________________
चतुर्थो लम्भः इति बहुधा प्रलपन्ती, तीवनरमदनसन्तापमसहमाना क्षणं धनसारदीपिकापरिसरे क्षणमुपवनतटमञ्जलनिकुञ्ज क्षणमास्तृतकुसुमतल्प क्षणं मृदुलप्रवालशय्यातले क्षणं सुकुमारहंसतृलशयने क्षणं नक्कदलीकानने कालं क्षिपन्ती, क्रमेण पदिकां विलिख्य, कञ्चन क्रीडाशुकं जीवन्धगय प्राहैपीत् । जीवन्धरोऽपि बहुधा विरहाग्निलीढ
मङ्ग दधन्निजगृहोपवने निपण्णः । चित्रे विलिख्य कमनीयतमं तदङ्ग
निःश्वस्य विश्वमहितः सुचिरं लुलोके ।। ३२ ।। तावदागत्य चाटुवचनचतुरेण कारेण प्रसंगात्समर्पितं पत्रं फलितमनोरथसुरतपत्रमिवादाय तत्क्षणमेव द्रष्टुकामोऽप्यानन्दवाष्पनिरुद्धनयनमागतया विनितो मोदपरीवाहं कथं कथमपि नियम्य जीवन्धरो वाचयति स्म।
मदीयहृदयाभिधं मदनकाण्डकाण्डोद्यतं'
नवं कुसुमकन्दुकं बनतटे त्वया चोरितम् । विमोहकलितोत्पलं रुचिररागसत्पल्लवं
तदद्य हि वितीर्यतां विजितकामरूपोज्ज्वल ।। ३३ ॥ इति बहुधेति-इतीत्थम्, बहुधा नानाप्रकारेण, प्रपन्ती निरर्थक कथयन्ती, 'प्रलापो नर्थकं वचः' इन्यमरः । अतिशयेन तीवस्तीव्रतरः स चासौ मदनसन्तापश्चेति तीव्रतरमदनसन्तापस्तं तीषणतरकामतापम्, असहमाना सोढुमशक्नुवती, क्षणं क्षणकालं यावत्, घनसारस्य क'रस्य दीर्विका वापिका तस्याः परिसरो निकटप्रदेशस्तस्मिन् , क्षणम्, उपवनतटे विद्यमानं यन्मन्जुलनिकुञ्ज तस्मिन् उद्यानतटकमनीयलतागृहे, क्षणम्, आस्तृतं विस्तारितं यत्कुसुमानां पुष्पाणां तल्पं शयन तस्मिन्, क्षणम्, मृदुलाश्च ते कामलाश्च ते प्रवालाश्च किसलयाश्च ति मृदुलप्रवालास्तेषां शय्यातलं शयनपृष्टं तस्मिन्, क्षणम्, सुकुमारमतिमृदुलं यद्धंसतूलशयनं तस्मिन् , क्षणम्, नवं च तत् कदलीकाननञ्चेति नवकदलीकाननं तस्मिन् प्रत्यग्रमोचारामे, कालमनेहसम्, क्षिपन्ती गमयन्ती, क्रमेण क्रमशः, पत्रिका संदेशपत्रीम्, विलिख्याङ्कयित्वा, कञ्चन कमपि, क्रीडाशुकं केलिकीरम्, जीवन्धराय जीवकाय, प्राहैपीत्प्रेषयामास । 'हि गतौ वृद्धौ च' इत्यस्य लुङि रूपम् । 'सिन्चि वृद्धिः परस्मैपदेपु' इति वृद्धिः ।।
जीवन्धरोऽपीति--विश्वैर्महितो विश्वमहितः सर्वपूजितः, जीवन्धरोऽपि जीवकोऽपि, बहुधा बहुप्रकारेण, विरहाग्निना विप्रलम्भानलेन लीढं व्याप्तमिति विरहाग्निलीढम्, अझं शरीरम् , दधन् विन्, निजगृहस्य स्वभवनस्योपवने वाटिकायाम्, निपण्ण उपविष्टः सन् , कमनीयतममतिमनोहरम्, तस्या अङ्ग तदङ्ग गुणमालाशरीरम्, चित्रे आलेख्ये, विलिख्य लिखित्वा, निःश्वस्य साक्षात्याप्त्यभावजन्यदुःखेन दीर्घ श्वासमादाय, सुचिरं सुदीर्घकालेन, लुलोकेऽद्राीत् । वसन्ततिलकावृत्तम् ॥३२॥
तावदागत्येति तावत् तावता कालेन, आगत्य समेत्य, चाटुवचने मधुरालापे चतुरो विदग्धस्तेन, कीरेण शुकेन, प्रसङ्गादवसरात् , समर्पितं प्रदत्तम्, पत्रं संदेशकर्गलम्, मनोरथ एव सुरतरुरिति मनोरथसुरतरुः, फलितश्चासौ मनोरथसुरतरुश्चेति फलिमनोरथसुरतरु तस्य पत्रमिव, फलितवाञ्छितकल्पानोकहकिसलयमिव, आदाय गृहीत्वा, द्रष्टुक्रामोऽप्यवलोकयितुमना अपि, आनन्दबाप्पेण हर्पाश्रुणा निरुद्धोऽवरूद्रो नयनमार्गो यस्य तस्य भावस्तत्ता तया, विनितः प्राप्तान्तरायः, जीवन्धरो जीवकः, कथं कथमपि केन केनापिप्रकारेण, मोदपरीवाहं प्रहर्षपरम्पराम्, नियम्य, निरुध्य, वाचयतिस्म वाचयामास ।
मदीयेति-विजितः पराजितः कामो येन तथाभूतेन रूपेण सौन्दर्येणोज्ज्वलो विमलस्तत्सम्बुद्धौ हे विजितकामरूपोज्ज्वल ! वनतटे काननतीरे, त्वया भवता, मदनस्य कामस्य काण्डो बाण एव काण्डो दण्डस्तेनोद्यतमुच्छालितम् , 'काण्डोऽस्त्री वर्गबाणार्थनालावसरवारिषु । दण्डे प्रकाण्डे रहसि स्तम्बे कुत्सितकुन्सयोः'
१. भिधो, ब० । २. द्यतो ब० ॥ ३ कन्दुको ब० । ४. चोरितः ब० । ५ स एष हि ब० ।