SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ पञ्चमो लम्भः शत्रुजीवकबलीकरणेषु दक्षजीवकवलं मनसैव । आलिहन्नथ करी तृणरूपं प्रागिव स्वकवलं विजहौ सः ॥ १॥ कुण्डलेन हतः सोऽयं कुण्डलीकृतदुर्मदः । रोष सोर्मिकमातेने कटकाश्रितकुञ्जरः ॥२॥ तदेतन्निशम्य विशांपतिर्विशालक्रोधानलं वनौकःसङ्घविजयेन सञ्जातं वल्लकीविजयेन पल्लवितमनङ्गमालासङ्गेन सन्दीपितं शुण्डालपतिशिरोमण्डलकुण्डलताडनेन जाज्वल्यमानं कुमारनिकारेण शिशमयिपुः काष्ठाङ्गारः, संगरे भङ्गुरं कुमारं हस्तग्राहं गृहीध्वमिति मथनप्रमुखान्नियोज्य, संयोज्य च गजरथतुरगपादातशबलेन बलेन सह प्रादेषीत् । वलं पुरोधाय रथाधिरूढः प्रचण्डवृत्तिर्मथनश्चचाल । ज्ञात्वा कुमारोऽपि सहायजुष्टो रथी युयुत्सू रिपुमानशे तम् ।। ३ ।। शत्रुजीवेति-अथ जीवन्धरकृतताडनानन्तरम्, स पूर्वोक्तः, करी हस्ती, शत्रुजीवानामरातिप्राणानां कबलीकरणेष ग्रासीकरणेष, दक्षः समर्थों यो जीवको जीवन्धरस्तस्य बलं शक्त्यतिशयम्, अथ च कस्यात्मनो बलं कबलं, दक्षजीवस्य पराक्रमपटुजीवन्धरस्य कबलमात्मबलमेव कबलं ग्रासम्, मनसैव चेतसैव, आलिहन् आस्वादयन् सन् , प्रागिव पूर्वमिव, तृणरूपं घासात्मकम्, स्वकबलं स्वग्रासम्, विजही तत्याज, 'ओहाक् त्यागे' इत्यस्य लिटि रूपम् । स्वागताच्छन्दः॥ १ ॥ कुण्डलेनेति-कुण्डलीकृता नम्रीकृता दुर्मदा दुर्मानिनो येन सः, सोऽयं पूर्वोक्तः, कटकाश्रितश्चासौकुञ्जरश्चेति कटकाश्रितकुञ्जरः सेनागतो राजधानीगतो वा हस्ती 'कटकोऽस्त्री राजधान्यां सानौ सेनानितम्बयोः । वलये सिन्धुलवणे दन्तिदन्तविभूपणे' इति विश्वलोचनः, कुण्डलेन वलयेन हस्तकटकेनेति यावत् 'कुण्डलं कर्णभूपायां पाशेऽपि वलयेऽपि च' इति मेदिनी, हतस्ताडितः सन् , सोमिकं सतरङ्गम्, उत्तरोत्तरवर्धमानमिति यावत् , रोषं क्रोधम्, आतेने विस्तारयामास ॥ २॥ तदेतदिति-तदेतत् कुञ्जराहारवर्जनवृत्तम्, निशम्य श्रुत्वा, विशाम्पतिः प्रजापतिः, वनं काननमोकः स्थानं येषां ते वनौकसः शबरास्तेषां सङ्घः समूहस्तस्य विजयः पराजयस्तेन, सञ्जातं समुत्पन्नम्, वल्लक्यां वीणायां विजय उत्कर्षप्राप्तिस्तेन, पल्लवितं वृद्धिङ्गतम्, अनङ्गमालासङ्गेन तन्नामाङ्गनासमागमेन, सन्दीपितं सन्धुक्षितम्, शुण्डालपतेर्गजेन्द्रस्य शिरोमण्डलं मूर्धमण्डलं तस्य कुण्डलेन हस्तकटकेन ताडनं पीडनं तेन, जाज्वल्यमानमतिशयेन प्रज्वलन्तम्, विशालचासौ क्रोधानलश्चेति विशालक्रोधानलस्तम् प्रभूतकोपपावकम्, कुमारस्य निकारो विप्रकारस्तेन ‘निकारो विप्रकारः स्यात्' इत्यमरः, शिशमयिषः शमयितुमिच्छुः, काष्टाङ्गारः कृतघ्नशिरोमणिः, सङ्गरे युद्धे, अभङ्गुरमविनाशिनम्, कुमारं जीवन्धरम्, हस्तेन गृहीत्वेति हस्तग्राह करग्राहम् 'हस्ते वर्तिग्रहोः' इति णमुल्, गृह्णीध्वं गृहीतं कुरुध्वम्, इत्येवम्, मथनप्रमुखान् मथनप्रधानान् , नियोज्य नियुक्तान् विधाय निदेशं दत्वेति यावत् , गजाश्च रथाश्च तुरगाश्च पादातञ्चेति गजरथतुरगपादातं वारणशताङ्गहयपत्तिसमूहस्तेन शबलेन कवुरेण, बलेन सैन्येन, सह सार्धम् ग्राहैषीत् प्रजिघाय। बलमिति-रथाधिरूढः स्यन्दनमधिष्ठितः, प्रचण्डातितीक्ष्णा वृत्तिर्व्यवहृतिर्यस्य तथाभूतः, मदनः काष्टाङ्गारश्यालः, बलं सैन्यम्, पुरोधायाने कृत्वा, चचाल, चलति स्म । सहायैमित्रैर्जुष्टः सेवित इति सहायजुष्टः, रथी रथाधिष्ठितः, कुमारोऽपि सात्यन्धरिरपि, ज्ञात्वा मथनाभियानं बुद्ध्वा, योद्धुमिच्छुयुयुत्सुः सन्, तं मथनम्, आनशे प्राप 'अशू व्याप्तौ संघाते च' इत्यस्य लिटि रूपम्, 'अश्नोतेश्च' इति नुत् ॥३॥
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy