________________
षष्ठो लम्भः
पद्मां पयोधरभरानतगात्रवल्ली
पद्माननां कुरुवरो रमयंश्चिराय । तद्भ्रातृभिर्गुणमणीकुलरोहणैस्तै
त्रिंशता प्रतिदिनं परिपूज्यते स्म ॥१॥ कदाचित्कुरुवीरस्य सकलभूतसन्तापनाशनं निखिललोकदेदीप्यमानं भुजप्रतापमभिवीक्ष्य लजयेव संहतनिजप्रतापे, स्वैराभिसारनिरोधजनितक्रोधानां बन्धकीनामारक्तकटाक्षच्छटाभिरिव संहृतनिजकरे समानीतपद्मिनीहृदयानुरागपरम्पराभिरिव कुङ्कमसच्छायमण्डले दिनकरे चरमशिखरिशेखरकनककलशशङ्काकरे, सायन्तनसुगन्धिशीतलमन्दपवनलोलितललितलताङ्गुलितयाद्वयद्भय इव वनविटपिभ्यो व्याकुलारावव्याजेन प्रत्युत्तरमभिधाय धावनव्यासङ्गेपु विहङ्गेपु, सहस्रपत्रेषु सहस्रकरकिरणान्क्रमेण निमीलदकैकदलंगणयत्स्विव मुकुलीभवत्सु, सिन्दूरच्छविबन्धुरे सन्ध्यारागे वरुणदिशि विजम्भिते, आविर्भवत्तिमिरनिकरबीजेष्विव बम्भरेष पद्माकरं विहाय कुमुदाकरमाक्रमत्सु, ध्वान्तकदम्बमुदजम्भत ।
wwwwwwinnar.--
पद्मामिति–पयोधरभरेण वक्षोजभरेणानता समानम्रा गात्रवल्ली शरीरलता यस्यास्ताम्, पद्माननां कमलमुखीम्, पद्मामेतन्नाम्नी स्वभार्याम, चिराय चिरकालेन, रमयन् क्रीडयन् , कुरुवरो जीवन्वरः, गुणा एव मण्यो रत्नानि तेषां कुलं समूहस्तस्य रोहणा विदूरगिरयस्तैः, रोहणगिरौ रत्नानि समुपद्यन्त इति प्रसिद्धिः, तैः प्रसिद्धः द्वात्रिंशता द्वात्रिंशत्संख्याकैः, तस्या भ्रातरस्तैः तदीयसहोदरः, प्रतिदिनं प्रत्यहम्, परिपूज्यते स्म । कर्मणि प्रयोगः। वसन्ततिलकावृत्तम् ॥ १ ॥
कदाचिदिति-कदाचिजातुचित् , कुरुवीरस्य जीवन्धरस्य, सकलभूतानां निखिलप्राणिनां संतापनाशनं सन्तापापहारकम्, निखिललोके समग्रसंसारे देदीप्यमानं पुनःपुनरतिशयेन वा प्रकाशमानम्, भुजप्रतापं बाहुतेजः, अभिवीच्य विलोक्य, लज्जयेव अपयेव, संहृतः संकोचितो निजप्रतापः स्वतेजो येन तथाभूते, स्वैराभिसारस्य स्वच्छन्दाभिगमनस्य निरोधेन निवारणेन जनितः समुत्पन्नः क्रोधो कोपो यासां तासाम्, बन्धकीनां कुलटानाम, आरक्ता लोहितवर्णा याः कटाक्षच्छटा अपाङ्गपतयस्ताभिरिव, संहृताः संकोचिता निजकराः स्वकिरणा यस्य तस्मिन् , समानीतः समादाय सहानीतः पद्मिनीनां यो हृदयानुरागश्चित्तप्रीतिस्तस्य परम्पराः सन्ततयस्ताभिरिव, कुङ्कुमसच्छायं काश्मीरकल्पं मण्डलं बिम्बं यस्य तस्मिन् , दिनकरे सूर्य, चरमशिखरिणोऽस्ताचलस्य शेखरे शृङ्गे कनककलशस्य काञ्चनकुम्भस्य शङ्काकरः सन्देहोत्पादकस्तथा भूते सति, सायन्तनः सायंकालिकः सुगन्धिः सुरभिः, शीतलः शिशिरो मन्दो मन्थरश्च यः पवनो वायुस्तेन लोलिताश्चालिता ललिता मनोहरा लता एव शाखा एवाङ्गुलयः करशाखा येषां तेषां भावस्तत्ता तया, आह्वयद्भय इवाकारयद्भय इव, वनविटपिभ्यः काननतरुभ्यः, व्याकुलश्वासावारावश्चेति व्याकुलारावो व्यग्रतापूर्णशब्दस्तेषां व्याजेन दम्भेन, प्रत्युत्तरं 'वयमागच्छामः' इति प्रतिजल्पम्, अभिधाय निगद्य, धावने वेगेनाभियाने व्यासङ्ग आसक्तिर्येषां तेषु, विहङ्गेषु पक्षिषु सत्सु, सहस्रपत्रेषु कमलेषु, क्रमेण क्रमशः, निमीलन्ति सङ्कोचन्ति यानि एकैकदलानि एकैकपत्राणि तैः, सहस्रकरस्य सूर्यस्य किरणा मयूखास्तान् , गणयत्स्विव संख्यानं कुर्वत्स्विव, मुकुलीभवत्सु निमीलत्सु, सत्सु, सिन्दूरच्छविरिव नागसम्भवकान्तिरिव बन्धुरो मनोहरस्तस्मिन् , सन्ध्यारागे पितृप्रसूलोहितिग्नि, वरुणदिशि पश्चिमकाष्ठायाम्, विजृम्भिते वृद्धिङ्गते सति, आविर्भवन्प्रकटीभवन्यस्तिमिरनिकरो ध्वान्तसमूहस्तस्य बीजेष्विव, बम्भरेषु भ्रमरेषु, पद्माकरं कमलाकरं,