SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये आनन्दवाप्प संरुद्धकन्धरो गद्गदं पठन् । तदेवं विलिलेखाशु पत्रं तां प्रति मोदतः ।। ३४ ।। मम नयनमराली प्राप्य ते वक्त्रपझं तदनु च कुचकोशप्रान्तमागत्य दृष्टा । विहरति रसपूर्णे नाभिकासारमध्ये यदि भवति वितीर्णा सा त्वया तं ददामि ।। ३५ ॥ तावदन्तरुज्ज्वलितमनसिजाग्निधूमनिकरेणेव निश्वासेन नीलमणीकृतनासामौक्तिका, क्षामक्षामाङ्गतया वलयीकृतकनकोमिका, मुखसुधाकरकौमुदीलिप्ततयेव परिपाण्डरतनुवल्ली, भावनाप्रकर्षवशेन दिशि दिशि परिस्फुरन्तं जीवन्धरमालोक्य प्रत्युत्थानाय कृतप्रयत्नापि मृणालकोमलैरङ्गैरपारयन्ती, प्रेषितशुकागमनविलम्बासहतया त्रस्तैकहायनकुरङ्गीवापाङ्गतरङ्गान्दिशि दिशि किरन्ती गुणमाला, समागतं जात्या कृत्येन च पत्रिणं शुकमुद्वीक्ष्य, एह्येहि न सहे विलम्बमिति समालपन्ती, सन्निहितं तं तत्समयजातप्रमोदोच्छूनाङ्गतया स्फुटितकञ्चुकेन भुजयुगलेनादाय च पत्रं निरन्तरइति विश्वलोचनः, मदीयहृदयाभिधं मच्चित्तनामधेयम् , नवं नूतनम् , कुसुमकन्दुकं पुष्पमयगेन्दुकम्, चोरितमपहृतम् , अद्यास्मिन् दिवसे, विमोहेन विभ्रमेण कलितोत्पलं स्तोत्पलम् , रुचिरेण मनोज्ञेन रागेण प्रेम्णा सत्पल्लवं विद्यमान किसलयम्, तत् पूर्वोक्तं कुसुमकन्दुकम् , हि निश्चयेन, वितीर्यतां प्रदीयताम् , रूपकालङ्कारः । पृथ्वीच्छन्दः ॥३३॥ आनन्दबाष्पेति-आनन्दबाप्पेण हाश्रुणा संरुद्वो निरुद्धः कन्धरो गलो यस्य तथाभूतः, जीवन्धरः, गद्गदं भिन्नस्वरं यथा स्यात्तथा, तत्पत्रम् , पठन् वाचयन् , तां प्रति गुणमालामुद्दिश्य, मोदतः संमदात् , आशु क्षिप्रम्, एवं वक्ष्यमाणप्रकारम् , पत्रं संदेशकर्गलम् , विलिलेख लिखितवान् ॥३४॥ मम नयनमरालीति-मम जीवन्धरस्य, नयनमराली लोचनहंसी, ते भवत्याः, वक्त्रपमं मुखकमलम् , प्राप्य लब्ध्वा, तदनु च मुखकमलप्राप्त्यनन्तरम् , कुचकोशप्रान्तं स्तनकुड्मलोपान्तम् , आगत्य समेत्य, हृष्टा प्रसन्ना सती, रसपूर्णे स्नेहसलिलपूर्णे, नाभिरेव कासारो नाभिकासारस्तुन्दिसरोवरस्तस्य मध्येऽभ्यन्तरे, विहरति विहारं करोति, क्रीडतीति यावत् , सा मम नयनमराली, त्वया भवत्या, वितीर्णा प्रदत्ता, भवति जायते, यदि चेत्, तर्हि तं त्वदीयहृदयाभिधं कुसुमकन्दुकम् , ददामि वितरामि । रूपकालङ्कारः । मालिनीच्छन्दः ॥ ३५॥ तावदन्तरिति-तावत् तावता कालेन, अन्तमध्येहृदयम्, उज्ज्वलितो ज्वालायुक्तो यो मनसिज एव काम एवाग्निर्वैश्वानरस्तस्य धूमनिकरेणेव धूम्रसमृहेनेव, निःश्वासेन श्वासोच्छासपवनेन, नीलमणीकृतं नासामौक्तिकं यया सा श्यामलीकृतनासिकामुक्ताफला, क्षामक्षाममतिशयेन कृशमङ्गं शरीरं यस्यारतस्या भावस्तत्ता तया, वलयीकृता हस्ताभरणीकृतोर्मिकाङ्गुलीयकं यया सा, मुखमेव वक्त्रमेव सुधाकरस्तस्य कौमुद्या ज्योत्स्नया लिप्ततयेव, व्याप्ततयेव, परिपाण्डुरा धवलपीता तनुवल्ली शरीरलता यस्याः सा, भावनायाः संस्कारस्य प्रकर्ष आधिक्यं तस्य वशस्तेन, दिशि दिशि प्रतिकाष्ठम्, परिस्फुरन्तं देदीप्यमानम्, जीवन्धरं जीवकम्, आलोक्य दृष्ट्वा, प्रत्युत्थानाय प्रत्युद्गमनाय, कृतप्रयत्नापि विहितायासापि, मृणालकोमलविसमृदुलैः, अङ्गरवयवैः, अपारयन्ती समर्था न भवन्ती, प्रेषितः प्रहितो यः शुकः कीरस्तस्यागमने प्रत्यावर्तने विलम्ब कालक्षेपं न सहते तस्या भावस्तया, वस्ता चासौ भीता चासावेकहायनकुरङ्गी चैकवर्षहरिणी चेति वस्तेकहायनकुरङ्गी तद्वत्, अपाङ्गतरङ्गान् कटाक्षभङ्गान् , दिशि दिशि प्रत्याशम्, किरन्ती प्रक्षिपन्ती, गुणमाला, समागतं समायातं, जात्या ज्ञात्या, कृत्येन च कार्येण च, पत्रिणं पक्षिणं पक्षे पत्रयुक्तम्, शुकं हरितच्छदम्, उद्वीचय उदवलोक्य, एह्यहि आगच्छ-आगच्छ, विलम्ब कालक्षेपम् , न सहे न सोढुं शक्नोमि, इत्येवं समालपन्ती समालापं कुर्वन्ती, सन्निहितं निकटवर्तिनम्, तं कीरम्, तत्समयजातेन तत्कालोत्पन्नेन प्रमोदेन १. वाण्या ब० । २. पाण्डुर ब० ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy