________________
६२
जीवन्धरचम्पूकाव्ये
गजा जगर्जुः प्रटहाः प्रणेदुर्जिहेषुरश्वाश्च तदा रणाग्रे | कुमारबाहासुखसुप्तिकायाः प्रबोधनायेव जयेन्दिरायाः ॥ ४ ॥ कराञ्चितशरासनादविरलं गलद्भिः शरै
लुलाव कुरुकुञ्जरो रिपुशिरांसि चापैरमा । बिभेद गजयूथपान् सुभटधैर्यवृत्त्या समं
ववर्ष शरसन्ततिं सममिभोद्गतैमौक्तिकैः ।। ५ ।।
ततश्च हतशेषेषु सैनिकेषु तदीयप्रक्ष्वेडनाध्यापकाद्धीतवेगेषु तदभ्यासायेव दिशि दिशि पलायमानेषु विच्छिन्नशरासनरथादिपरिकरतया कम्पमानमवलोक्य कुरुवीरो गभीरतरमेवमवादीत् । भवादृशे भुजोऽयं मे न बाणं मोक्तुमीहते ।
गच्छ गच्छ भयेनालं ब्रूहि राज्ञे कथामिमाम् ॥ ६॥ जेतुमरमान् मृ'धारम्भे नेतुं कीर्तिं दिगन्तरम् । भवान्तरे च चतुरं मन्यते यः स दुर्मतिः ॥ 11
तावदिदं वृत्तमाकर्ण्य कोपसंज्वलितनयनाङ्गारेण काष्टाङ्गारेण पुनरपि सर्वाभिसारेण प्रेषितां
गजा इति--तदा तस्मिन्काले, रणाग्रे समराग्रे, कुमारस्य जीवन्धरस्य बाहायां भुजे सुखसुप्तिः सुखशयनं यस्यास्तस्याः जयेन्दिराया विजयलक्ष्म्याः, प्रबोधनायेव जागरणायेव, गजा हस्तिनः, जगर्जुर्गर्जन्ति स्म, पटहाः ढक्काः प्रणेदुः प्रणदन्ति स्म, अश्वाश्च हयाश्च, जिहेपुर्हेपत्ते स्म, अत्र परस्मैपदप्रयोगोऽपाणिनीयः । 'बाहो बाहुरिति स्मृतः' इति देशिकोशः, 'स्त्रियां तु भुजा बाहा' इति च । उत्प्रेक्षा ॥४॥
कराचितशरासनादिति - कुरुकुञ्जरः कुरुश्रेष्ठो जीवन्धर इति यावत्, कराञ्चितं हस्तशोभितञ्च तच्छुरासनं धनुश्चेति तस्मात्, अविरलं निरन्तरायम्, गलद्भिः पतद्भिः शरैर्बाणैः, चापै रिपुकोदण्डैः, अमा सह, रिपूणां शत्रूणां शिरांसि मस्तकानि लुलाव चिच्छेद, सुभटानां योद्धृणां धैर्यवृत्तिर्धीरताद्वृत्तिस्तथा, समं सह, गजयूथपान् गजगणनाथान् 'गणनाथस्तु यूथपः' इत्यमरः, बिभेद भिनत्ति स्म इभोद्वतैर्गजसमुच्छलितैः, मौक्तिकैर्मुक्ताफलैः समं सार्धम्, शरसन्ततिं बाणसमूहम्, ववर्ष वर्षति स्म । सहोक्तिरलङ्कारः, पृथ्वीच्छन्दः ||५||
ततश्चेति—ततश्च तदनन्तरञ्च हतशेषेषु मृतावशिष्टेषु, सैनिकेषु सैन्येषु, तस्यायं तदीयः स teaser नाराचश्चेति तदीयप्रच्वेडनः स एवाध्यापक उपाध्यायस्तस्मात्, 'प्रवेडनास्तु नाराचा:' इत्यमरः, नाराचो लोहमयो बाण इति यावत् । अधीतः शिक्षितो वेगो रयो यैस्तेषु तदभ्यासायेव तद्गुणनिकार्थमित्र 'योग्या गुणनिकाभ्यासः' इति धनञ्जयः, दिशि दिशिं प्रतिकाष्टम्, पलायमानेषु धावमानेषु सत्सु विच्छिन्नो व्युच्छेदं गतः शरासनरथादिपरिकरो धनुःस्यन्दनप्रभृतिसामग्री यस्य तस्य भावस्तया, कम्पमानं भयचञ्चलम्, मथनं कृतघ्नश्यालम्, अवलोक्य दृष्ट्वा कुरुवीरो जीवन्धरः, गभीरतरमतिशयेन गभीरं यथा स्यात्तथा, एवं वच्यमाणप्रकारेण, अवादीत् कथयाञ्चकार ।
भवादृश इति मे मम, अयमेपः भुजो बाहु:, भवादृशे त्वत्सदृशे, बाणं शरम्, मोक्तुं व्यक्तुम्, नेहते न चेष्टते, तद् गच्छ गच्छ याहि याहि, भयेन भीत्या, अलं व्यर्थम् राज्ञे काष्टाङ्गाराय, इमामेताम्, कथां वार्ताम्, बूहि कथय ॥ ६ ॥
जेतुमिति - यः कोऽपि भवान्तरे संसारमध्ये, मृधारम्भे समरारम्भे, अस्मान् गन्धोत्कटसुतान् जेतुं पराभवितुम्, कीर्ति ं यशश्च दिगन्तरं काष्ठान्तरम्, चतुरं विदग्धं स्वमिति शेषः, मन्यते जानाति, स दुर्मतिदुर्बुद्धिः, अस्तीति शेषः ॥७॥
तावदिदमिति — तावत् तावता कालेन इदमेतत्, वृत्तं समाचारम्, आकर्ण्य श्रुखा कोपेन संज्वलितमरुणीभूतं नयनमेव नेत्रमेवाङ्गारो यस्य तेन, काष्ठाङ्गारेण राजनेन, पुनरपि भूयोऽपि, सर्वाभि
१. सुधारम्भे ब० ।