________________
पञ्चमो लम्भः
88
उद्यर्जितपाटिताखिलमहादिग्भित्तयस्तत्क्षणं
__वर्षे हर्पितजीवका विदधिरे कल्पान्तमेघायिताः ।। २२ ।। यक्षेन्द्रकल्पितघनाघनमण्डलं त
चक्रेऽभिषेचनमरण्यगजबजस्य । वारांनिधेविमलशीतपयःप्रवाहै
र्यक्षाधिराज इव कौरवकुञ्जरस्य ॥२३।। तथा हिसौदामिनीसुभगनर्तकरीवितान
मभ्रं शिखावलकुलं पटुवन्दिवर्गः । मेघारवः सकलवाद्यरवस्तरूणां
गुच्छाः समीरचलिताः किल चामराणि ||२४॥ तदनु परिरक्षितानि शुण्डालमण्डलानि तरुपण्डानि च विटपसंसक्तविन्दुत्करनिपतनव्याजेनानन्दबाष्पमुकुलान्युत्सृजन्ति विलोकमानः, सन्तोषेण तस्माद्वनान्निर्गत्य, तत्र तत्र मानुषरूपिण्या धर्मरक्षिण्या यक्षिण्या परिचर्यमाणः, तीर्थस्थानानि पूजयन , क्रमेण कुममल्लः पल्लवदेशमानशे।
सञ्चरंस्तत्र सन्तोषात्पञ्चबाणः कुरूत्तमः।
धावमानानभिमुखं ददर्श पथि कांश्चन ।।२५।। इव धूम्रशाला इव स्थिताः, उद्यद्गर्जितेन समुद्भवत्स्तनितेन पाटिताः खण्डिता अखिला : समस्ता महादिग्भित्तयो महाकाष्ठाकुड्या यैस्ते, हर्षिताः प्रसादिता जीवा दावानलपतिताः प्राणिनो यैस्त इति हर्षितजीवकाः, हर्षितो जीवको जीवन्धरो यैस्त इति वा, कल्पान्तमेघा इव प्रलयवारिदा इवाचरिता इति कल्पान्तमेघायिताः, जीमूता मेघाः, तत्क्षणं तत्कालम्, वर्ष वृष्टिम्, विदधिरे चक्रिरे । शार्दूलविक्रीडितं वृत्तम् ॥२२॥
यक्षेन्द्रति-तत् पूर्वोक्तम्, यक्षेन्द्रेण सुदर्शनेन कल्पितं निर्मापितं यद् घनाधनमण्डलं मेघसमूहस्तत्, वारांनिधेः सागरस्य, विमलशीतपयःप्रवा हैनिमलशिशिरसलिलपूरैः, कौरवकुञ्जरस्य जीवन्धरस्य, यक्षाधिराज इव सुदर्शन इव, अरण्यगजबजस्य काननकरिकलापस्य, अभिपेचनं परितः स्नपनम्, चक्रे विदधे । उपमा । वसन्ततिलकावृत्तम् ॥२३॥
तथाहि-तदेव स्पष्टीकुरुते ।
सौदामिनीति-सौदामिनी तडित् , सुभगनर्तकरी मनोज्ञलासिका, अभ्रं गगनं मेघो वा, वितानमुल्लोचः, शिखावलकुलं मयूरसमूहः पटुवन्दिवर्गो विदग्धमागधगणः, मेघारवो घनाघननादः, सकलवाद्यरवो निखिलवादित्रसमूहः, तरूणां वृक्षाणाम्, समीरचलिताः पवनप्रकम्पिताः गुच्छाः स्तवकाः, चामराणि बालव्यजनानि, बभूवुरिति शेपः, किलेति वार्तायाम् ॥२४॥
तदन्विति तदनु वर्षानन्तरम्, परिरक्षितानि परित्रातानि, शुण्डालमण्डलानि हस्तिसमूहान्, विटपसंसक्ताः शाखालग्ना ये बिन्दूत्कराः पृषतासमूहास्तेषां व्याजेन दम्भेन, आनन्दबाप्पमुकुलानि हर्षाश्रकुड्मलानि, उत्सृजन्ति त्यजन्ति, तरुपण्डानि च वृक्षसमूहांश्च, विलोकमानः पश्यन् , सन्तोषेण हर्षेण, तस्मात् दवानलाधिष्ठितपूर्वात्, वनात् काननात्, निर्गत्य बहिरागत्य, तत्र तत्र तेषु तेषु स्थानेषु, मानुषरूपिण्या मनुष्याकारधारिण्या, धर्मरक्षिण्या जिनशासनरक्षिकया, यक्षिण्या व्यन्तरदेव्या, परिचर्यमाणः समुपास्यमानः, तीर्थस्थानानि पुण्यक्षेत्राणि, पूजयन् वन्दमानः, कुरुमल्लो जीवन्धरः, क्रमेण क्रमशः, पल्लवदेशं पल्लवाभिधानजनपदम्, आनशे प्राप।
सञ्चरन्निति-तत्र पल्लवजनपदे, सन्तोषान्मोदात्, सञ्चरन् विहरन् , पञ्चबाणः कामदेवः, कुरूत्तमो जीवन्धरः, पथि मार्गे, अभिमुखं सम्मुखम्, धावमानान् वेगेन गच्छतः, काञ्चन कानपि जनान् , ददर्श विलोकयामास ॥२५॥