SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चतुर्थो लम्भः निपतितैरपाङ्गैः सर्वत्र मपिलिप्त इव विचित्रे पत्रे रमणीयाक्षरमणीनपश्यन्ती, प्रीतिलतापुष्पायमाणमन्दहासधवलीकृते तस्मिन्विलिखितं पद्यं वाचयन्ती वाचामगोचरमानन्दमभजत । τε तदिदं वृत्तमवेत्य कन्यकायाः पितराविङ्गितचेष्टितादिभिश्च । मुमुदाते स्म वरो हि योग्यभाग्यप्रथितो दुर्लभ एव बोभवीति ।। ३६ ।। तदनु गन्धोत्कटान्तिकं नीताभ्यां काम्याञ्चिदामुष्यामाणाभ्यामिमं वृत्तान्तं श्रवणपुटेनात्रायाश्चर्यवृत्तिरयं मनस्यामोमातन्वन् रसनयानुमतिवचनमकरन्दद्धारामुद्भिरति स्म । शुभंयुगुणसम्पन्ने मुहूर्ते गुणमालिकाम् । पुत्र कुबेर मित्रस्य परिणिन्येऽथ जीवकः ।। ३७ ।। तदा परिणयोचितभूषावे पोज्ज्वलः साक्षात्कन्दर्प इव सन्तर्पितसकलमनुजनयनः कुरुवंशवीरो जीवन्धरः सम्म विस्तारितलोचनाभ्यां नयमालानन्दिनीमपि विनयमालानन्दिनीं गुणमालां विलोकयामास । हर्पेणोच्छूनं स्थूलमङ्ग ं देहो यस्यास्तस्या भावस्तत्ता तया स्फुटितं भुजयुगलस्य पीनतया भिन्नं कञ्चुकं कूर्पासकं यस्य तेन, भुजयुगलेन प्रवेष्टद्वयेन 'भुजवाहू प्रवेष्टो दो:' इत्यमरः, आदाय गृहीत्वा च पत्रं जीवन्वरप्रेषितं संदेशकर्गलम्, निरन्तरं निर्व्यवधानं यथा स्यात्तथा निपतितैरुपरि प्राप्तैः, अपाङ्गैः कटाक्षैः, सर्वत्र सर्वप्रदेशेषु, लिप्त इव मेलानन्दव्याप्त इव, विचित्रेऽद्भुतप्रकारे, पत्रे सन्देशकगले, रमणीयाक्षराण्येव सुन्दरवर्णा एव यो रत्नानि तान् अपश्यन्ती अनवलोकयन्ती, प्रीतिलतायाः स्नेहव्रततेः पुष्पायमाणेन कुसुमायमानेन मन्दहासेन धवलीकृते वलक्षीकृते, तस्मिन् पत्रे, विलिखितमङ्कितम्, पद्यं सन्देशश्लोकम्, 'मम नयनमराली' इत्यादिकम् पठन्ती, वाचां गिराम, अगोचरमविषयम्, आनन्दं हर्षम्, अभजत प्राप्तवती । तदिदमिति - - माता च पिता चेति पितरौ मातापितरौ ' मातापितरौ पितरौ मातरपितरौ स्वसू जनयितारौ' इत्यमरः, इङ्गितं हृद्वतो विकारः, चेष्टितं शारीरिकचेष्टा, ते आदौ येषां तैः कन्यकायाः पतिंवरायाः इदं तत्पूर्वोक्तम्, वृत्तमुदन्तम्, अवेत्य ज्ञात्वा मुमुदाते स्म प्रसन्नौ बभूवतुः, हि यतः, योग्यभाग्येन समीचीनादृष्टेन प्रथितः प्रसिद्धः, वरो वरेण्यः, दुर्लभ एव दुष्प्राप्य एव, बोभवीति अतिशयेन भवति, 'धातोरेकाची हलादेः क्रियासमभिहारे यङ्' इति यङ्, 'यङोऽचि च' इति यङो लुक् ॥ ३६ ॥ तदन्विति — तदनु तदनन्तरम्, गन्धोत्कटस्य वणिग्वरस्यान्तिकं निकटम्, नीताभ्यां प्रेषिताभ्याम्, काभ्यांचित् आमुष्यामाणाभ्यां गुणमालासम्बन्धिभ्याम्, पुरुषाभ्यामिति यावत्, इमं पूर्वोक्तम्, वृत्तान्तं समाचारम्, श्रवणपुटेन कर्णपुटेन, आघ्राय गृहीत्वा आश्चर्यवृत्तिर्विस्मितमनाः अयं गन्धोत्कटः, मनसि स्वान्ते, आमोदं हर्षम्, आतन्वन् विस्तारयन्, रसनया जिह्वया, अनुमतिवचनमेव स्वीकृतिवाण्येव मकरन्धारा पुष्पासवश्रेणिस्ताम्, उद्विरति स्म प्रकटयति स्म ॥ शुभंयुगुणसम्पन्न इति - अथोभयपक्षगतप्रमुखजनस्वीकृत्यनन्तरम्, जीवको जीवन्धरः, शुभमस्ति येषां ते शुभंयवः ‘अहंशुभमोर्युस्' इति मतुबर्थे युस्प्रत्ययः, शुभंयवश्च ते गुणाश्चेति शुभंयुगुणा मङ्गलगुणास्तैः सम्पन्ने सहिते, मुहूर्ते समये, कुबेरमित्रस्य तन्नाम्नो वणिग्वरस्य पुत्रीं तनयाम्, गुणमालिकाम्, परिणिन्ये परिणीतवान्, उदवोदेति भावः ॥ ३७ ॥ तदेति तदा परिणयनकाले, परिणयोचिताभ्यां विवाहयोग्याभ्यां भूषावेपाभ्यामलङ्करणनेपथ्याभ्यामुज्ज्वलः शोभमानः, साक्षात्कन्दर्प इव, प्रत्यक्षकाम इव, सन्तर्पितानि प्रीतानि सकलमनुजानां निखिलनराणां नयनानि लोचनानि येन सः, कुरुवंशवीरः कुरुवंशसुभटः, जीवन्धरो जीवकः, सम्मदेन हर्षेण विस्तारिते वर्धिते ये लोचने नयने ताभ्याम्, नयमालया नीतिपरम्परया नन्दयतीत्येवं शीला तामपि सतीम्, न तथाभूतामिति विनयमालानन्दिनीमिति विरोधः, पक्षे विनयस्य नम्रताया माला पक्तिस्तया नन्दिनीं नन्दनशीलामिति, गुणमालां कुबेरमित्रपुत्रीम्, विलोकयामास ददर्श । १२
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy