________________
६०
जीवन्रचम्पूकाव्ये
कुसुमातिशायि सुकुमारमङ्गकं दधती नभःस्थलनिकाशमध्यमम् । कुसुमेषुकार्मुकलतेव भाति या विवली तदङ्गलिसुसन्धिरेखिका ॥ ३८ ॥ यस्याः सुधासमरसाधरपल्लवाये
मन्दस्मितैः कुसुमितैः कुरुवंशकेतोः । नेत्राम्बुजे तु फलिते हृदयं रसस्य
धारामसूत सपदीति विचित्रमेतत् ॥ ३६ ॥ तानामुपायं कुरुसन्तानकुञ्जरः । चिक्रीडाधित्यकाभागे चिरं मोद्महीभृतः ॥ ४० ॥
इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पू काव्ये गुणमालालम्भो नाम चतुर्थो लम्भः
कुसुमातिशायीति - कुसुमं पुष्पमतिशेत इत्येवं शीलमिति कुसुमातिशायि, सुकुमारमतिमृदुलम्, नभःस्थल निकाशं गगनोपमानं शून्यमतिकृशमिति यावत्, मध्यममवलग्नं यस्य तत् 'मध्यमं चावलनं च मध्योऽस्त्री' इत्यमरः, अङ्गकं शरीरम् दधती बिभ्रती, त्रिवल्यो नाभेरधस्ताद्विद्यमानास्तिस्रः रेखा एवं तदङ्गुलीनां कामकरशाखानां सुसन्धिरेखिकाः सङ्गम लेखिका यस्यां तथाभूता या गुणमाला, कुसुमेपोर्मदनस्य कार्मुकलतेव चापवल्लरीव, भाति शोभते । उपमालङ्कारः । मञ्जुभापिणीवृत्तम् 'सजसा जगौ भवति मञ्जुभाषिणी' इति लक्षणात् ॥ ३८ ॥ यस्या इति-यस्या गुणमालायाः, सुधासमः पीयूषतुल्यो रसो यस्य स चासावधरपल्लवश्च तस्याग्रे, कुसुमितैः पुष्पवदाचरितैः, मन्दस्मितैर्मन्दहसितैः कुरुवंश के तोर्जीवन्धरस्य, नेत्राम्बुजे नयनकमले फलि सञ्जातफले बभूवतुरिति शेषः । हृदयं तु चित्तं तु सपदि शीघ्रम्, रसस्य फलसारस्य धारां सन्ततिम् असूत जनयामास इत्येतत्, विचित्रमाश्चर्यम्, अस्तीति शेषः । ये फलिते तयोरेव रसधारोत्पत्तिरुपपद्यते, अत्र तु स्थानभेदादाश्चर्यमिति भावः । गुणमालाया अधरबिम्बे मन्दस्मितं दृष्ट्वा जीवन्थरस्य नेत्रे सफले जाते, हृद यञ्च तस्य शृङ्गाररसाप्लुतं बभूवेति परिहारः । असङ्गतिरलङ्कारः । वसन्ततिलकावृत्तम् ॥ ३६ ॥
2
तामेनामिति - अयमेषः, कुरुसन्तानकुञ्जरो जीवन्धरगजः, एनां ताम् गुणमालाम्, उपयस्य विवाह्य, मोदीभृतः सम्म शैलस्य 'मुत्प्रीतिः प्रमदो हर्पः प्रमोद मोदसम्मदाः' इत्यमरः, अधित्यकाभागे उपरि भागे 'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' इत्यमरः, चिरं चिरकालपर्यन्तम्, चिक्रीड क्रीडति स्म |
रूपकालङ्कारः ॥ ४० ॥
इति महाकविहरिचन्द्रविरचिते श्रीमति कौमुदीव्याख्याधरे जीवन्धरचम्पूकाव्ये गुणमालालम्भो नाम चतुर्थो लम्भ: