्तत् , वचन कुत्रापि, संसिक्ताः समनिता ये वल्कला वक्षत्वचस्तेषां शिखाभ्योऽग्रभागेभ्यो निगलन्त्य