________________
Pr---
-
--
--------rrrrr
पञ्चमो लम्भः चमूमवलोक्य करुणार्द्रमानसः कुरुकुलोत्तंसः क्षुद्रप्राणिवधेन किमिति युयुत्सामपास्य सकलापायापनयनदक्षस्य सुदर्शनयक्षस्य सस्मार।
यक्षाधिपः पृतनया सह तं समेत्य ___ शान्ति निनाय नरपालवलानि सद्यः । जीवन्धरं जयगिरिप्रथितं करीन्द्र
कौतूहलं च हृदयं कृतकृत्यतां स्वम् ।।८।। दन्तावलोऽयं कटदानधारासौरभ्यलोभागतभृङ्गसङ्घः ।
जीवन्धरश्रीपद पद्मसङ्गाद् रराज पापैरिव मुच्यमानः ।।६।। तद्नु सुरवारणमारूढः, पाश्वद्वयविधूयमानाभ्यां मुखकमलभ्रान्तिसमागतहंसमिथुनशङ्कावहाभ्यामनुरक्तयक्षाधिपराज्यलक्ष्मीप्रहितकटाक्षच्छटाभ्यामिवोर्ध्वप्रसृतदन्तयुगलनिर्गलत्कान्तिकल्लोला - भ्यामिव कमलशशाङ्कयो विजयेन मुखमभितः सेवमानाभ्यामिव कीर्तिशावकाभ्यां भुजदण्डवास्तव्यजयलक्ष्मीमन्दहासरुचिपूराभ्यामिव क्षीराब्धिडिण्डीरचयाभ्यामिव चामराभ्यां विभ्राजितः, यशोविजिततया सेवार्थमागतेन परितोलम्बमानमुक्ताफलच्छलतारामण्डलमण्डितचन्द्रविम्बेनेव कीर्तिक्षीरवाराशिफेनपुञ्जनेव मुखचन्द्रभ्रमसमागतपरिवेपेणेव सुरकराम्बुरुहविधृतकनकदण्डरुचिरसारेण सर्वारम्भेण, प्रेषितां प्रहिताम्, चमू सेनाम्, अवलोक्य दृष्ट्वा, करुणयानुकम्पयाई क्लिन्नं मानसं चित्तं यस्य सः, कुरुकुलोत्तंसः कुरुवंशालङ्कारः, जीवन्धर इति यावत्, क्षुद्राणां प्राणिनां वधस्तेन दुर्बलजनसंहारेण, किं किं प्रयोजनम्, इति विचार्य, योद्धुमिच्छा युयुत्सा ताम्, अपास्य त्यक्त्वा, सकलाश्च तेऽपायाश्चेति सकलापाया निखिल विघ्नानि तेषामपनयने दूरीकरणे दक्षः समर्थस्तस्य, सुदर्शनयक्षस्य कुक्कुरचरव्यन्तरस्य, सस्मार स्मरणञ्चकार । 'अधीगर्थदयेषां कर्मणि' इति षष्ठी।
__ यक्षाधिप इति-यक्षाणामधिपो यक्षाधिपः सुदर्शनः, पृतनया सेनया, सह सार्धम्, तं जीवन्धरम्, समेत्यागत्य, सद्यो झटिति, नरपालस्य बलानि नरपालवलानि राजसैन्यानि, शान्ति विवशताम्, निनाय प्रापयामास, जीवन्धरं सात्यन्धरिम्, जयगिरिरिति नाम्ना प्रथितः प्रसिद्धस्तं जयगिरिप्रथितम्, करीन्द्र गजेन्द्रम्, निनाय, हृदयं चित्त, सर्वेषामिति शेपः, कौतूहलं कुतुकम्, निनाय, स्वञ्च आत्मानन्च, कृतकृत्यता विहिनप्रत्युपकारताम्, निनाय । वसन्ततिलकावृत्तम् ॥८॥
दन्तावलोऽयमिति-अयं सुदर्शनसमर्पितः, दन्तावलो गजः, कटयागंण्डयोर्या दानधारा मदसन्ततिस्तस्याः सौरभ्यं सौगन्ध्यं तस्य लोभेन तृष्णया आगताः प्राशा ये भृङ्गसङ्घा भ्रमरसमूहास्तः, जीवन्धरस्य सात्यन्धरः श्रिया शोभयोपलक्षिते पदपझे चरणकमले तयोः सङ्गः संसर्गस्तस्मात्, पापैः कल्मः, मुच्यमानस्त्यज्यमान इव, रराज शुशुभे । उत्प्रेक्षालङ्कारः ॥ ६ ॥
तन्विति-तदनु तदनन्तरम्, सुरवारणं देवगजम्, आरूढोऽधिष्टितः, पार्श्वद्वये तटयुगले विधूयमानाभ्यां कम्प्यमानाभ्याम्, मुखे वदने कमलस्य पद्मस्य भ्रान्त्या सन्देहेन समागतं समायातं यद्धंसमिथुनं मरालदम्पती तस्य शङ्कावहाभ्यां सन्देहधारकाभ्याम्, अनुरक्ता प्राप्तानुरागा या यक्षाधिपराज्यलक्ष्मीः सुदर्शनराज्यश्रीस्तया प्रहिताः प्रेरिता ये कटाक्षाः केकरास्तेषां छटाभ्यामिव श्रेणिभ्यामिव, ऊर्ध्वप्रसृतमुपरि विस्तृतं यहन्तावलदन्तयुगलं द्विरदरदनयुग्मं तस्मान्निगलन्त्या निःसरन्त्याः कान्तेर्दीप्तेः कल्लोलो तरङ्गो ताभ्यामिव, कमलशशाङ्कयोः पद्मचन्द्रयोः, विजयेन पराभवेण, मुखमभितो वक्त्रस्योभयपार्श्वयोः, सेवमानाभ्यां शुश्रूषांकुर्वाणाभ्याम्, कीर्तिशावकाभ्यामिव यशोबालकाभ्यामिव, भुजदण्डयो हुदण्डयोर्वास्तव्या निवासिनी या जयलक्ष्मीविजयश्रीस्तस्या मन्दहास्यरुचेः स्मितकान्तेः पूराभ्यामिव प्रवाहाभ्यामिव, सीराब्धेः क्षीरसागरस्य डिण्डीरोऽब्धिकफस्तस्य चयाभ्यामिव समूहाभ्यामिव, चामराभ्यां बालव्यजनाभ्याम् , विभ्राजितः शोभितः, यशसा कीर्त्या विजिततया पराभूतत्वेन, सेवार्थं शुश्रपार्थम्, आगतेन प्राप्तेन, परितो लम्बमानं समन्ताल्लम्बमानं मुक्ताफलच्छलं मौक्तिकव्याज तारामण्डलं नक्षत्रसमूहस्तेन मण्डितं शोभितं यच्चन्द्रबिम्बं विधुमण्डलं तेनेव, कीर्तिरेव यश एव क्षीरवाराशिः पयःसागरस्तस्य फेनपुञ्जेनेव डिण्डीरसमूहेनेव, मुखे वदने चन्द्रभ्रमेण