________________
पञ्चमो लम्भः
१०५
किं काममन्त्रबीजालिः किं वा तद्विरुदावलिः ।
किञ्चित्कुचाजभृङ्गालिमकरी संशयं व्यधान् ।।४।।
एवमलकृतां मदनमोहनमन्त्रदेवतामिव सानादागतां विपमवाणकेलीमिय' तरुणीं रमणीजनचूडामणिं सखीजनः कामदेवस्य वेदिकामध्यविलसितमगिपट्टिकामध्यासीनस्य परिसरं शनैः शनैः प्रापयामास । तदनु सकलसूर्यस्वनितेषु मुखरितदिगन्तरेषु, मन्त्रविदां वचनेपुव्याजम्भमाणेपु, वेदिकामभितो मङ्गलमणिदीपेपु देदीप्यमानेपु, पूज्यमानेपु हव्यवाहेषु जाज्वल्यमानेपु, परिणयमङ्गलदर्शनकुतूहलविवृतनयनेपु पुरन्ध्रीजनेपु, जनितसम्मर्दनेषु परिपत्परिकरेषु, पार्थिवेषु निजभुजाङ्गपरस्परसङ्गविगलत्कनकशकलव्याजेन वाहप्रतापकणानिव किरत्स, प्रामे च शुभे महर्ने, जीवंधरस्वामी धनपतिनरपतिना वारिधारापुरःसरं प्रतिपादितां तिलोत्तमामुतां पद्मां पाणौ परिजग्राह ।
प्राप्याराज्यं कुरुवंशकेतुः कन्दर्पसाम्राज्यरमां च पद्माम् ।।
प्रमोदकल्लोलपरम्पराणामानातहप्यद्धृदयाम्बुजोऽभून् ॥४६॥ . इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्यूकाव्ये पद्मालम्भी नाम पञ्चम लम्भः । कमलाभ्यन्तरे विभासुरः शोभमानः, जलबिन्दुरेव सलिलसीकर एव, आहोस्विदथवा, नासाख्यवंशाद् घ्राणाभिधानवेणोः, गलितं पतितम्, गरिष्ठं श्रेष्ठम्, किं नवमौक्तिकं नूतनमुक्ताफलम्, आसीदिति शेषः ॥४४॥
किं काममन्त्रेति-मकरी कुचकुड्मलेपु कस्तूर्यादिना लिखित्ता मकराकृतिः, किं कामस्य मदनस्य मन्त्रबीजानां मन्त्राक्षराणामालिः पङ्क्तिः, किं वा, तस्य कामस्य विरुदावलियशःप्रशस्तिः, किं स्विदथवा, कुचाब्जयोः स्तनसरोजयोर्विद्यमाना भृङ्गालिर्धमरपङ्क्तिः , आसीत् , इत्येवम्, संशयं सन्देहम्, व्यधाञ्चकार ॥४५॥
___ एवमिति-एवमनेन प्रकारेण, अलङ्कृतां भूपिताम्, मदनस्य स्मरस्य मोहनमन्त्रदेवता वीकरणमन्त्राधिष्ठातृदेवी तामिव, साक्षादागतां प्रत्यक्षमुपयाताम्, विषमबाणकेलीमिव कन्दर्पक्रीडामिव, तरुणी नवयौवनोद्भासिनीम्, रमणीजनचूडामणि वनितावृन्दशिरोरत्नम्, पद्मामिति यावत्, सखीजनः सहचरीसमूहः, वेदिकामध्ये वितर्दिकामध्ये विलसिता शोभिता या मणिपट्टिका रत्नपीठिका ताम्, अध्यासीनस्याधितिष्ठतः, कामदेवस्य मदनस्य कामदेवपदवीधरस्य जीवन्धरस्येति यावत्, परिसरं समीपम्, शनः शनैर्मन्दं मन्दम्, प्रापयामास समानिनाय । तदनु तदनन्तरम्, सकलचूर्याणां निखिलवादित्राणां स्वनितानि शब्दास्तेपु, मुखरितं वाचालितं दिगन्तरं काष्ठान्तरालं यैस्तेषु, मन्त्रविदां मन्त्रज्ञानाम्, वचनेषु शब्देषु, व्याजम्भमाणेषु वर्धमानेषु, वेदिकामभितो वितर्दिकां परितः, मङ्गलमणिदीपेषु मङ्गलोद्देशकरत्नप्रदीपेषु, देदीप्यमानेपु नितरां प्रकाशमानेपु, पूज्य मानेप्वज़मानेपु हव्यवाहेषु पावकेषु, जाज्वल्यमानेषु सातिशयं ज्वलत्सु, पुरन्ध्रीजनेषु वनितासमूहेपु, परिणयमङ्गलस्य विवाहमङ्गलस्य दर्शनकुतूहलेन विलोकनकौतुकेन विवृतानि विस्फारितानि नयनानि लोचनानि येषां तथाभूतेषु, परिपत्परिकरेष सभापरिजनेषु जनितं समुत्पादितं समर्दनं व्यामर्दो यस्तेषु, पार्थिवेषु नृपेप, निजभुजाङ्गदानां स्वकीयबाहुकेयूराणां परस्परसङ्घर्पण मिथः संघटनेन विगलन्ति पतन्ति यानि कनकशकलानि सुवर्णखण्डानि तेषां व्याजेन दम्भेन, बाहुप्रतापकणान् भुजतेजोऽशान् , किरत्स्विव प्रक्षिपत्स्विव सत्सु, शुभे कल्याणास्पदे, मुहूर्ते समये, प्राप्ते च समागते च सति, जीवन्धरस्वामी सन्यन्धराङ्गजः, धनपतिनरपतिना धनपत्यभिधानभूपालेन, वारिधारापुरस्सरं जलधारासहितं यथा स्यात्तथा, प्रतिपादितां दत्ताम्, तिलोत्तमायाः सुता तां तिलोत्तमापुत्रीम्, पद्मामेतनाम्नीम्, पाणी करे, जग्राह स्वीचकार, तस्याः पाणिग्रहणं चकारेति भावः।
प्राप्येति-कुरुवंशकेतुर्जीवन्धरः, अर्धञ्च तद् राज्यञ्चेत्यर्धराज्यं राज्याम्,ि कन्दर्पस्य कामस्य साम्राज्यरमा साम्राज्यलक्ष्मीस्ताम्, पद्माञ्च धनपतिसुताञ्च, प्राप्य, प्रमोदकल्लोलपरम्पराणामानन्दतरङ्गश्रेणीनाम्, आघातेन संघटनेन हृष्यद्विकसद् हृदयाम्बुजं चित्तारविन्दं यस्य तथाभूतः, अभूद् बभूव ॥ ४६ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी' व्याख्याधरे जीवन्धरचम्पूकाव्ये
पद्मालम्भो नाम पञ्चमो लम्भः। १ मदनतां ब० । २ केलीकरिणीमिव तरुणीजन -ब० । ३ दिगन्तेषु ब० । ४ विस्मृत ब० ।
१४