________________
जीवन्धरचम्पूकाव्ये
नरपालसुतां स्नातां प्रसाधनगृहाङ्गणे । प्रसाधयितुमारेभे प्रहर्पण सखीजनः ।। ४० ॥ कलशजलधिवेलालोलडिण्डीरखण्डा
यितमृदुवसनेनावेष्टिता राजपुत्री । शरदमलधनालीशोभितेवेन्दुरेखा
सुरतरुनववल्ली पुष्पितेवाबभासे ॥४१॥ पादाम्बुजोल्लसितहीरकनू पुरश्री
राविर्बभूव नखचन्दिरसेवनाय । तारावलिः पदसमीपगतेव तस्या
__ स्तारुण्यवीरुध इवापतिता सुमालिः ।। ४२ ॥ तस्या गुरुजघनशोभितरशना मदनराजधानी कनकप्राकारावलिरिव मारमहानिधिनिधानवेष्टितभुजगीव मीनकेतनोपवनवृतिसुरतरुवल्लीव व्यराजत । हारः किं वा सकलनयनाहार एवाम्बुजाक्ष्या
यद्वा वक्षोरुहगिरिपतन्निर्भरस्यैप पूरः। किं वा तस्याः स्तनमुकुलयोः कोमलश्रीमृणालो
भाति स्मैवं विशयवशतः स्त्रीजनैः प्रेक्ष्यमाणः ॥ ४३ ॥ नासामणिर्वक्त्रपयोजमध्यविभासुरोऽयं जलबिन्दुरेव । आहोस्विदस्या नवमौक्तिकं किं नासाख्यवंशाद्गलितं गरिष्ठम् ॥ ४४ ।।
नरपालसुतामिति-सखीजनो बयस्यसमूहः, स्नातां कृतमङ्गलस्नानाम्, नरपालसुतां नृपतिपुत्रीम्, पद्मामिति यावत्, प्रसाधनगृहस्याभरणादिधारणनिकेतनस्याङ्गणे चत्वरे, प्रहर्षेण सम्मदातिशयेन, प्रसाधयितुमलङ्कर्तुम्, आरेभे प्रारब्ध ॥ ४० ॥
कलशेति-कलशजलधेः क्षीरसागरस्य वेलायां तव्यां लोलश्चपलो यो डिण्डीरखण्डः फेनशकलस्तद्वदाचरितं यन्मृदुवसनं कोमलवस्त्रं तेन, आवेष्टिता परिवृता, राजपुत्री पद्मा, शरदो जलदान्ततॊरमलघनाल्या सितवारिदपङ्क्त्या शोभिता समुद्भासितेति शरदमलघनालीशोभिता, इन्दुरेखेत्र, चन्द्ररेखेव, पुष्पिता कुसुमिता, सुरतरुनववल्लीव कल्पवृक्षनूतनलतेव, आबभासे शुशुभे, । मालोपमा, मालिनीवृत्तम् ॥ ४१ ॥
पादाम्बुजेति-तस्याः पद्मायाः, पदाम्बुजयोश्चरणकमलयोरुल्लसिता शोभिता या हीरकनूपुराणां हीरकमञ्जीरकाणां श्रीः शोभा सा, नखचन्दिरसेवनाय नखरेन्दुसमाराधनाय, पदसमीपगता चरणाभ्यर्णप्राप्ता, तारावलिरिव नक्षत्रपक्तिरिव, यद्वा, तारुण्यवीरुधो यौवनलतायाः, आपतिता समन्ता पतिता, सुमालिरिव पुष्पश्रेणिरिव, आविर्बभूव प्रकटिताभूत् । रूपकोत्प्रेक्षे । वसन्ततिलकावृत्तम् ॥ ४२ ॥
तस्या इति--तस्या राजपुत्र्याः, गुरुजघने स्थूलनितम्ब शोभिता समुद्भासिता या रशना मेखला सा मदनराजधान्याः कामराजधान्याः कनकप्राकारावलिरिव सुवर्णसालपङ्क्तिरिव मारस्य मन्मथस्य महानिधिनिधाने महानिधिकोशे वेष्टिता परितः स्थिता या भुजगी नागी तद्वत् । मीनकेतनस्य प्रद्युम्नस्य यदुपवनमुद्यानं तस्य या वृतिरावरणं तस्याः सुरतरुवल्लीव कल्पानोकहलतेव, व्यराजत व्यशोभत । उत्प्रेक्षा।
हार इति--अम्बुजाच्याः कमललोचनायाः, पद्माया इति यावत् , हारो मौक्तिकदाम, किंवा किमु, सकलनयनानां निखिलजनलोचनानामाहारः पारणाद्रव्यम्, एव, यद्वा अथवा, वक्षोरुहगिरेः कुचशैलात्पतनवख्रसमानो यो निझरो वारिप्रवाहस्तस्य, एषोऽयम्, पूर ओघः, किं वा यद्वा, तस्याः पद्मायाः, स्तनमुकुलयोः कुचकुडमलयोः, कोमलश्रीमृणालः सुकुमारश्रीविसम्, अस्तीति शेषः, एवमनेन प्रकारेण, विशयवशतः सन्देहवशतः, स्त्रीजनैर्वनितावृन्दैः, प्रेक्ष्यमाणो विलोक्यमानः सन्, भाति स्म शोभते स्म । संशयोत्प्रेक्षे, मन्दाक्रान्ताच्छन्दः ॥४३॥
नासामणिरिति-अस्या नृपालपुण्याः, नासामणिोणरत्नम्, अयमेषः, वक्त्रपयोजमध्ये मुख