________________
१४
जीवन्धरचम्पूकाव्ये
धवलातपत्रेण विराजितः, सकलदिविजकुड्मलीकृताञ्जलिकञ्जपुञ्जमध्यराजहंसायमानः, शिखावलकुलनृत्यकलाविलाससम्पादकैर्गभीरतरतूर्यनिनादैर्वाचालितदशदिक्तटः, निरन्तरदन्दह्यमानकालागुरुधूमरेखया धवलातपवे शशिशङ्कासमागतविधुन्तुदसम्भाव्यमानया सुरभितसविधप्रदेशः, निरन्तरनिःसरत्पदनखकान्तिभिर्निजाक्रमणभिन्नकुम्भस्थलविगल मौक्तिकनिचयशङ्कामङ्कुरयन , एकदोदितकोटिसूयैरिव विमानारूढैयक्षैः परितःस्तूयमानवैभवः, नटन्तीः सौदामिनीलता इव त्रिदशवनिता निःसरदपाङ्गसुधातरङ्गिणीमध्ये भुजोल्लासितलास्यलीलावशेन मवन्तीरिव समाकलयन , शनैः शनैवृन्दारकवन्दिसन्दोहपापठ्यमानविरुदावलिमुखरीकृतकन्दरतया प्रतिध्वानवशेन स्वयमपि स्तुतिमाचरन्तमिव चन्द्रोदयनामानं भूमिधरमेत्य, तत्र विचित्ररत्नमयमण्डपमध्ये सरभससन्नाहैरमृतान्धःसमूहैः समानीतं मूर्तमिव सकलानुरागं पद्मरागमयं सिंहविष्टरमलञ्चकार ।
प्रगेदुः पटहास्तत्र प्रतिध्वानितकन्दराः ।
गायन्त्यो मञ्ज किन्नर्यो ननृतुश्च समन्ततः ।। १० ।। ततः कलशवारिधि प्रति चचाल यक्षाधिपः
सुरैः करसरोरुहाञ्चितसुवर्णकुम्भैः सह । शशिसन्देहेन समागतः समायातो यः परिवेयः परिधिस्तेनेव, सुरकराम्बुरुहेण देवपाणिपद्मन विश्तं सन्धारितं कनकदण्डरुचिरं सुवर्णदण्डसुभगं च यद् धवलातपत्रं श्वेतच्छत्रं तेन, विराजितः शोभितः, सकलदिविजानां समस्तदेवानां कुड्मलीकृतो योऽञ्जलिकापुञ्जो हस्तबन्धकमलसमूहस्तस्य मध्ये राजहंस इवाचरतीति राजहंसायमानो मरालायमानः, शिखावलकुलस्य मयूरसमूहस्य यो नृत्यकलाविलासस्ताण्डवकलाविभ्रमस्तस्य सम्पादका विधायकास्तैः, गभीरतराश्च ते तूर्यनिनादाश्चेति तैस्तारतरवादिवशब्दैः, वाचालिता मुखरिता दशदिक्तटा दशाशातीराणि येन सः, धवलातपत्रे शुक्लच्छत्रे, शशिशङ्कया चन्द्रभ्रान्त्या समागतः सम्प्राप्तो यो विधुतुदो राहुस्तेन सम्भाव्यमाना समुत्प्रेक्ष्यमाणा तया, निरन्तरमनवरतं दन्दह्यमानः पुनःपुनरतिशयेन वा दह्यमानो यः कालागुरुः कृष्णागुरुस्तस्य धूमरेखा धूम्र श्रेणिस्तया, सुरभितः सुगन्धितः सविधप्रदेशो निकटप्रदेशो यस्य सः, निरन्तरं सततं निःसरन्त्यो निर्गलन्त्यो याः पदनखकान्तयश्चरणनखरदीप्तयस्ताभिः, निजाक्रमणेन स्वाधिष्ठानेन भिन्नं विदारितं यत्कुम्भस्थलं गण्डस्थलं तस्माद्विगलन्पतन् यो मौक्तिकनिचयो मुक्ताफलसमूहस्तस्य शङ्का सन्देहम्, अङ्कुरयन्नुत्पादयन् , एकदा युगपद् उदिता उद्गता ये कोटिसूर्याः कोटिसंख्याप्रमितदिवाकरास्तैरिव, विमानरूढव्योमयानाधिष्ठितः, यतैय॑न्तरामरविशेपैः, परितः समन्तात् , स्तूयमानं श्लाध्यमानं वैभवमैश्वर्यं यस्य सः, नटन्तीनृत्यं कुर्वन्तीः सौदामिनीलता इव विद्युद्वल्लरीरिव, त्रिदशवनिता देवागनाः, निःसरन्तो निर्गलन्तो येऽपाङ्गाः कटाक्षास्त एव सुधातरङ्गिणी पीयूपसरित् तस्या मध्ये, भुजाभ्यां बाहुभ्यामुल्लासिता प्रकटिता या लास्यलीला नृत्यकेलिस्तस्या वशेन, प्लवन्तीरिव तरन्तीरिव, समाकलयन्पश्यन् , शनैः शनैः मन्दं मन्दं क्रमश इति यावत् , वृन्दारका देवा एव वन्दिसन्दोहाः स्तुतिपाठकसमूहास्तैः पापठ्यमाना पुनःपुनरतिशयेन वा पध्यमाना या विरुदावलिः कीर्तिगाथा तया मुखरीकृतकन्दरतया वाचालितगह्वरतया, प्रतिध्वानवशेन प्रतिध्वनिवशेन, स्वयमपि स्वतोऽपि, स्तुति स्तवनम्, आचरन्तमिव कुर्वन्तमिव, चन्द्रोदयनामानं चन्द्रोदयाभिधानम्, भूमिवरं पर्वतम्, एत्य प्राप्य, तत्र चन्द्रोदयपर्वते, विचित्रो विलक्षणो यो रत्नमयमण्डपो मणिमयास्थानं तस्य मध्ये, सरमसः सवेगः सन्नाह उद्योगो येषां तैः, अमृतं पीयूपमन्धो भोजनं येपां तेऽमृतान्धसस्तेपां समूहास्तैः, समानीतं प्रापितम्, भूतं सदेहम्, सकलानुरागमिव सर्वप्रीतिपुञ्जमिव, पद्मरागमयं लोहितकमणिनिर्मितम्, सिंहविष्टरं सिंहासनम्, अलञ्चकार भूपयामास ।
प्रणेदुरिति-तत्र मण्डपे, प्रतिध्वानिताः प्रतिनादिताः कन्दरा गुहा यैस्ते, पटहा आनकाः प्रणेदुः प्रणदन्ति स्म, मञ्जु मनोहरं यथा स्यात्तथा, गायन्न्यो गानं कुर्वन्त्यः, किन्नर्यः किन्नरस्त्रियः, समन्ताद् विप्वग, ननृतुश्च नृत्यन्ति स्म च ॥१०॥
ततः कलशवारिधिमिति-ततस्तदनन्तरम्, यक्ष धिपः सुदर्शनः, करसरोरुहेष पाणिपद्मेष्वञ्चिताः