________________
१६
जीवन्धरचम्पूकाव्ये ततो दिव्याम्बरधरो मणिभूषणमण्डितः । रेजे जीवन्धरस्वामी सचापशरदभ्रवत् ॥ १५ ॥ यक्षाधिपार्पितं कल्पवृक्षाञ्चितफलादिकम् ।
जग्राह जीवकस्वामी निग्राहचतुरो द्विपाम् ।। १६ ॥ ततः क्रमेण यक्षाध्यक्षेणोपदिष्टं कामरूपविधानगानविषहानशक्तियुक्तं चिरनं मन्त्ररत्नं बहुमन्यमानः, 'एकहानमात्रेण राज्यलक्ष्मीकटाक्षा-प्रवेक्ष्यसि' इति तद्वचनेन सन्तुष्टः, सन्ततं प्रश्रयवशंवदैर्यतैः सम्भाव्यमानः कुरुवीरः, कदाचिद्देशान्तरदिदृक्षामिङ्गितैर्यक्षाध्यक्ष ज्ञापयामास ।
मनीपितं तस्य कुरूत्तमस्य ज्ञात्वा मनीषी स हि यक्षराजः ।
मार्गस्य भङ्गी स्फुटतोऽभिधाय सम्प्रापयामास तदद्रिसीमाम् ॥ १७ ॥ तदनु कुरुवंशकेसरी केसरीव तत्र तत्र निर्भय एव विहरन् , क्वचिदतिविततानोकहकुलविलसितमसूर्यपश्यं तरक्षुमृगाधिष्ठानम् , कचन तरुपण्डे कादम्बिनीभ्रान्त्या दूरोन्नमितकेकागर्भकण्ठं प्रबलपुरोवातसन्ताडितशिखण्डं नीलकण्ठम् , कुत्रचिन्महागुल्मान्तरकुडुम्बिशबरकदम्बकम् , कुत्र च
पयोऽब्धिपूरैः क्षीरसागरप्रवाहैः सिच्यमान इत्र समुच्यमण इव, आबभौ शुशुभे । उत्प्रेक्षालङ्कारः । उपेन्द्रवज्रावृत्तम् ॥१४॥
__तत इति--ततस्तदनन्तरम् , दिव्याम्बरधरः स्वर्गीयवस्वधारकः, मणिभूपणै रत्नालङ्कारैर्मण्डितः शोभितः, जीवन्धरस्वामी सात्यन्धरिः, सचापशरदभ्रवत् सशक्रशरासनशरन्मेघ इव, रेजे शुशुभे । उपमालङ्कारः ॥१५॥
___यक्षाधिपार्पितमिति-द्विपां शत्रूणाम् , निग्राहे दमने चतुरो दक्ष इति निग्राहचतुरः जीवकस्वामी जीवन्धरः, यक्षाधिपेण सुदर्शनेनार्पितं प्रदत्तमिति यक्षाधिपार्पितम्, कल्पवृक्षेषु सुरतरुष्वञ्चितं शोभित यत्फलादिकं फलप्रभृतिकं तत्, जग्राह गृह्णाति स्म ॥१६॥
ततः क्रमेणेति-ततस्तदनन्तरम्, क्रमेण क्रमशः, यक्षाध्यक्षेण सुदर्शनेन, उपदिष्टं निर्दिष्टम्, कामरूपविधानं च, गानं च, विषहानञ्चेति कामरूपविधानगानविपहानानि तेषां शक्तिः सामर्थ्य तया युक्तं सहितम्, चिरत्नं प्राचीनम् , मन्त्ररत्न मन्त्रश्रेष्टम् , बहु मन्यमानः समादरेण स्वीकुर्वाणः, 'एकहायनमात्रेग एकवर्पमात्रेण, राजलचम्या नृपतिश्रियाः कटाक्षा अपाङ्गास्तान् प्रवेच्यसि प्राप्स्यति', इत्येवम् , तद्वचनेन, तत्कथनेन, सन्तुष्टः सम्प्रीतः, सन्ततं निरन्तरम् , प्रश्रयवंशवदैर्विनयानुकूलः, यक्षय॑न्तरामरैः, सम्भाव्यमानः सक्रियमाणः, कुरुवीरो जीवन्धरः, कदाचिजातुचित्, इङ्गितैश्चेष्टितैः, यक्षाध्यक्ष सुदर्शनम्, देशान्तराणां . जनपदान्तराणां दिदृक्षां द्रष्टुमिच्छाम् , ज्ञापयामास कथयामास ।
मनोषितमिति–हि निश्चयेन, मनीषी बुद्धिमान् , स पूर्वोक्तः, यक्षराजः सुदर्शनः, तस्य पूर्वोक्तस्य, कुरूत्तमस्य जीवन्धरस्य, मनीषितमभिलषितम्, ज्ञात्वा बुद्ध्वा, मार्गस्य वर्त्मनः, भङ्गी परम्पराम , स्फुटतः स्पष्टप्रकारेण, अभिधाय निगद्य, तदद्रिसीमाम् तत्पर्वतावधिम् , सम्प्रापयामास लम्भयामास, तमिति शेषः ॥१७॥
तदन्विति तदनु तदनन्तरम्, कुरुवंशकेसरी कुरुकुलसिंहः, जीवन्धर इति यावत्, केसरीव सिंह इव, तत्र तत्र तेषु तेषु प्रदेशेषु, निर्भय एव भीतिरहित एव, विहरन् विहारं कुर्वन् , क्वचित्कुत्रचित् , अतिविततमतिविस्तृतं यदनोकहकुलं वृक्षसमूहस्तेन विलसितं शोभितम् , न सूर्यं पश्यतीत्यसूर्यपश्यं सघनत्वासूर्यदर्शनरहितम् , तरक्षवश्व मृगादनाश्च मृगाश्च हरिणाश्चेति तरक्षुमृगास्तेषामधिष्टानं निवासस्थानम् , क्वचन कुत्रापि, तरुषण्डे वृक्षसमूह, कादम्बिन्या मेघमालाया भ्रान्तिस्सन्देहस्तया, दूरेणोन्नमितो दूरोन्नमितः केका मयूरवाणी गर्ने मध्ये यस्य स केकागर्भः, केकागर्भश्चासौ कण्ठश्चेति केकागर्भकण्ठः, दूरोन्नमितः केकागर्भकण्ठो यस्य तम् , प्रबलेन दृढेन पुरोवातेन सम्मुखागतवायुना सन्ताडितः समाहतः शिखण्डो बहं यस्य तम्, नीलकण्ठं मयूरम, कुत्रचित्क्वचित् , महागुल्मान्तरेषु दीर्घस्तम्बमध्येषु कुटुम्बयते वसतीति महागुल्मा