________________
पञ्चमो लम्भः
सतां पथि समावहन्विततसान्ध्यमेघभ्रम
किरीटमणिकान्तिभिः सुरपचापसम्भावनाम् ॥ ११ ॥ एते देवाः पूर्वमागत्य लक्ष्मों धेनुं चिन्तारत्नम यांश्च हुत्वा ।
आशापाशादागतास्ते पुनश्चेत्येवं दुग्धाम्भोधिरात ररास ॥ १२ ॥ ततश्च, कुरुवीरं धैर्यगुणेन स्पर्धमानश्चन्द्रोदयगिरिस्तदीयपादस्पर्शेन कृतार्थतामाससाद, अहमपि गाम्भीर्ययशोभ्यां स्पर्धमानस्तदीयसर्वाङ्गस्पर्शन कृतकृत्यतामनुभवामि, इति चलाचलवीचिबाहुभिर्नृत्यत इव फेनकूटेन, घोषकपटेन चाट्टहासमातन्वानस्येव, दुग्धसागरस्य पयोभिः पूरितान्कनककलशान्बिभ्राणास्ते यक्षाध्यक्षमुखाः, सत्वरमागत्याभिषेकमङ्गलं कर्तुमारभन्त ।
यक्षेशमुख्यकरलम्भितहेमकुम्भ
पङ्क्तेः पपात कुरुकुञ्जरमूनि तोयम् । सन्ध्याभ्रसङ्घविगलद्विमलाम्बुवर्षे
प्रालेयशैलशिखरान इवातिसान्द्रम् ॥ १३ ॥ समापिते साध्वभिपेकमङ्गले निलिम्पकान्तानयनान्तवारिभिः । परीतमूर्तिः पुनराबभावसौ पयोऽधिपूरैरिव सिच्यमानः ।। १४ ॥
शोभिताः सुवर्णकुम्भाः काञ्चनकलशा येषां तैः, सुरैर्देवैः, सह सार्धम्, सतां नक्षत्राणाम्, पथि मार्गे गगन इति यावत्, विततानां व्याप्तानां सान्ध्यमेघानां पितृप्रसूवारिदानां भ्रमं सन्देहम्, किरीटमणिकान्तिभिमौलिरत्नदीप्तिभिः, सुरपचापस्य शक्रशरासनस्य सम्भावना समुत्प्रेक्षा ताम् च, समावहन उत्पादयन् , कलशवारिधि क्षीरसागरम्, प्रति, चचाल चलति स्म । पृथ्वीच्छन्दः ॥११॥
एते देवा इति-एते दृश्यमाना इमे, देवाः सुराः, पूर्व पुरा, आगत्य समेत्य, लक्ष्मी श्रियम्, धेनुं सुरगवीम्, चिन्तारत्नं चिन्तामणिम्, अन्याँश्च कल्पवृक्षादीन् , हृत्वा समादाय, गता इति शेपः । ते देवाः, आशापाशात् तृष्णाबन्धात् , पुनर्भूयः, आगताः प्राप्ताः, इत्येवम् इति प्रकारेण, दुग्धाम्भोधिः क्षीरसागरः आत्तं पीडितं यथा स्यात्तथा, ररास शब्दञ्चकार । उत्प्रेक्षा । शालिनीच्छन्दः 'शालिन्युक्ता म्तो तगौ गोऽब्धिलोकैः' इति लक्षणात् ।।१२॥
ततश्चेति-ततश्च तदनन्तरञ्च, धैर्यमेव गुणस्तेन स्थैर्यगुणेन, कुरुवीरं जीवन्धरम्, स्पर्धमानः स्पर्धा कुर्वाणः, चन्द्रोदयगिरिश्चन्द्रोदयाभिधानपर्वतः, तदीयपादस्य कुरुवीरचरणस्य स्पर्शः स्पर्शनं तेन कृतार्थतां कृतकृत्यताम्, आससाद प्राप, अहमपि दुग्धसागरोऽपि, गाम्भीर्यञ्च यशश्चेति गाम्भीर्ययशसी ताभ्याम् अगाधत्वकीर्तिभ्याम्, स्पर्धमानोऽसूयन् , तदीयस्य कुरुवीरीयस्य सर्वाङ्गस्य सर्वशरीरस्य स्पर्शः सम्बन्धस्तेन कृतकृत्यताम्, कृतार्थताम्, अनुभवामि, इति हेतोः, चलाचला अतिशयेन चला वीचय एव तरङ्गा एव बाहवस्तैः, फेनकूटेन डिण्डीरपिण्डेन, नृत्यत इव नृत्यं कुर्वत इव, घोषकपटेन गर्जितव्याजेन, अट्टहास सशब्दोच्चहासम्, आतन्वानस्येव विस्तारयत इव, दुग्वसागरस्य क्षीरपाथोधेः, पयोभिर्जलः, पूरितान् भृतान्, कलशान् कुम्भान् , बिभ्राणा दधानाः, यक्षाध्यक्षमुखाः सुदर्शनप्रधानाः, देवाः, सत्वरं शीघ्रम्, आगत्य समेत्य, अभिषेकमङ्गलं मङ्गलस्नानम्, कतुं विधातुम् , आरभन्त उपचक्रमिरे ।
। हिमाचलस्य शिखराग्रं शृङ्गाग्रं तस्मिन् , अतिसान्द्रम् अतिनिविडम्, सन्ध्याभ्रसङ्घात्सन्ध्यावारिदव्यूहाद् विगलपतत् यद्विमलाम्ब्रुवर्ष निर्मल नीरवृष्टिस्तद्वत् , कुरुकुञ्जरमूर्ध्नि जीवन्धरोत्तमाङ्गे, यक्षेशः सुदर्शनो मुख्यः प्रधानो येषां ते यक्षेशमुख्यास्तेषां पक्तिस्तस्याः, तोयं जलम् , पपात पतति स्म । वसन्ततिलकाछन्दः ॥१३॥
समापित इति-अभिषेकमङ्गले स्नपनकल्याणके, साधु सम्यग् यथा स्यात्तथा, समापिते निष्टापिते सति, निलिम्पकान्तानां निर्जरनारीणां नयनान्ता एव कटाक्षा एव वारीणि जलानि तैः, परीता व्याशा मूर्तिः शरीरं यस्य तथाभूतः, असौ जीवन्धरः, पुनर्भूयः, पयोऽधिपूरैः पयसां दुग्धानामधिपूरैर्भूरि प्रवाहैः अथवा
TOTTG-त्रावर
-प्रालेयशं