SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पञ्चमो लम्भः १०१ तां पालयत्यमरराजसमानकीर्तिः शौर्याकरो धनपतिप्रथितो महीशः । श्रीमानही नवपुरण्यभुजङ्गलीलो मित्रानुरागसहितोऽपि कलाधरेच्छः ।। ३१ ।। श्रीराजकशिरोरत्नकान्तिबालातपाचितम् । यस्य पादाम्बुजं भाति नखचन्द्रिकयोज्ज्वलम् || ३२ ॥ तिलोत्तमेति विख्याता तस्य कान्ता मनोरमा । विरामभूमिः कान्तीनामनूनगुणभूषणा ॥ ३३ ॥ कान्त्या विजितपद्मास्ति तयोः पद्मेति नन्दिनी । शिरीषसुकुमाराङ्गी कठिनस्तनकुड्मला || ३४ ॥ aur त्रिभुललामवल्ली विहाराय वनमागता तत्र तत्र सखीभिः सह विहरन्ती रोमराजिलतया वेण्या च मामियं निराकरोतीति कृतविद्वेपेणेवाशीविषेण दृष्टा विदितवृत्तान्तेन तस्य रत्नानि तेषां कान्तयस्तासां यदीयप्राकारमणिदीप्तीनाम्, पटलेन समूहेन, तर्जित इव भसित इव, प्रविरलोडल्प आतपो घर्मो यस्य तथाभूतः, भाति शोभते । उत्प्रेक्षा ॥३०॥ तां पालयतीति तां चन्द्राभपुरीम्, अमरराजेन देवेन्द्रेण समाना सदृशी कीर्तिर्यशो यस्य सः, शौर्यस्य पराक्रमस्याकरः खनिः, श्रीमान् लक्ष्मीयुक्तः, अहीनां नागानामिनः स्वामीत्यहीनो नागराजस्तस्य वपुरिव वपुः शरीरं यस्य तथाभूतोऽपि सन्, अविद्यमाना भुजङ्गस्य नागस्य लीला शोभा यस्येति विरोधः, पक्षे न हीनमहीनम्, अहीनं वपुर्यस्य तथाभूतोऽपि समुत्कृष्टशरीरोऽपि सन्, नास्ति भुजङ्गस्येव विटस्येव लीला क्रीडा यस्य सः, मित्रे सूर्येऽनुरागो मित्रानुरागस्तेन सहितोऽपि युक्तोऽपि कलाधरे चन्द्रमसीच्छा छ यस्य तथाभूत इति विरोधः, पत्ते मित्रेषु सुहृत्स्वनुरागः प्रेम तेन सहितोऽपि युक्तोऽपि कलाधरेषु वैदग्धीधारकेषु इच्छानुरागातिशयो यस्य तथाभूतः, धनपतिरिति प्रथितः प्रख्यातो धनपतिप्रथितः, महीशो नृपः पालयति रक्षति । श्लेषमूलक विरोधाभासोऽलङ्कारः । वसन्ततिलकावृत्तम् ॥३१॥ श्रीराजकेति — श्रीराजकस्य लक्ष्मीललितनृपालसमूहस्य शिरोरत्नानि मौलिमण्यस्तेषां कान्तिरेव दीप्तिरेव बालातपः प्रातःकालिकधर्मस्तेनाञ्चितं शोभितम्, यस्य धनपतेः पादाम्बुजं चरणकमलम्, नखचन्द्रिकया नखरज्योत्स्नया, उज्ज्वलं प्रदीप्तं सत्, भाति शोभते ॥३२॥ तिलोत्तमेति — तस्य धनपतिमहीपतेः, मनोरमा मनोहारिणी, कान्तीनां दीप्तीनाम्, विरामभूमिविश्रामही, अनूना उत्कृष्टा गुणा दयादाक्षिण्याद्वय एव भूपणान्याभरणानि यस्याः सा 'तिल्लोत्तमा,' इति विख्याता प्रसिद्धा, कान्ता प्रेयसी, अस्तीति शेषः ॥ ३३ ॥ कान्त्येति — तयोर्धनपतितिलोत्तमयोः, कान्त्या शोभया, विजितानि पराभूतानि पद्मानि कमलानि यया सा, शिरीष इव कपीतन इव सुकुमारं मृदुलमङ्गं शरीरं यस्याः सा 'शिरीषस्तु कपीतनः' इत्यमरः, कठिनौ कठोर स्पर्शो स्तनकुड्मलो वक्षोजमुकुलकौ यस्याः सा पद्मति 'पद्मा' इति नाम्नी, नन्दिनी पुत्री, अस्ति विद्यते ॥ ३४॥ कदाचिदिति - कदाचिजातुचित्, त्रिभुवनललामवल्ली त्रिलोक्याभरणलता, एषा पद्मा, विहाराय क्रीडा, वनमुद्यानम्, आगता प्राप्ता, तत्र तत्र तेषु तेषु प्रदेशेषु, सखीभिर्वयस्याभिः सह साकम्, विहरन्ती विहारं कुर्वन्ती क्रीडन्ती वा, इयं पद्मा, रोमराजिलतया लोम लेखावल्ल्या, वेण्या च कवर्या च, मामाशीविषम्, निराकरोति तिरस्करोति, इति हेतुना, कृतो विहितो विद्वेषो वैरं येन तथाभूतेनेव, आशीविषेण नागेन, दष्टा दशनविषयी कृता, विदितो वृत्तान्तो येन तेन विज्ञातसमाचारेण, महती चिन्ता यस्य तेन दीर्घचिन्तावता, भूकान्तेन महीपतिना, कारितां विधापिताम्, इमां कन्याम, निर्विषीकुर्वते निर्गरलीकुर्वते जनायेति शेषः,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy