________________
१००
जीवन्धरचम्पूकाव्ये तेऽपि तं कुरुवरं प्रभोज्ज्वलं वीक्ष्य विस्मयनिमग्नमानसाः ।
प्राप्य तस्य सविधं प्रमोदतः प्रश्रयेण मधुरां गिरमाहुः ॥२६।। कुवलयाह्लादसन्दायकोऽपि निखिलमहीभृन्महितपादोऽपि भवानदोषाकरतया न सुधाकरः, पद्मोल्लासनपटुरपि सन्मार्गाश्रितोऽपि सद्विरोधाभावेन न प्रभाकरः, सुमनोवृन्दवन्दितोऽपि क्षमाभृदनुकूलतया न पुरन्दरः, कुशाग्रनिकाशमतिरपि मौढ्यविरहेण न सुरगुरुः ।
इत्यादिस्तुतिविस्तारान्परिपप्रच्छ ताञ्जनान् ।
वत्याः के यूयमित्येवं कुरुवीरः कुतूहलात् ॥२७॥ इति जीवन्धरेण पृष्टास्तेऽप्येवमवोचन्त
अत्रास्ति चन्द्राभपुरी प्रसिद्धा यथार्थनाम्नी धनवज्रसौधैः । अभ्रंलि हैरम्बुजसम्भवस्य निर्माणनैपुण्यविलाससीमा ॥२८।। यस्यां निशायां मदिरेक्षणानां कपोलदेशे प्रतिबिम्बदम्भात् । मुखाब्जकान्तेरपहारसक्तः समागतश्चन्द्र इवाबभासे ।।२।।
यत्सालरत्नकान्तीनां पटलेनेव तर्जितः ।।
भानुर्ध्वजपटच्छन्नो भाति प्रविरलातपः ॥३०॥ तेऽपीति-तेऽपि धावमाना जना अपि, प्रभोज्ज्वलं दीप्त्युल्कटम्, तं कुरुवरं जीवन्धरम्, घीच्य दृष्वा, विस्मयेऽद्भुते निमग्नं बुडितं मानसं चित्तं येषां तथाभूताः सन्तः, प्रमोदतो हर्षात् , तस्य कुरुवरस्य, सविधमभ्यर्णम्, प्राप्य लब्ध्वा, प्रश्रयेण विनयेन, मधुरां मनोहारिणीम्, गिरं वाणीम्, आहुरूचुः । स्वागतारथोद्धतयोर्मेलनादुपजातिवृत्तम् ॥६६॥
कुवलयानादेति-भवांस्त्वम्, कुवलयाहादस्य नीलकमलानन्दस्य पक्षे महीमण्डलानन्दस्य सन्दायकोऽपि प्रदायकोऽपि, निखिलमहीभृद्धिः समग्रपर्वतैः पक्षे समग्रनृपतिभिः महितपादोऽपि पूजितकिरणोऽपि पते पूजितचरणोऽपि , अदोषाकरतया अरजनीकरतया पक्षेऽनवगुणखनितया, न सुधाकरश्चन्द्रः, पद्मानां कमलानां पक्षे पद्मायाः कमलाया उल्लासने विकासने विहर्पणे च पटुरपि दक्षोऽपि, सतां नक्षत्राणां पक्षे साधूनां मार्गः पन्थाः, गगनं समीचीनमार्गश्च तेनाश्रितोऽपि सेवितोऽपि, सद्विरोधाभावेन नक्षत्रविरोधाभावेन पक्ष सज्जनविद्वेषाभावेन, न प्रभाकरः सूर्यः, सुमनोवृन्दवन्दितोऽपि देवसमूहवन्दितोऽपि पक्षे विद्वत्समूहवन्दितोऽपि, क्षमाभूदनुकूलतया पर्वतानुकूलत्वेन पक्षे नृपानुकूलत्वेन, न पुरन्दरः पुरुहूतः, कुशाग्रनिकाशमतिरपि दर्भाग्रसदृशबुद्धिरपि तीक्ष्णबुद्धियुक्तोऽपीति यावत् , मौढ्यानां शिष्याणां पक्षे मौढ्यस्य मूर्खत्वस्य विरहेणाभावेन, न सुरगुरुव॒हस्पतिः, अस्तीति शेषः, श्लेषमूलकविरोधाभासोऽलङ्कारः।
इत्यादीति-इत्यादिश्चासौ स्तुतिश्चेतीत्यादिस्तुतिस्तां विस्तारयन्तीतीत्यादिस्तुतिविस्तारास्तान पूर्वोक्तप्रकारकस्तवनविस्तारकान्, तानभिमुखं धावमानान् जनान् पुरुपान्:, कुरुवीरः सात्यन्धरिः, यूयं भवन्तः के किन्नामानः क्वत्याः क्वभवाश्च, स्थेति शेषः, इत्येवमिन्थम्, कुतूहलात्कुतुकात्, परिपप्रच्छ पृच्छति स्म ॥२७॥
इति जीवन्धरेणेति-इत्येवं प्रकारेण जीवन्वरेण सत्यन्धरसूनुना, पृष्टा अनुयुक्ताः , ते जना अपि, एवं वचयमाणप्रकारेण, अवोचन्त कथयामासुः ।
अत्रास्तीति-अत्र देशे, अम्बुजसम्भवस्य वेधसः, निर्माणे रचनायां यो नैपुण्यविलासश्चातुर्यचमकारस्तस्य सीमावधिः, अभ्र लिहगंगनचुम्बिभिः, धनानि निविडानि वज्राणि हीरकाणि येषु ते बनवज्राः, ते च ते सौधाश्च राजभवनानि चेति धनवज्रसौधास्तैः, यथार्थं सार्थकं नाम नामधेयं यस्यास्तथाभूता प्रसिद्धा प्रख्याता, चन्द्राभपुरी तन्नाम्नी, नगरी, अस्ति विद्यते ॥२८॥
यस्यामिति-यस्यां चन्द्राभपुर्याम्, निशायां रजन्याम्, मदिरेक्षणानां सुलोचनानाम्, कपोलदेशे गण्डग्रान्ते, प्रतिबिम्बस्य प्रतिकृतेर्दम्भो व्याजस्तस्मात्, समागत उपस्थितः, चन्द्रो विधुः, मुखाब्जकान्तेवंदनारविन्ददीप्तेः, अपहारे चौर्ये सक्तो लग्न इत्यपहारसक्तः स इव, आबभासे शुशुभे । उत्प्रेक्षा ॥२६॥
यत्सालेति-ध्वजानां वैजयन्तीनां पटेन वस्त्रेण, छन्नो व्याप्तः, भानुः सूर्यः, यस्याः सालो यत्साल: