________________
१०३
पञ्चमो लम्भः आकाशस्येव लक्ष्मीरसितजलमुचा शैवलेनेव गङ्गा
सेयं विद्युन्निकाशा सविधगतजनानन्दिनी द्रागुदम्थात् ॥ ३७॥ पित्रोरानन्दिनी सेऽयं चन्द्रिकेव चकोरयोः ।
जीवन्धरस्य नयने सुखयामास सादरम् ॥ ३८ ॥ तावदानन्दमकरन्दोद्गारिमनःसरोजेन क्षोणीपालकेन सविधमानीय कृतनुतिवचनेन मणिमयासनमधिरोपितः स्वामी जीवन्धरः सप्रश्रयं सम्भावितस्तत्क्षणमेव रूपलक्षणादिना राजवंश्योऽयमिति संजने ।
आहूय कार्तान्तिकमुख्यवृन्दं क्षोणीपतिः संसदि निश्चिकाय ।
शुभ मुहूर्त स समादिशञ्च विवाहसन्नाहविजृम्भणाय ।। ३६ ॥ तदनु मणितोरणपताकाकलशदर्पणादिभिरलङ्कृतासु नगररथ्यासु परिकल्पिते विविधरत्नस्तम्भचकचकितपरिणयमण्डपे तत्र विचित्रतया विरचितायां मङ्गलद्रव्यसङ्गतायां भणिवेदिकायां क्षितिपतिरुपयममङ्गलं विधातुमारेभे ।
धूम्रण मुक्ता, अग्रेरनलस्य, शिखेव ज्वालेव, अचलघनतमसा सुस्थिरनिविडध्वान्तेन, मुच्यमाना त्यज्यमाना, राकेव पौर्णमासीव, असितजलमुचा कृष्णवारिदेन, मुच्यमाना, आकाशस्य गगनस्य, लक्ष्मीरिव श्रीरिव, शैवलेन जलनील्या, मुच्यमाना, गङ्गेव भागीरथीव, मोहेन मूर्छया, मुक्ता त्यक्ता, विद्युन्निकाशा तडिन्सदृशी, इयं सा पूर्वोक्ता, नरपतिदुहिता राजपुत्री, सविधगतजनान् निकटस्थपुरुषान् आनन्दयतीत्येवं शीलेति सविधगतजनानन्दिनी सती, द्राग् झटिति, उदस्थादुत्तिष्ठति स्म, शयनादिति शेषः । मालोपमा, शार्दूलविक्रीडितं छन्दः ।। ३७ ॥
पित्रोरिति-चकोरयोर्जीववियोः, चन्द्रिकेव कौमुदीव, पित्रोर्जननीजनकयोः, आनन्दिनी समाहादिनी, इयं सा प्रसिद्धा पद्मा, सादरं ससन्मानं यथा स्यात्तथा, जीवन्धरस्य सात्यन्धरेः, नयने लोचने, सुखयामास समाह्लादयामास । उपमा ॥ ३८ ॥
तावदिति-तावत् तत्क्षणम्, आनन्दो हर्ष एव मकरन्दं पुष्परसस्तस्योद्गारि प्रकटयितृ मनःसरोजं चेतोऽरविन्दं यस्य तेन, कृतं विहितं नुतिवचनं स्तुतिवचनं येन तेन, क्षोणीपालकेन नृपेण, सविधं समीपम्, आनीय प्रापय्य, मणिमयासनं रत्नविष्टरम्, अधिरोपितोऽधिष्ठापितः, सप्रश्रयं सविनयम्, सम्भावितः सन्मानितः स्वामी जीवन्धरः सात्यन्धरिः, अयमेषः, राजवंश्यः क्षत्रियकुलो पन्नः, इत्येवम्, रूपलक्षणादिना सौन्दर्यलिङ्गादिना, तत्क्षणमेव तत्कालमेव, संजज्ञे ज्ञातः । कर्मणि प्रयोगः ।
आहूयेति-स पूर्वोक्तः, क्षोणीपतिर्धनपतिमहीपालः कान्तिकेषु ज्योतिर्वित्सु मुख्याः प्रधानास्तेषां वृन्दं समूहम् , आहूय समाकार्य, संसदि सभायाम, शुभमुत्तमम्, मुहूर्त कालम्, निश्चिकाय निरचैषीत् 'विभापा चेः' इत्यभ्यासात्परस्य कुत्वम्, विवाहस्य पाणिग्रहणस्य सन्नाहः सामग्यादिसजीकरणं तस्य विजृम्भणं वर्धनं तस्मै, समादिशञ्च समाज्ञातवाँश्च, भृत्यानिति शेष ॥ ३ ॥
तदन्विति-तदनु तदनन्तरम्, मणितोरणानि च रत्नतोरणानि च पताकाश्च केतवश्च, कलशाश्च मङ्गलघटाश्च, दर्पणाश्च मुकुराश्चेति मणितोरणपताकाकलशदर्पणास्त आदौ येषां तैः, अलङ्कृतासु शोभितासु, नगररथ्यासु पुरप्रधानवीथीषु सतीपु, परिकल्पिते निर्मिते, विविधरत्नस्तम्भानां नैकविधमणिमयस्तम्भानां चक्रेण समूहेन चकितश्शोभितो यो परिणयमण्डपो विवाहमण्डपस्तस्मिन् , विचित्रतया समद्भुतरीत्या, विरचितायां निर्मितायाम्, मङ्गलद्रव्यैः काञ्चनकलशादर्शतालवृन्तादिमङ्गलपदार्थैः सङ्गता सहिता तस्याम्, तत्र प्रसिद्धायाम, मणिवेदिकायां रत्नमयवितर्दिकायाम्, क्षितिपतिर्नृपः, उपयममङ्गलं विवाहमङ्गलम्, विधातुं कर्तुम्, आरेभे समारब्धवान् ।