________________
षष्ठो लम्भः
१०७
लोकदीपे रवौ लोकगृहमाभास्य निवृते । तत्कजलमिवानीलं तमोवृन्दमजायत ।। २॥ संदष्टं विसमुत्सृज्य चक्रद्वन्द्वेन मूर्च्छता।
परिवृतमुखाब्जेन तूर्णं विजघटे तदा ॥ ३ ॥ दिनमणिविरहेण व्याकुलाङ्गी नभःश्री
स्तिमिरनिकरदम्भात्तूर्णमाकीर्णकेशा । उडुमणिगणलक्ष्यादश्रुबिन्दून्दधाना
__ रमणविपदि रेजे रोदनं तन्वतीव ।।४।। तमाशबरसंरुद्धां यामिनी निजवल्लभाम् ।
वीक्ष्य कोपादिवाताम्रः शशी पूर्वाद्रिमानशे ॥५॥ तदनु निशाकरं पुरन्दरदिशाविशालनयनामुखचुम्बनचतुरमालोक्येव पुरतरुणेषु कान्तामुखचुम्बनपरेषु, शशधरकरस्पर्शनविद्रुतशशिकान्ततलमालक्ष्येव युवतीपु दयितकरस्पर्शमात्रेण द्रवन्तीषु, तत्क्षणमुद्वेलजलनिधिमुद्वीक्ष्येव समुल्लसदुल्लोलकल्लोले कामाणवे, सरसीसमुद्भूतसरोजेप्विव कुलटाजनलपनतटेषु मुकुलितेषु, क्रमेण नृपमन्दिरे निद्राणे निखिलजने, केनाप्यनुपलक्षितः कुरुवीरः पुरान्निश्चक्राम ।
विहाय त्यक्त्वा, कुमुदाकरं कैरवकासारम, आक्रामन्सु समागच्छन्सु सत्सु, ध्वान्तकदम्ब तिमिरसमूहः उदजृम्भत ववृधे ।
लोकदीप इति-लोकस्य जगतो दीपः प्रदीपस्तरिमन् , रवौ सूर्ये, लोक एव गृहं लोकगृह तत् , आभास्य प्रकाश्य, निवृते निर्गते सति, तत्कजलमिव तदीयाञ्जनमिव, आनीलमीषत्कृष्णम्, तमोवृन्दं ध्वान्तसमूहः, अजायत समुत्पादि । रूपकोत्प्रेक्षे ॥ २ ॥
संदष्टमिति-संदष्टं दन्तान्तर्धारितम्, विसं मृणालम्, उत्सृज्य त्यक्त्वा, मूर्च्छता विचेतनीभवता, परिवृक्षं विमुखीभूतं मुखाजं वदनकमलं यस्य तथाभूतेन, चक्रद्वन्द्वेन रथाङ्गयुगलेन, तदा सायम्, तूर्ण शीघ्रम्, विजघटे विघटितम् ॥ ३॥
दिनमणिविरहेणेति-दिनमणेः सूर्यस्य विरहो विप्रलम्भस्तेन, व्याकुलं व्यग्रम् अथ च विभिः पक्षिभिराकुलमाकर्णम्, अङ्गं शरीरं यस्याः सा, तिमिरनिकरस्य ध्वान्तसमूहस्य दम्भाद् व्याजात् , तूर्ण क्षिप्रम्, आकीर्णाः समन्ताद्विक्षिप्ताः केशाः कचा यस्याः सा, उडूनि मणिगणा इवेत्युडुमणिगणास्तेपां लक्ष्याद् व्याजात् , अश्रुबिन्दून् बाष्पसीकरान् , दधाना धरन्ती नभाश्रीगंगनलक्ष्मीः, रमणविपदि वल्लभविपत्ती, रोदनमाक्रन्दनम्, तन्वतीव विस्तारयन्तीव, रेजे शुशुभे । उत्प्रेक्षालङ्कारः । मालिनीच्छन्दः ॥४॥
तमाशबरसंरुद्धामिति-शशी विधुः, निजवल्लभां स्वप्रेयसीम्, यामिनी रजनीम्, तम एव ध्वान्तमेव शबरो निपादस्तेन संरुद्धां निरुद्धगमनाम्, वीच्य दृष्ट्वा, कोपादिव क्रोधादिव, आताम्र आरक्तवर्णः सन् , पूर्वादि पूर्वशैलम्, आनशे व्याप, तत्राधिरूढो बभूवेति भावः। उत्प्रेक्षा ॥ ५ ॥
तदन्विति तदनु तदनन्तरम्, निशाकरं चन्द्रमसम्, पुरन्दरदिशैव प्राच्येव विशालनयना दीर्घाक्षी तस्या मुखस्य वदनस्य चुम्बने चतुरं विदग्धम्, आलोक्येव दृष्ट्वेव, पुरतरुणेषु नगरयुवसु, कान्तामुखानां वनितावदनानां चुम्बनेषु परास्तत्परास्तेषु सन्सु, शशधरकरस्य चन्द्रकिरणस्य स्पर्शनेन संसर्गेण विद्रुतं कृतजलविमोचनं यच्छशिकान्ततलं चन्द्रकान्तोपलतलं तत् , आलक्ष्येव विलोक्येव, युवतीषु तरुणीषु, दयितस्य पत्युः करस्पर्शमात्रेण हस्तस्पर्शमात्रेण, द्रवन्तीपु द्रवीभूतासु सतीषु, तत्क्षणं तत्कालम्, उद्वेलश्चासौ जलनिधिश्च तं वेलोत्क्रान्तसागरम्, उद्वीच्येव विलोक्येव, कामार्णवे मदनसिन्धौ, समुल्लसन्तः समुच्छलन्त उल्लोलाश्चपलतराः कल्लोलास्तरङ्गा यस्य तथाभूते सति, कुलटाजनलपनतटेषु स्वैरिणीजनवक्त्रतटेषु सरसीसमुद्भूतसरोजेष्विव कासारोत्पन्नकमलेष्विव, मुकुलितेषु निर्मालितेषु, सत्सु, क्रमेण क्रमशः, नृपमन्दिरे