________________
जीवन्धरचम्पूकाव्ये
कीलाकलापैः सन्ध्यारागरञ्जितमिव, धूमस्तोमेन ध्वान्तदन्तुरितमिव, ज्वलज्ज्वलनेन सन्ध्यारक्तचन्द्रबिम्बचुम्बितं नभस्तमिव, व्यराजत ।
तदा हरिणमण्डलं हुतवहाक्रमत्रासतो
विलोलनयनाञ्चलैर्विजितबालनीलोत्पलैः । दवानलविनाशनप्रथितवेगकूलङ्कपां
कलिन्दगिरिनन्दिनीं कलयति स्म कल्लोलिनीम् ।। २० ॥ तदनु धूमस्तोमचुकारेण ज्वालाकलापफटफटात्कारेण शबरजनहाहाकारेण तन्मध्यनिरुद्धसत्त्वयूथार्तविरावेण च बधिरीकृतदिशावशावल्लभे हुताशसन्त्रासधावमानवनदेवताशिथिलकवरीनिकरपरिशीलितसाम्यया धूम्ययान्धीकृतसकललोके वैश्वानरे विजम्भिते, भाविमेघपटलशम्पागर्जितानि धूमस्तोमज्वालादहनचटचटात्कारैः परिहसदिव काननमराजत ।
अनेकपकुलं तत्र दह्यमानं दवाग्निना ।
त्रातुमैच्छदयापूरजलधिः कुरुकुञ्जरः ।। २१ ॥ तस्याकूतमवेत्य यक्षपतिना वेगेन सङ्कल्पिता
जीमूता वियदङ्गणे परिणता धूमप्रकारा इव ।
यस्मिस्तद्वत् देदीप्यमाना जाज्वल्यमानाश्च ते कीला कलापाश्च ज्वालासमू हाश्चेति तैः, सन्ध्यारागेण पितृप्रसूकालिकारुणिम्ना रञ्जितमिव लोहितीकृतमिब, धूमस्तोमेन तमःसमूहेन, ध्वान्तदन्तुरितमिव तिमिरव्याप्तमिव, ज्वलज्ज्वलनेन ज्वलद्वह्निना,, सन्ध्यारक्त सन्ध्यालोहितं यच्चन्द्रबिम्बमिन्दुमण्डलं तेन चुम्बितं सहितम्, नभस्तलमिव गगनतलमिव, व्यराजत व्यशोभत ।
तदा हरिणमण्डलमिति तदा तस्मिन् काले, हरिणमण्डलं कुरङ्गसमूहः, हुतवहस्य दावानलस्याक्रम आक्रमणं तस्मात् त्रासो भयं तस्मात् , विजितानि शोभया पराजितानि बालनीलोत्पलानि नवनीलनलिनानि यस्तैः, दवानलेन वनवाहिना यविनाशनं नाशस्तेन प्रथितो वृद्विङ्गतो यो वेगो रयस्तेन कलङ्कपा तटघर्षिणी ताम्, कलिन्दगिरिनन्दिनी यमुनाम्, कल्लोलिनी सरितम्, कलयति रम समुत्पादयामास । दवानलदाहाद्विभीतो हरिणसमूहः स्वस्य नीलनीलैनयनाञ्चलैः काननं श्यामलञ्चकारेति भावः, पृथ्वीवृत्तम् ॥ २० ॥
तदग्विति-तदनु तदनन्तरम्, धूमस्तोमस्य धूम्रसमूहस्य चुकारेणाव्यक्तशब्दविशेषेण, ज्वालाकलापस्यार्चिःसमूस्य फरफटात्कारेणाव्यक्तशब्दविशेषेण, शबरजनस्य भिल्लजनस्य हाहाकारेण दुःखसूचकशब्दविशेषेण, तन्मध्ये दावानलमध्ये निरुद्धं संरुद्धगमनं यत्सत्त्वयूथं प्राणिसमूहस्तस्यातविरावेण दुःखशब्देन च, बधिरी कृताः श्रवणशक्तिशून्यीकृता दिशावशावल्लभाः काष्टाकरिणो येन तस्मिन् , हुताशसंत्रासेन पावकभयेन धावमानाः पलायमाना या वनदेवताः काननाधिष्ठातृदेव्यस्तासां शिथिलः स्रंसमानो यः कबरीनिकरः केशपाशसमूहस्तेन परिशीलितमनुभूतं साम्यं सादृश्यं यया तया, धूमानां समूहो धूम्या तया धूमसमूहेन, अन्धीकृता विलोकनसामर्थ्यशून्यीकृताः सकललोका निखिलजना येन तस्मिन् , वैश्वानरे वह्नी, विजम्भिते वृद्विङ्गते सति, धूमस्तोमश्च धूम्रसमूहस्य, ज्वालाश्चा:पि च दहनचटचटात्काराश्च पावकाव्यक्तशब्दविशेषाश्चेति धूमस्तोमज्वालादहनचटचटाकारास्तैः, भाविमेघपटलञ्च शम्पा च गर्जितश्चेति भाविमेघपटलशम्पागर्जितानि भविष्यद्वारिदसमूहसौदामिनीस्तनितानि, परिहसदिव विडम्बयदिव, काननं वनम्, अराजत शुशुभे ।
अनेकपकुलमिति-दयापूरस्य कारुण्यप्रवाहस्य जलधिः सागरः कुरुकुञ्जरो जीवन्धरः, तत्र कानने, दवाग्निना वनानलेन, दह्यमानं प्लुष्यमाणम्, अनेकपकुलं हस्तिसमूहम्, त्रातुं रक्षितुम्, ऐच्छत् वाञ्छति स्म ॥२१॥
तस्याकूतमिति-तस्य जीवन्धरस्य आकृतमभिप्रायम्, अवेत्य ज्ञात्वा, यक्षपतिना सुदर्शनेन, वेगेन रयेण शीघ्रमिति यावत् । सङ्कल्पिता रचिताः वियदङ्गणे नभश्चत्वरे, परिणताः परिणाम प्राप्ताः, धूम्रप्राकारा